________________
२०८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जसप्तानाम् अथोक्तशेषमार्गणासु प्रकृतान्तरमार्याधुनाह
सेसासु देसूणा सगसगकायट्टिई परमा ॥२०७॥ (प्रे०) “सेसासु” इत्यादि, सुगमम् । नवरं "सेसासु" ति “सव्वेसु जोगेसु” इत्यादिगाथाद्वये प्राक्प्रतिपिद्धप्रकतान्तराश्चत्वारिंशन्मार्गणास्तथा “गुरु तिपणिदितिरियमणुसेसु"मित्यादिनाऽनन्तरमभिहितप्रकृतान्तरा अष्टाविंशतिमार्गणा विहाय शेषासु द्वयधिकशतमार्गणासु प्रत्येकं सप्तानामनुत्कृष्टस्थितिबन्धस्योत्कृष्टान्तरं स्त्रीयस्वीयोत्कृष्टकायस्थितिरित्यर्थः । तत्र शेषमार्गणा नामत इमा:-सर्वे निरयगतिभेदाः, देवगत्योघमेदवर्जा एकोनत्रिंशद्भवनपत्यादिदेवगतिभेदाः, तिर्यग्गत्योघा-ऽपर्याप्तपञ्चेन्द्रियतिर्यग्भेदौ, अपर्याप्तमनुष्यमेदः, बादरैकेन्द्रियौघ-पर्याप्ता-ऽपर्याप्तवादरैकेन्द्रिय-पर्याप्ता-ऽपर्याप्तसूक्ष्मैकेन्द्रियरूपाः पञ्चैकेन्द्रियभेदाः, सर्वे विकलेन्द्रियभेदाः, सर्वे पञ्चे. न्द्रियभेदाः, ओघ-सूक्ष्मौषभेदद्वयवर्जा बादरोघ-बादरपर्याप्ता-ऽपर्याप्त-मूक्ष्मपर्याप्ता-ऽपर्याप्तभेदभिन्नाः पञ्च पथिवीकायभेदाः, तथैव पञ्चाकायभेदाः,पञ्च तेजस्कायभेदाः,पञ्च वायुकायभेदास्तथा पञ्च साधारणवनस्पतिकायभेदाः, ओघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नास्त्रयः प्रत्येकवनस्पतिकायभेदास्तथैव त्रयस्त्रसकायभेदाः, स्त्र्यादयस्त्रयो वेदमार्गणाभेदाः, विभङ्गज्ञान-चक्षुर्दर्शन-कृष्णादिपञ्चलेश्या-क्षायिकसम्यक्त्व-संड्य-ऽसंख्या-ऽऽहारिमार्गणाभेदाश्चेति । भावना तु पूर्ववत्, नवरं सर्वमार्गणासूत्कृष्टकायस्थितिरन्तम हर्तलक्षणेनेकदेशमोना द्रष्टव्या। तत्राप्यन्तमुहूर्तमुत्कृष्ट स्थितिबन्धकालादिसत्कं काय स्थितेः, प्रारम्भमागसम्बन्धि चरमभागसम्बन्धि च समुदितं सद् दीर्घ ह्रस्वं च यथासम्भवं वय॑म् , न पुनः सर्वमार्गणा तुल्यमेव । तथाहि-निरयगत्योधमार्गणाभेदे कश्चिदुत्कष्टस्थितिकः सप्तमपृथिवीनैरयिकजीवस्तत्रोत्पद्याऽपर्याप्तावस्थाया ऊर्ध्वमुत्कृष्टस्थितिबन्धं प्रारभ्य तं समापयति, ततः प्रभृतेरुत्कृष्टस्थितिबन्धस्योत्कष्टमन्तरं प्रवर्तते,तच्च तावत्प्रवर्तते,यावदसौ पुनरपि भवचरमसमय उत्कष्टस्थितिबन्धं प्रारभते । एवंतस्य मार्गणायाश्चरमभागसम्बन्ध्येकसमयस्तथास्प्रारम्भमागसम्बन्ध्यत्कष्टस्थितिबन्धसमाप्तिं यावद् निरयभवसत्को यावान् कालो लवितस्तावदन्तमुहूर्तं च वर्जनीये , ताभ्यां हीनं त्रयस्त्रिंशत्सागरोपमप्रमाणं निरयौधे उत्कृष्टस्थितिवन्धयोरुत्कृष्टान्तरं भवति । एवमेवान्यनिरयगत्यादिमार्गणाभेदेष्वपि बोद्धव्यम् । अपर्याप्तसूक्ष्मैकेद्रियमार्गणाभेदे तु मार्गणायाः प्रारम्भमागसत्कान्तमुहतमिव मार्गणायाः प्रान्तभागसम्बन्ध्यप्यन्तमुहर्तकालो वर्जनीयः, न पुनर्निरयगत्योघादिवत्समयमात्रः, मार्गणान्तराभिमुखानामपर्याप्तसूक्ष्मैकेन्द्रियजीवानां भवचरमान्तमुहर्ते उत्कृष्टस्थितिबन्धस्याऽप्रवर्तनात् , प्रागेवोत्कृष्टस्थितिबन्धभावे तूत्कृष्टस्थितिबन्धकालस्य तदुत्तरवर्तिकालस्य चान्तरकालबहिर्भावाच्चेति । इत्थमेवाऽपर्याप्तसूक्ष्मसाधारणवनस्पतिकायमागेणादावपि यथासम्भवं कायस्थितिसत्कं चरमान्तमुहूर्तमपि वज्यामिति ॥२०७॥
तदेवं दर्शितमायुर्वर्जसप्तप्रकृतीनामुत्कृष्टस्थितेर्जघन्योत्कृष्टद्विविधमपि बन्धान्तरमादेशतः ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International