________________
- अनुत्कृष्ट स्थिते जघन्येतरबन्धान्तरम् ] द्वितीयाधिकारेऽन्तरद्वारम्
[ २०९
साम्प्रतं तासामेव सप्तानामनुत्कृष्टायाः स्थितेस्तत्प्रचिकटयिषुरादौ यासु मार्गणासु तन्न सम्भवति, तासु प्रतिषेधयन् यासु सम्भवति, तासु पूर्ववदर्शयचाह गाथात्रयम् - कम्मण - सामइएस छेए परिहार- देस -सुहुमेसु । वेअग-सासाणेसु ं मीसा-Sणाहारगेसु च ॥२०८॥ णो अंतरं ठिईएऽणुक्कोसार तिमिस्सजोगेसु । णत्थि अहवा जहणं समयो परमं मुहुत्तो ॥ २०९ ॥ अवगयवेअम्मि तहा मणपज्जव - संयमेसु लहुमियरं ।
यं भिन्नमुहुत्त सेसासु होइ ओघव्व ॥ २१० ॥
( ग्रे० ) “कम्मणसामइए सुमित्यादि, कार्मणकाययोग-सामायिकसंयमयोः, छेदोपस्थापनसंयमे, परिहारविशुद्धिकसंयम- देशसंयम-सूक्ष्मसम्परायसंयममार्गणासु, वेदकसम्यक्त्व - सासादनयोर्मिश्रा - ऽनाहारकमार्गण योश्चेत्येतासु दशमार्गणासु प्रत्येकमित्यर्थः । एतासु किमित्याह"णो अंतरं ठिईएऽणुकोसाए" ति सप्तमूलप्रकृतीनामनुत्कृष्टायाः स्थिते: “अंतरं" ति बन्धान्तरम् "णो "त्ति न भवतीत्यर्थः । सुगमम् । भावना तूत्कृष्टस्थितेर्वन्धान्तरप्रतिषेधवत्कार्या, प्रकृतमार्गणासूत्कृष्टस्थितिबन्धवदनुत्कृष्टस्थितिबन्धस्याऽप्येकं जीवमपेक्ष्यैकदैव भावात् । इदमुक्त भवति - एतासु प्रत्येकमुत्कृष्ट स्थितिबन्धसमाप्त्या सममेव सामायिकसंयमादितत्तन्मार्गणाऽपि मार्गणान्तरतया परावर्तते, ततश्चोत्कृष्ट स्थितिबन्धेनान्तरितोऽनुत्कृष्टस्थितिबन्धोऽपि द्विर्न प्राप्यते, तदभावे च कुतोऽन्तरं लभ्येत, न कुतश्चिदपि, अन्तरस्य प्रतिपक्षस्थितिबन्धादिद्वयाधीनत्वादिति । ननु अपगतवेदादिमार्गणास्वप्युत्कष्टस्थितिबन्धादनन्तरमेव मार्गणाविच्छेदादनुत्कष्टस्थितिबन्ध उत्क ष्टस्थितिबन्धेनान्तरितो न भवति, तत्कुतस्तास्वपि प्रकृतान्तरं न प्रतिषिद्धम् । इति चेद्, उच्यते, अपगतवेद- मतिज्ञानादिमार्गणासु मार्गणाप्रान्त एवोत्कृष्ट स्थितिबन्धभावेनाऽनुत्कृष्टस्थितिबन्धस्तदन्तरितो न भवति, तथाप्यसावुपशान्तमोहगुणस्थानकसत्केनाऽबन्धकालेनान्तरितो भवति, तथा च सत्यन्तरं लभ्यते, अभिहितं च प्राग् यस्यां मार्गणायां स्वप्रतिपक्षस्थितिबन्धेन स्थितेरबन्धेन वाऽन्तरितः सन्नुत्कृष्टादिस्थितिबन्धो द्विः प्राप्यते तस्योत्कृष्टादिस्थितिबन्धस्यान्तरं लभ्यत इत्यतोऽपगतवेदादिमार्गणास्वेकतरप्रकारेणापि तल्लाभादुत्कृष्टस्थितिबन्धान्तरवन्न निषिद्धं प्रस्तुतान्तरमिति । कार्मणकाययोगाऽनाहारकमार्गणयोस्तूत्कृष्ट स्थितिबन्धस्वामिनां संज्ञिपञ्चेन्द्रियाणामुत्कृष्टतोऽपि समयद्वयमात्रमवस्थानाज्जघन्यतः समयत्रयाधीनमन्तरमपि न सम्भवतीति । अथ यासु मार्गणासु मतद्वयमभिप्रेत्य प्रस्तुतान्तरस्य भावाभावौ तासु तथैव दर्शयन्नाह - “तिमिस्सजोगेसु" इत्यादिना, औरादिकमिश्र-वैक्रियमिश्रा-ऽऽहारकमिश्रकाययोगलक्षणासु तिसृषु मिश्रयोगमार्गणासु
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org