________________
२१० ]
बंधविहःणे चूलपयडिठिइबंधो [ मार्गणास्वायुःकर्मणः प्रत्येकं ".लि.” त्ति शरीरपर्याप्तिनिष्ठापनाइक्सिमय एव सप्तानामुत्कृष्टस्थितिबन्धं स्वीकुर्वता नास्ति बन्धान्तरम्,उत्कृष्टस्थितिबन्धस्य सामायिकादिमार्गणावन्मार्गणाप्रान्ते सकदेवभावेन स्थितेरबन्धस्यासम्भवेन चानुत्कृष्टस्थितिबन्धस्यैकदैव लाभात् । “अहवा जहण्णं पर परमं मुहुतंतो” त्ति अथवा प्रोक्तान्यमतेन सप्तानामनुत्कृष्टायाः स्थितेवन्धान्तरं जघन्यं 'समयः'-समयप्रमाणं भवति, परमम्'-उत्कृष्टं तु तद् 'मुहूर्तान्तः'-अन्तमुहूर्तं भवतीत्यर्थः । सुगमम् । तत्तन्मार्गणाया द्विचरमादिसमयेषु समयमेकमुत्कृष्टस्थितिवन्धं कुर्वतां प्रकृतान्तरं समयप्रमाणं लभ्यते, अन्तमुहूत यावदुत्कृष्टस्थितिबन्धं कुर्वतां त्वन्तमुहर्तमानं तत्प्राप्यत इति । अथ यत्र स्थितेरवन्धकालेनान्तरितः सन्ननुत्कृष्टस्थितिबन्धो द्विः प्राप्यते, तत्र तदपेक्षा लभ्यमानमन्तरं दर्शयन्नाह-"अवगयवेअम्मि" इत्यादिना, अपगतवेदमार्गणायां तथा मनःपर्यवज्ञान-संयमोघमार्गणयोरित्येताम् तिसयु मार्गणासु प्रत्येकं सप्तानामनुत्कृष्टायाः स्थितेः "लहुमियरं" त्ति 'लघु' जघन्यं 'इतरम्'-उत्कृष्टं चोभयविधमपि बन्धान्तरं "यं भिन्नमुहत्त" ति भिन्नमुहूर्तम्-अन्तमुहूर्त ज्ञेयमित्यर्थः । इदं छुपशान्तमोहगुणस्थानककालप्रमाणं लभ्यते, तत्रापि मोहनीयानुत्कृष्टस्थितेस्तु तत् सविशेषम् , सूक्ष्मसम्परायगुणस्थानके मोहनीयस्य बन्धाभावेन सूक्ष्मसम्परायगुणस्थानकालयस्याऽपि प्रकृतान्तरे प्रविष्टत्वात् । विस्तरतस्तु स्वयमेव भावनीयम् । ननु जघन्यतोऽपि कथमन्तमुहर्तमेवोच्यते ? भण्यते-उपशान्ताद्धाक्षयेण प्रतिपततामेव तल्लाभा । नचो शान्तमोहगुणस्थाने समयमात्रमवस्थाय कालं कुर्वतां तत्समयमात्रमपि लभ्यतेति शङ्कयम्, तादृशजीवानां देवगतावुत्पच्या प्रकृतमार्गणाया एवं बहिर्भावेन समयमात्रस्याप्यन्तरस्याऽलाभादिति ।
अथशेषमार्गणास प्रकृतान्तरमतिदिशन्नाह-"सेसासु होइ ओघव्व" त्ति “कम्मणसामइएसुमित्यादिना निषिद्धाधिकृतान्तरा दशमार्गणास्तथौदारिकादिमित्रयोगमार्गणात्रयमनन्तरोक्ताऽपगतवेदादिमार्गणात्रयश्च विवज्यं शेषासु निरयगत्योपादिचतुःपञ्चाशदुत्तरशतमार्गणासु प्रत्येकं सप्तप्रकृतिसत्कानुत्कृष्टस्थितिबन्धान्तरम् “होइ ओघव्व" ति ओघवज्ज पन्त एकसमय उत्कृष्टतश्चान्तमुहर्त भवतीत्यर्थः । तत्र निरयगत्योघमार्गणाभेदे सप्तानामुत्कृष्टस्थितेर्जघन्यवन्धकालेनैकसमयेनान्तरितयोरनुत्कृष्टस्थितिवन्धयोरन्तरंजघन्यतो लभ्यते, आन्तमु ह्रतिकेनोत्कृष्टस्थितिबन्धेनान्तरितयोरनुत्कृष्टस्थितिबन्धयोरन्तरं तूत्कृष्टपदे प्राप्यते । इत्थमेव मनुष्यगत्योध-पर्याप्तमनुष्यमानुषी-पञ्चेन्द्रियोंघ-पर्याप्तपञ्चेन्द्रिय-त्रसकायोघ-पर्याप्तत्रसकाय-काययोगसामान्यभेद-मति-श्रता-ऽवधिज्ञान-चक्षुरादित्रिदर्शन-शुक्ललेश्या-भव्य-सम्यक्त्वौघ-क्षायिको-पशमिकसम्यक्त्व-संड्या-ऽऽहारिमार्गणा विहाय शेषसर्वमार्गणास्वपि भावनीयम् । मति-श्रुता-ऽवधिज्ञाना-ऽवधिदर्शन-सम्यक्त्वौधौ-पशमिकसम्यक्त्वमार्गणास तु जघन्यमुत्कष्टं द्विविधमप्यन्तरं स्थितेरबन्धकालान्तरितयोरनुत्कृष्टस्थितिबन्धयोरन्तरालमपेक्ष्यौधिकभावनावद्भावनीयम् , न पुनरुत्कृष्टस्थितेर्बन्धकालमपेक्ष्य, तदपेक्षया जघन्योस्कृष्टैकतरान्तरस्याऽप्यनुत्पत्तेः। कुतोऽनुत्पत्तिरिति चेत् ? मतिज्ञानादिमार्गणासु मिथ्यात्वाद्यभिमुखा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org