________________
उत्कस्थितेजघन्यबन्धान्तरम् ] द्वितीयाधिकारेऽन्तरद्वारम्
{ २१३ मायुष उत्कृष्टस्थितिबन्धस्याऽन्तरं विभङ्गज्ञानमार्गणायामपि न प्राप्यते । महावन्धकारैस्तु निरयगतित आगच्छतामिव निरयगतौ गच्छतामपि विभङ्गज्ञानेन सह गमनं नाभ्युपगतम् , इत्थं तेषां मतेनाऽपि प्रस्तुतान्तरं नैव प्राप्यते, उत्कृष्टस्थितिकायुर्निवयं तदुदये नारकतयोत्पत्तिमात्रेणैव तत्स्वामिनां प्रस्तुतमार्गणाया बहिर्भवनादिति । योगादिमार्गणासु तूत्कृष्टस्थितिबन्धस्वामिनः संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्या अन्तर्मुहूर्तादधिकं तत्तन्मार्गणायां नावतिष्ठन्ति, तत्कुतो भवद्वयावस्थानाधीनस्य प्रकृतान्तरस्य सम्भवः, न कुतश्चिदित्यर्थः । मनःपर्यवज्ञान-संयमौघादिमार्गणासु निरयगत्यादिवदेव भावनीयम् । तासु प्रत्येकं वेद्यमानगतेरन्यगतिसत्कस्योत्कृष्टस्थितिकायुपो बन्धादिति ॥२११-२१२॥ अथ यासु मार्गणास्वायुष उत्कृष्टस्थितेर्बन्धान्तरस्याऽसम्भवस्तासु तत्प्रतिषिध्य यासु तत्सम्भवति तासु जघन्यादिभेदतः प्रचिकटयिषुरादौ तावज्जघन्यत आह
ओघब्ब होइ लहुं ॥२१३॥ दुपणिदितसेसु तहा तिवेअ-दुअणाण-अयत-चक्खूसु।
अणयण-भवि-यियरेसुमिच्छे सण्णिम्मि आहारे ॥२१४॥ (प्रे०) “ओघव्व होइ लहु"मित्यादि, आयुष उत्कृष्टस्थितेलघु-जघन्यं बन्धान्तरमोघवत् समयोनदशसहस्रवर्षाभ्यधिका एका पूर्वकोटी भवतीत्यर्थः । कासु मार्गणास्वित्याह-"दुपणिंदिये"त्यादि, प्राग्वदपर्याप्तभेदवर्जयोदयोः पञ्चेन्द्रियजातिभेदयोः, द्वयोश्च त्रसकायभेदयोस्तथा स्वादिषु त्रिषु वेदभेदेषु, मत्यज्ञान-श्रुताज्ञानरूपयोयोरज्ञानभेदयोरसंयम-चक्षुर्दर्शनमार्गणयोः, अचक्षुर्दर्शन-भव्य-तदितराऽभव्यमार्गणाभेदेषु, मिथ्यात्वे, संज्ञिन्या-ऽऽहारिमार्गणायाञ्चेत्येतासु सप्तदशमार्गणासु प्रत्येकमित्यर्थः । भावनाऽप्येतासु प्रत्येकमोघवदेव द्रष्टव्या, केवलं नपुंसकवेदा-ऽज्ञानद्वयाऽसंयमा-ऽभव्य-मिथ्यात्वमार्गणासूत्कृष्टस्थितिकनिरयायुषोऽपवर्तनया भावनीयम् । स्त्री-पुवेदमार्गणयोस्तूत्कृष्टस्थितिकदेवायुषोऽपवर्तनया भावनीयम्, न पनरोघवदुभयथाऽपीति ॥२१३-२१४॥ अथाऽपर्याप्तपञ्चेन्द्रियतिर्यगादिमार्गणाः संगृह्य तत्र प्रकृतान्तरमाह
समयूणगुरुभवठिई असमत्तपणिदितिरिय-मणुसेसु।
दुपणिदियतसवज्जिअसेसिदियकायभेएसु॥२१५॥
(प्रे०) “समयूणे"त्यादि, समयोना 'गुरु'-उत्कृष्टा 'भवस्थितिः' तत्तन्मार्गणागतजीवानां वेद्यमानाऽऽयष उत्कृष्टस्थितिरित्यर्थः । आयुष उत्कृष्टस्थितेर्जधन्यं बन्धान्तरमिति प्रकरणाद्गम्यते, भवतीति शेषः । कासु मार्गणासु समयोनोत्कृष्टभवस्थितिः प्रकृतं जघन्यं बन्धान्तरं भवतीत्याह"असमत्ते"त्यादि, अपर्याप्तापरपर्यायस्यासमाप्तशब्दस्योभयत्र योजनादपर्याप्तपञ्चेन्द्रियतिर्यग्भेदा-ऽपर्याप्तमनुष्यभेदयोरित्यर्थः, द्विशब्दस्य पञ्चेन्द्रियत्रसयोः प्रत्येकं योजनाद् व्याख्यानतो विशेष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org