________________
२१२]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्वायुःकर्मणः त्यति, तस्यां मार्गणायामायुष उत्कृष्टस्थितेरेकजीवाश्रयं प्रकृतबन्धान्तरं प्राप्यते,नान्यासु । प्रकृते च निरयगतिदेवगत्यादिमार्गणाभेदेषु जीव एकभवमेव तिष्ठति, परतस्तु नियमेन तत्तन्निरयगत्यादिमार्गणां परित्यजति, ततो भवद्वयाधीनं प्रकतान्तरमपि तत्तन्निरयगत्योघादिमार्गणासु न लभ्यते । तिर्यग्गत्योधादिसप्तमार्गणागतजीवास्तथाऽसंज्ञिमार्गणागता जीवा यद्यपि स्वस्वमार्गणायामेव नानाभवान् कर्तुं शक्नुवन्ति,तथापि यस्मिन् भव एतेऽष्टमार्गणागतजीवा उत्कृष्टस्थितिकमायुर्वन्धं कुर्वन्ति, तद्भवादनन्तरे भव उत्कृष्टस्थितिकायुरुदयादेतेऽपि तिर्यग्गत्योपादितत्तन्मार्गणाया बहिर्भवन्ति । कुतः ? वर्तमानतिर्यगादिगतेरन्या या निरयादिगतिस्तत्सत्कोत्कृष्टायुपस्तैर्निवर्तितत्वात् । इदमुक्त भवतिअपर्याप्तपञ्चेन्द्रियतिर्यग्मार्गणागता जीवा उत्कृष्टस्थितिकमायुस्तिर्यग्गतिसत्कमपि बध्नन्ति, तिर्यग्गतिकाच जीवा अपर्याप्तपञ्चेन्द्रियतिर्यग्मार्गणायां समाविष्टाः सन्ति, ततश्च यः कश्चिदपर्याप्तपञ्चेन्द्रियतिर्यग्मार्गणागतो जीवस्तिर्यग्गतिसत्कोत्कृष्टायुर्वद्ध्वा पश्चात्तत् पूर्वबळं पारभविकायुरपवर्त्य हस्वमपर्याप्तजीव पायोग्यं करोति, क्रमेण कालं कृत्वा प्रकृतापर्याप्तमार्गणायामेव चोत्पद्यते । एवं च सति पारभविका पुष उत्कृष्टस्थितिबन्धे कृतेऽपि तादृशो जीवोऽनन्तरे भवे न प्रकृतमार्गणाया वहिर्भवत्येव, किन्तु प्रकतमार्गणायामेवावतिष्ठते,तेन वेद्यमानतिर्यग्गतिसत्कस्यैवोत्कृष्टस्थितिकपारभविकायुषो बन्धकरणात् । तिर्यग्गत्योपाधष्टमार्गणागता जीवास्तु निरयगत्यादिसत्कमवोत्कृष्टायुर्वघ्नन्ति,ततश्वाऽध्यवसायवशात् पश्चात्तमपवाऽपि तासु निरयगत्यादिष्वेवोत्पद्यन्ते, आयुषः स्थितावपवर्तितायामपि प्रकृतिपरावर्तनस्याशक्यत्वात् । किमुक्त भवति-आयुर्वन्धानन्तरं तस्यायुष उत्कृष्टादिस्थितिः कृष्णवास देवद्रष्टान्तेन कैश्चित्पश्चादपवर्त्य हस्वीक्रियते, प्रकृतिस्तु सा पूर्ववद्धा निरयतिर्यग-मनष्य-देवायुरन्यतमरूपैव तिष्ठति, भृलप्रकृतिवदायुःप्रकृतीनां परस्परसंक्रमस्यानभिमतत्वात् । इत्थं च तिर्यग्गत्योपाद्यष्टमार्गणास्वायुष उत्कृष्टस्थितिबन्धान्तरस्यासम्भव एवेति । विभङ्गज्ञानमार्गणायां तूत्कृष्टस्थितिबन्धस्वामिनो मनुष्यास्तिर्यञ्चो वा, ते चोत्कृष्टस्थितिकं निरयायुर्वद्ध्या नैरयिकतयोत्पद्य पुनरपि तिर्यक्तया मनुष्यतया वा यावदुत्पद्यन्ते तावद्विभङ्गज्ञानमार्गणायामेव नावतिष्ठन्ति । कुतः ? नैरयिकाणां विभङ्गज्ञानेन सहितानां गत्यन्तरेऽनुत्पत्तेः । इदमुक्तं भवतियथाऽवधिज्ञानेन सहितास्तीर्थकरादिजीवा नारकेभ्य उद्वर्त्य मनुष्यतया गत्यन्तरे उत्पद्यन्ते, न तथा विभङ्गज्ञानोपेता जीवा अपि, किन्त्वेते प्रतिपतित एव विभङ्ग मनुष्यादितयोत्पद्यन्ते । उक्तं च नवाङ्गीटीकाकृद्भिः श्रीमदभयदेवसूरिपादैः पञ्चमाङ्गवृत्तौ___“मनुष्यगतौ हि गच्छन्तः केचिज्ज्ञानिनोऽवधिना सहैव गच्छन्ति तीर्थङ्करवत् , केचिच्च तद्विमुच्य, तेषां त्रीणि वा द्वे वा ज्ञाने स्यातामिति, ये पुनरज्ञानिनो मनुष्यगतावुत्पत्तुकामास्तेषां प्रतिपतिते एव विभङ्गे तत्रोत्पत्तिः” इत्यादि।
इत्थं च तिर्यग्गतौ मनुष्यगतौ वा सकृदुत्कृष्टस्थितिकायुर्बद्ध्वा पुनरपि तत्रोत्पत्तेरबांगेन तत्स्वामिनां विभङ्गज्ञानमार्गणातो बहिर्भावान्मार्गणाकालभाव्युत्कृष्टस्थितिबन्धद्वयाधीन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org