SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उत्कृष्टस्थिते रुत्कृष्टबन्धान्तरम् ] द्वितीयाधिकारेऽन्तरद्वारम् [ २१५ साविकपम्योपमस्थितिकं करोति, पुनस्ततोऽपि हीनं दशवर्षसहस्रस्थितिकम् जघन्यस्थितिकायुषो मिथ्यादृशां बन्धप्रायोग्यत्यात् । यच्च साधिकपल्योपमस्थितिकवैमानिकदेवतयोत्पद्य क्रमेण मृत्वा पुनरपि पूर्वकोटिवर्षायुष्कमनुष्यत्वे त्पद्य वेद्यमानायुपो भागद्वयेऽतिक्रान्ते तृतीयभागप्रथमसमय उत्कृष्टावाधायामुत्कृष्टस्थितिकं देवायुर्वघ्नाति, एवं तस्य समयोनपूर्वको व्यभ्यधिकं साधिक पल्योपममायुष उत्कृष्टायाः स्थितेर्जघन्यं बन्धान्तरं प्राप्यते, तत्र समयोनपूर्व कोट्यंशस्याधिकांशेन गम्यत्वान्मूले समय पूर्व कोट्यंशं पृथगनुपादाय साधिकं पल्योपममेवोक्तं, तथाऽपि साधिकपदेन यथोक्तमेव प्रकृतान्तरं बोद्धव्यमिति ॥ २१६ ॥ तदेवमभिहितं निषिद्धप्रकृतान्तरा निरयगत्यादिमार्गणाः संत्यज्य शेषपञ्चेन्द्रियौघादिमार्गणासु जघन्यत आयुष उत्कुष्टस्थितेर्बन्धान्तरम् । अथ तास्वेव शेषासु पञ्चेन्द्रियोयादिमार्गणासूत्कृष्टतस्तं दर्शयन्नाह - परमं सव्वत्थ वरि ओघव्व । taara अण्णादुगे अयते अचक्खु-भवि अभवि-मिच्छेषु ॥ २१७॥ (प्रे० ) " होणसगुरुकायठिई परममित्यादि, अन्तर्मुहूर्ती दिलक्षणेनैकदेशेन हीना पञ्चेन्द्रियौघादितत्तन्मार्गणाया याऽनन्तरं कालद्वारेऽभिहिता स्वीया स्वीया 'गुर्वी' - उत्कृष्टा कामस्थितिः सा हीनस्वगुरुकावस्थिति: “परमं” ति आया उत्कृष्टस्थिते: 'परमम्' - उत्कृष्टं बन्धान्तरं भवतीत्यर्थः । कामु मार्गणास्थित्याह--" सव्वत्थ" ति सामान्यतः सर्वत्र, पञ्चेन्द्रियौघादिशेषसर्वमागणावित्यर्थः र्थः । वक्ष्यमाणापवादं विहाय बहुषु मार्गणासु हीनस्वगुरुकायस्थितिप्रमाणस्य प्रस्तुतान्तरस्य लाभाल्लाघवकृत औत्सर्गिकोऽयं निर्देशः, अतस्तत्रापवादमाह - " णवरि" इत्यादिना, 'नवरम्'-परम् “ओघव्व” त्ति आयुष उत्कृष्टस्थितेरुत्कृष्टं बन्धान्तरमोघवदसंख्यपुङ्गलपरावर्तप्रमाणम्, भवतीति शेषः । कासु मार्गणास्वोववदसंख्यपुद्गलपरावर्ता भवतीत्याह- "अण्णाणदुगे” इत्यादि, मत्यज्ञान-श्रु ज्ञानाऽसंयमाऽचक्षुर्दर्शन- भव्या-भव्य- मिथ्यात्वरूपासु सप्तमार्गणास प्रत्येकमित्यर्थः । एतासु सप्तमार्गणासु प्रकृतान्तरभावनाप्योघवदेव द्रष्टव्या । शेषाऽपर्याप्तमनुष्यादिषटसप्ततिमार्गणास तु मार्गणाप्रारम्भावस्थासत्केऽन्तमुहूर्तादिप्रमाणे वेद्यमानोत्कृष्ट स्थितिकायुषो भागद्वयेऽनतिक्रान्ते तृतीयभागे चानारब्धे पारभविकायुर्वन्धस्य प्रथमाऽऽकर्षस्याप्यसम्भवात् तमन्तर्मुहूर्तादिकालं विहाय ये जीवा उत्कृष्ट स्थितिकायुर्वन्धं कुर्वन्ति, तदनन्तरं चानुत्कृष्ट स्थितिकायुर्वन्धद्वारेणैव नानाभवैरुत्कृष्टां कार्यस्थिति निर्गमयन्तो यदा मार्गणाया उत्कृष्टकायस्थितिसमाप्तेरर्वागन्तमुहूर्ताद्यशेषायामुत्कृष्टकास्थितौ पुनरप्युत्कृष्टस्थितिकमायुर्वन्धं कुर्वन्ति तदा तेषानात उत्कृ ष्टस्थितेरुत्कृष्टं बन्धान्तरं प्राप्यते । इत्थं हि मार्गणाया उत्कृष्टकायस्थितिसत्कस्य प्रारम्भप्रान्तयोः कतिपयकालस्य वर्जनीयतया देशोना स्वीयस्वीयकायस्थितिरेवाऽऽयुष उत्कृष्टस्थितेरुत्कृष्टबन्धान्तरमभिहितम् । तत्र देशोनता तु तत्तन्मार्गणायां यथासम्भवं द्रष्टव्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy