________________
बंधविहाणे मूलपयडिठिइबंधो
[ मार्गणास्वायुः कर्मणः
२१४ ] प्रतिपत्त्या चौघपर्याप्त मेदभिन्नौ द्वौ पञ्चेन्द्रियभेदौ द्वौ च सकाभेदौ, एते चत्वारो भेदा 'वर्जिता' - स्त्यक्ता येभ्य एवम्भूता ये शेषा 'इन्द्रियकाय भेदाः' एकेन्द्रियादिपञ्चेन्द्रियान्तेन्द्रियमार्गणासत्काः सप्तदशभेदाः, पृथिव्यादिवसकायान्तकायमार्गणासत्काञ्चत्वारिंशद्भेदाच ते द्विपञ्चेन्द्रियत्रवर्जितशेषेन्द्रियकाय भेदास्तेष्वेकोनषष्टिमार्गणाभेदेषु प्रत्येकमित्यर्थः । अयम्भावः -- एतेषु प्रत्येकं जीवैद्य मान तिर्यगाद्यायुः सदृशं पारभविकं तिर्यगाद्यायुः प्रकृतमार्गणायां बन्धयाग्योत्कृष्टस्थितिकं निर्वर्तयितुं शक्यते, ततश्च ये केचन जीवा उत्कृष्टावाधायां तद्बद्ध्वा पश्चात्कालान्तरेण संक्लिष्टाध्यवसायेन तदपवर्त्य ह्रस्वं वेद्यमानोत्कृष्टभवस्थितितुल्यस्थितिकं कुर्वन्ति, पचाञ्च कालं कृत्वोत्कृष्टस्थितिकापर्याप्तितिर्यक्पञ्चेन्द्रियादितया प्रकृतमार्गणानामेवोत्पद्यन्ते तत्र च वेद्यमानायुपो भागद्वयेऽतिक्रान्ते तृतीयभागप्रारम्भे उत्कृष्टाबाधायां पुनरपि प्रादुत्कृष्टं पूर्व कोटीस्थितिकमायुर्वध्नन्ति, तदा तेषामायुष उत्कृष्टस्थितेर्जघन्यं बन्धान्तरं प्राप्यते तच्च यथोक्तं समयोनस्वीय गुरुभवस्थितिप्रमाण, उत्कृष्टस्थितिकपूर्वभवसत्कसमयोनतृतीयभागस्य तथोत्तरभवसत्कतृतीयभागद्वयस्योत्कृष्टस्थितिबन्धद्वयान्तराले पतितत्वात् । प्रस्तुतमार्गणासूत्कृष्टभवस्थितिप्रतिपादिका गाथा: पुनरिमा:'तिरियस पर्णिदितिरियणरतप्पज्जत्तजोणिणीणं च । तिष्णि पलिओ माइ उक्कोसा भवठिई णेया ॥ एगिंदिपुत्रीणं होइ दुवीसा सहस्सवासाणि । एमेव होइ तेसिं बायर-बायरसमत्ताणं ॥ दुगवाऊणं कमसो सहस्सवासाणि सत्त तिष्णि भवे । तिदिणाऽग्निस्सेवं सिं बायर वायरसमत्ताणं ॥ as दिया गाणं कमसो बारह समा अउणवण्णा । दिवसा तह छम्मासा एवं तेसिं समत्ताणं ॥ वासास्थि सहस्सा दस वण पत्तेअवणतस्समत्ताणं । मिन्नमुहुत्तं णेया सेसाणं पंचतीसाए ।'
इति ।। १२५ ।।
अथ शेषमार्गणास्वायुष उत्कृष्टस्थिते जेवन्यं बन्धान्तरमेकयाऽऽर्ययाऽऽहसमयूर्णतमुहुत्तं उरालमी सम्मि साहियं पल्लं । णातिगे ओहम्म य सम्मत्ते वेअगे य भवे ॥ २१६ ॥
(०) "समयूणंत मुहुत्त "मित्यादि, औदारिकमिश्रकाययोगमार्गणायां प्रकृतं जघन्यान्तरं समयोनान्तमुहूर्तं भवेदित्यर्थः । इदं हि लब्ध्यपर्याप्तस्य समयोनोत्कृष्टभवस्थितिप्रमाणमवगन्तव्यम् । एतत्सूचनार्थमेव मूलेऽन्तमुहूर्तस्य समयोनविशेषणमुपात्तम्, अन्यथाऽन्तर्मुहूर्तस्य नानाविधत्वेन समयोनविशेषणं व्यर्थं स्यादिति । "साहियं पल्ल" ति प्रकृतजघन्यान्तरं साविक 'पल्यं' - पल्योपमं भवेदिति गाथाप्रान्तेऽन्वयः । कासु मार्गणास्त्रित्याह--"णाणतिगे” इत्यादि, मति श्रुताऽऽवधिज्ञानानां त्रिकेऽवधिदर्शन मार्गणायाम्, चः पादपूयै । सम्यक्त्वाघमार्गणायां वेदकसम्यक्त्वमार्गणायां चेत्येतासु पण्मार्गणासु प्रत्येकमित्यक्षरार्थः । भावार्थस्त्वयम्एतासु प्रत्येकं सम्यग्दृष्टय एव जीवाः सन्ति, तेभ्यो यः कचिज्जीवः पूर्वकोटी त्रिभागरूपायामुत्कृष्टायामबाधायां प्रथमवारमुत्कृष्टस्थितिकं देवायुर्वद्ध्वा पश्चात्तदपत्र सम्यग्दशां बन्धप्रायोग्यं हवं-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org