________________
. २१६ ]
... बंधविहाणो मूलपयडिठिबंधो [ मार्गणास्वायुःकर्मणः तथाहि-अपर्याप्ततिर्यक्पञ्चेन्द्रियमार्गणायां कश्चिद् मार्गणान्तरादागत उत्कृष्टस्थितिको लब्ध्यपर्याप्तपञ्वेन्द्रियतिर्यग्जीवो वेद्यमानायुषो भागद्वयेऽतिक्रान्ते तृतीयभागप्रथमसमय उत्कृष्टाबाधायां वर्तमानः सन् पूर्वकोटीस्थितिकं तिर्यगायुर्वध्नाति, पश्चाच्च तत् प्रागुक्तनीत्याऽपवर्त्य ह्रस्वमपर्याप्तपञ्चेन्द्रियतिर्यप्रायोग्यं करोति, मृत्वा चापर्याप्ततिर्यक्पञ्चेन्द्रिय एव भवति, ततश्चाऽनुत्कृष्टस्थितिकतिर्यगायुर्वन्धद्वारेण संख्येयवारानपर्याप्ततिर्यक्पञ्चेन्द्रियतयोत्पद्योत्पद्य विपद्य विपद्य च तत्रैवापर्याप्ततिर्यक्पञ्चेन्द्रियसत्कामुत्कृष्टां कायस्थितिं गमयति, तत्र चोत्कृष्टकायस्थिति गमयन्नपर्याप्ततिर्यक्पञ्चेन्द्रियसत्के चरमे भव उत्कृष्टस्थितिकाऽपर्याप्ततिर्यक्पञ्चेन्द्रियतयोत्पद्य प्राग्वदुत्कृष्टावाधायां वर्तमानः सन् पूर्वकोटीस्थितिकमुत्कृष्टमायुर्वध्नाति, पश्चाच्च वर्तमानभवोत्कृष्टकायस्थित्योः सममेव समाप्त्या पूर्वकोटीस्थितिकतिर्यगादितयोत्पद्यते, इत्येवं प्रकृतमार्गणातो बहिर्भावस्तस्य जायते; एतादृशजीवेन कृतयोर्यथोक्तोत्कृष्टस्थितिकायुर्वन्धयोरन्तरालमपेक्ष्याऽपर्याप्ततिर्यक्पञ्चेन्द्रियमार्गणायामायुप उत्कृष्टस्थितिबन्धस्योत्कृष्टान्तरं समयाधिकाऽपर्याप्तोत्कृष्टभवस्थित्या न्यूनाऽपर्याप्ततिर्यक्पञ्चेन्द्रियमार्गणाया उत्कृष्टकायस्थितिः प्राप्यते । इत्येवमपर्याप्ततिर्यक्पञ्चेन्द्रिय मार्गणायां हीनपदेन समयोनापर्याप्तोत्कृष्टभवस्थित्या हीना स्वोत्कृष्टकास्थितिबोंद्धव्येति दिग् । अनया दीशा शेषगतिजात्यादिमार्गणाभेदेष्वपि देशोनकायस्थितिर्भावनीयेति ॥२१७॥
तदेवं दर्शितमायुप उत्कृष्टस्थितेरेकजीवाश्रयं द्विविधं बन्धान्तरमादेशतः । साम्प्रतं तस्यैवाऽऽयुषोऽनुत्कृष्टस्थितेस्तद्दिदर्शयिषुराह
पणमणवयेसु विउवे आहारदुगे कसायचउगे य ।
सासाणे आउस्स उ अगुरुठिईएऽतरं णत्थि ॥२१८॥ (प्रे०) “पणमणे" त्यादि, प्राग्वत्पञ्चशब्दस्योभयत्र योजनात् पञ्चमनोयोगभेदेषु, पञ्चवचोयोगभेदेषु, वैनियकाययोगे, आहारका-ऽऽहारकमिश्रकाययोगमार्गणयोढिके, क्रोधादिकषायचतुष्के, चः समुच्चयार्थ उत्तरत्र योज्यस्ततः सासादने चेत्येतास्वष्टादशमार्गणासु प्रत्येकमायुपोऽगुरुस्थितेः-अनुत्कृष्टायाः स्थितेः प्रकृतमेकजीवाश्रयं बन्धान्तरं 'नास्ति' न विद्यते इत्यर्थः । सुगमम् , उत्कृष्टतोऽप्यन्तमुहूर्तावस्थायिनीषु प्रकृतमार्गणासु प्रत्येकं कस्यापि जीवस्यायुर्वन्धद्वयं यावदनवस्थानात् , आयुर्वन्धद्वयाभावेऽनुत्कृष्टस्थितिबन्धान्तरस्याप्यसम्भवाचेति ॥२१८॥
तदेवं कतिपयमार्गणास्वसम्भवात् निषिद्धमायुषोऽनुत्कष्टस्थिते.न्धान्तरम् । साम्प्रतं यासु तत्सम्भवति तासु जघन्योत्कृष्टभेदभिन्नं तत्क्रमशो दर्शयन्नाह
सेसासु मुहत्तंतो लहुं गुरु होइ ऊणछम्मासा । सव्वणिरयदेवेसु पसत्थअपसत्थलेसासु ॥२१९॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org