________________
उत्कृधस्थितेर्जघन्येतरबन्धान्तरम् ] द्वितीयाधिकारेऽन्तरद्वारम्
[२०७ मार्गणास्वनन्तरोक्तनीत्या तद्धीनमपि लभ्यते, प्रकृतेऽपि द्वयोर्मार्गणयोरुत्कृष्टकायस्थितियद्यपि त्रयस्त्रिंशत्सागरोपमाणि, तथापि तयोरुत्कृष्टस्थितिबन्धस्वामिनो न उत्कृष्टकायस्थितिका जीवाः, देवगत्योधमार्गणायामष्टमकल्पान्तानामेवोत्कृष्टस्थितिबन्धस्वामित्वात्, शुक्ललेश्यामार्गणायामपि नवमकन्पान्तानामेवोत्कृष्टस्थितिबन्धस्वामित्वाच्च । तत्राप्यधिकस्थितिका-ऽधिकतरस्थितिकानां शुक्ललेश्याकदेवानां प्रशस्ततर-प्रशस्ततमशुक्ललेश्यत्वेन प्राणतकल्पादिदेवानामिव कदाप्युत्कृष्टस्थितिबन्धो न जापते, किन्तु ये नवमकल्पगता ह्रस्वस्थितिका देवा त एवोत्कृष्टस्थितिबन्धं निर्वर्तयन्ति, ते च यदाऽन्तमुहूर्त त्यक्त्वा भवप्रारम्भे प्रान्ते च वारद्वयमेवोत्कृष्टस्थितिबन्धं कुर्वन्ति, तदा मूलोक्तमष्टादशसागरोपमप्रमाणमन्तरं प्राप्यते, तच्चान्तमुहूर्तलक्षणेनैकदेशेन स्तोकमेव हीनमिति मूलेऽनुक्तमपि स्वयमेव हीनं द्रष्टव्यम्, देशेन हीनाधिक्यस्य लाघवार्थ मूलेऽदर्शितत्वात् । तच्चेत्थं भाव्यते-यथासंख्यमुत्कृष्टजघन्यस्थितिकानां सहस्रारा-ऽऽनतकल्पदेवानामपर्याप्तावस्थायां भवप्रथमान्तमुहूर्ते उत्कृपस्थितिवन्धस्याऽसम्भवात् तदुत्तरजातप्रथमोत्कृष्टस्थितिबन्ध-भवचरमसमयकृतोत्कृष्टस्थितिबन्धयोरन्तरमेव प्रकृतोत्कृष्टान्तरं भवति, तच्चान्तमुहूर्तलक्षणेनैकदेशेनोनान्यष्टादशसागरोपमाणि । यद्वाशक्ल लेश्यायां स्वामित्वद्वारे उत्कटस्थितिबन्धस्वामिनः 'सुइला आणतसुरो मिच्छो वा' इत्यादिगायोक्तवाकारेणानतादिकल्पवासिनोऽपि दर्शिताः,अतस्तानपेक्ष्य प्रकतान्तरमुक्तनीत्या तत्र मूलोक्तादविकमपि द्रष्टव्यमिति । इत्थमेवान्यत्रापि मूले सामान्यतोऽभिहितान्यन्तराण्यन्तर्मुहूर्तादिलक्षणैकदेशेनोनान्यधिकानि वा यथासम्भवं स्वयमेव द्रष्टव्यानिति ।।२०५।। अथान्यत्र प्रकृतान्तरमाह
णेयं असंखलोगा एगिंदि-णिगोअ-पंचकायेसु। अंगुलअसंखभागो होइ छसुहुमोघभेएसु॥२०६॥
ओघव अणाणदुगे अयता-ऽचक्खु-भवि-अभवि-मिच्छेसु । (प्रे०) “णेयं असंखलोगा" इत्यादि, अक्षरार्थस्तु सुगमः, केवलम् "असंखलोग" ति क्षेत्रतोऽसंख्येयलोकप्रमाणम् , कालतस्त्वसंख्येयोत्सर्पिण्यवसर्पिण्यः। एवम् “अंगुलअसंखभागो" इत्यत्रापि क्षेत्रतोऽङ्गुलस्यासंख्यभागप्रमाणम् , कालतस्तु प्राग्वदसंख्येयोत्सर्पिण्यवसर्पिग्य एव बोद्धव्याः, नवरं पूर्वापेक्षयाऽमूरसंख्यभागगता इति । क्षेत्रतस्तु प्रतिसमयप्रदेशापहार लक्षणा भावना प्राग्वद् द्रष्टव्या । अत्रैकेन्द्रियोघ-निगोदौघ-पृथिव्यादिवनस्पतिकायान्तौघापासु सप्तमार्गणास्वसंख्यलोकप्रमाणमन्तरं तथा षट्स्वेकेन्द्रियपृथिव्यादिसाधारणवनस्पतिकायान्तेष्वौषिकेषु सूक्ष्ममार्गणाभेदेषु प्रत्येकमङगुलासंख्यभागप्रमाणं मत्यज्ञानादिसप्तमार्गणाभेदेष्वोघवदसंख्यपुद्गलपरावर्तप्रमाणं च प्रकृतायाः सप्तानामुत्कृष्टस्थितेर्बन्धान्तरम्- 'जेट्ठो असंखलोगा एगिदि-णिगोअ-पंचकायेसु । अंगुलअसंखभागो होइ छसुहुमोवभेरसु॥१५०।। ओघव्व अणाणदुगे अयता-ऽचक्खु-भवि-अभवि-निच्छे सु। इति ग्रन्थेनोक्तमनुत्कृष्टस्थितेरुत्वष्टबन्धकालमपेक्ष्य भावनीयमिति ॥२०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org