________________
उत्कृवस्थिते बन्धान्तरम् ]
द्वितीयाधिकारे ऽन्तरद्वारम्
[ २११
नामेवोत्कृष्टस्थितिबन्धभावेनोत्कृष्टस्थितिबन्धेन सममेव मतिज्ञानादिमार्गणानामपि विच्छेदादिति । मनुष्यगत्वोध-पर्याप्तमनुष्य-मानुषी पञ्चेन्द्रियध-पर्याप्तपञ्चेन्द्रिय-त्र सकायौध-पर्याप्तत्र सकाय-काययोगसामान्य-चक्षु दर्शना - ऽचक्षुर्दर्शन- शुक्ललेश्या भव्य क्षायिकसम्यक्त्व-संज्ञयाऽऽहारिमार्गणास तु सप्तानामनुत्कृष्टस्थितेर्जघन्यबन्धान्तरं निरयगत्योघादिवदुत्कृष्टस्थितेर्जघन्यबन्धकालापेक्षया, मतिज्ञानादिमार्गणावत्समय मात्रा ऽवन्धकालापेक्षया वा भावनीयम्, केवलं मनुष्यगत्योघादिमार्गणात्रय उत्कृष्टस्थितिबन्धजघन्यकालापेक्षयैव । एतासु मनुष्यगत्योघादिमार्गणायुत्कृष्टान्तरं त्वोघवत् स्थितेरबन्धकालमपेक्ष्यैव भाव्यम्, न पुनर्निरयगत्योघादिवदुत्कृष्टस्थितिबन्धोत्कृष्ट कालापेक्षया, उत्कृष्टस्थितेरुत्कृष्टबन्धकालस्यान्तर्मुहूर्तत्वेऽप्युपशान्ताद्वापेक्षया लघुत्वादिति ॥२०८-२०९-२१०॥
तदेवमभिहितमादेशतोऽपि सप्तानां मूलप्रकृतीनामुत्कृष्टानुत्कृष्टयोर्द्विविधयोः स्थित्योः प्रत्येकं जघन्योत्कृष्टभेदभिन्नं द्विविधमपि वन्वान्तरम् । साम्प्रतमवशेषस्यायुपस्तदिदर्शयि पुरुत्कृष्टस्थितिविनय दर्शयन्नाह -
सव्वणिरय देवे तिरिये तिपणिंदितिरियमणुसेसु । पण मणवय कायेसु ओराल - विउब्वजोगेसु ॥२११॥ आहारदुगम्मि तहा कसायचउग-मणपज्जवेसु तहा । विभंग-संयमेसु समइअ -छेअ- परिहारेसु ॥ २१२ ॥ देसम्म छलेसास खइए सासायणे असण्णम्म | आउस्स अंतरं णो गुरूअ
(०) "सव्वणिरयदेवेसु" मित्यादि, प्राग्वत् सर्वेषु निरयगतिभेदेषु सर्वेषु देवगतिभेदेषु, तिर्यगोघे, अपर्याप्तभेदवर्जेषु त्रिषु पञ्चेन्द्रियतिर्यग्भेदेषु त्रिषु च मनुष्य भेदेषु पञ्चमनोयोगभेदेषु, पञ्चवचोयोगभेदेष्वौ-दारिक-वैकियकाय योगयोराहारका ऽऽहारकमिश्र काययोगयोर्द्विके तथा क्रोधादिकपाय चतुष्क-मनः पर्यवज्ञानयोः, विभङ्गज्ञान-संयमौघभेदयोः, सामायिक-छेदोपस्थापन-परिहारविशुद्धिकसंयमभेदेषु, देशसंयमे, कृष्णादिषु षट्षु लेश्याभेदेषु क्षायिकसम्यक्त्वे, सासादनेऽसंज्ञिमार्गणाभेदे चेत्येताम् साधयगाथासंगृहीतास्वशीतिमार्गणास प्रत्येकम् " आउस्स अंतरं णो गुरूअ” त्ति मौलस्यायुःकर्मणो 'गुरोः - उत्कृष्टायाः स्थितेर्बन्धान्तरं " णो” त्ति न भवतीत्यक्षरार्थः । भावार्थस्वयम् - आयुप उत्कृष्टस्थितेर्वन्धान्तरं सप्तकर्मणामन्तरमिवोत्कृष्टस्थितिकायुर्बन्धद्वयस्यान्तरालापेक्षया प्राप्यते, उत्कृष्टस्थितिकायुर्वन्धद्वयं तु कस्मिंश्चिदप्येकस्मिन् भवे न प्राप्यते । कुत: ? उत्कृष्टस्थितिकायुर्बन्धस्योत्कृष्टाबाधाऽधीनत्वात् उत्कृष्टावाधाया एकस्मिन् भवे सकदेव लाभाच्च । इत्थं च यां मार्गणां भवद्व्यभाव्युत्कृष्टस्थितिकायुर्वन्धद्वयं यावत्तद्बन्धकजीवो न परि
www.jainelibrary.org
Jain Education International
"
For Private & Personal Use Only