________________
२०६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जसप्तानाम् तथैवाभिहितमिति । एतास्वेव शेषमार्गणासु प्रकृतान्तरमुत्कृष्टतः कियद्भवतीत्येतद्दिदर्शयिषुः क्रमेणाह-"शुरु तिपणि”ित्यादिना, सप्तानामुत्कृष्टायाः स्थितेगुरु-उत्कृष्टं बन्धान्तरम् “तिपणिदितिरियमणुसेसु” ति त्रिशब्दस्य पञ्चेन्द्रियतिर्यग्-मनुष्ययोः प्रत्येकं योजनाद् व्याख्यानतो विशेषप्रतिपत्तेवापर्याप्तभेदवर्जास्त्रयः पञ्चेन्द्रियतिर्यग्भेदाः, अपर्याप्तभेदवर्जास्त्रयो मनुष्यभेदाश्चैतेषु षट्पु मार्गणाभेदेषु “कोडिपुहुत्तं पुव्वा" ति कोटिपृथक्त्वं पूर्वाणि,पूर्वकोटिपृथक्त्वमित्यर्थः । "पुव्वा" इत्यत्र पस्त्वं प्राकृतत्वात् । प्राकृते हि लिङ्गमतन्त्रं भवति । याहुः कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिपादाः स्वप्राकृतलक्षणे “लिङ्गमतन्त्रम् (सि०हे० ८।४।४४५) इति । _ इयमत्र भावना-पण्णां उक्त मार्गणाभेदानां प्रत्येकमेकजीवाश्रयोत्कृष्टकायस्थितिः पूर्वकोटिपृथक्त्वाभ्यधिकपल्योपमत्रयमाना भवति । उक्तं चानन्तरमेव कालद्वारे-“तिपणिदियतिरियाणं तिणराणं य पलिओत्रमा तिपिण । अब्भहिया पुव्वाणं कोडिपुहुत्तेण णायव्वा ।।" १५५।। इति । तत्रैषा कायस्थितिः “पचिंदियतिरिनराणं सत्तट्ठभवा उ उक्कोसा" इति, वचनात् नानाभवग्रहणैः प्राप्यते, न पुनर्निरयगत्योपादिमार्गणावदेकेनैव भवेन । तत्राप्युत्कृष्टकायस्थितिमतिवाहयन्तो जीवाः संख्येयवर्षस्थितिकान् नानाभवान् प्रागेव कृत्वा पश्चाद् एकं त्रिवल्योपमस्थितिकं भवं कुर्वन्ति, न पुनः पूर्वमेव मध्ये वा । कुतः ? पूर्व मध्ये वाऽनंख्येयवस्थितिकमव करणे तेषामुत्कष्टकायस्थितेरेवाऽनवाप्तः । ननु पश्चात्संख्येयवर्षस्थितिकान् नानाभवान् कुर्वन्त एते प्रकामार्गगाथा उत्कष्टां कायस्थितिं करमाद् न पूरयन्ति ? उच्यते, नरतिरि असंखजीवि सञ्चे नियमेण जंति देवेसु" इति नियमादसंख्येयवर्षस्थितिकभवादुत्तरं तेषां देवगतावोत्पत्त्या तिर्यक्पञ्चेन्द्रियादिमार्गगातो बहिनि एव जायते. ततश्च नास्ति प्रस्तुतमार्गणास्व निरन्तरं पश्चात्संख्येयवस्थितिकनानाभवकरणावकाशः । किञ्च प्रकृततत्तन्मार्गणालको कष्टकायस्थितिनिर्वाहकानामपि जीवानां चरमे त्रिपन्योपमप्रमाणेऽसंख्यवस्थितिके भव उत्कन्टा त्यतिवन्धो न जायते । कुतः ? तेषां युग्मित्वेन स्वभावत एव मन्दकपायित्वात् । उक्त च लोकप्रकाशे युग्मिस्वरूपप्रदर्शनावसरे श्रीमन्महोपाध्यायविनयविजयगणिपादः-'तनुको वमान नाबालोनोपाः स्वभावत ।।७।। इति । इत्थं चीत्कृष्टस्थितिबन्धस्योत्कृष्टमप्यन्तरं पूर्वकोटीपृथक्त्वमेव लभ्यते, न पुनर्निरयगत्योषादिवत्स्त्रीयस्त्रीयदेशोनकायस्थितिप्रमाणम्, प्रथमोत्कृष्टस्थितिवन्धस्य कायस्थितेः प्रारम्भावस्थायां भावेऽपि द्वितीयवारभाव्युत्कृष्टस्थितिरन्धस्य त्रिपल्योपमकायस्थित्यवशेषात्यूवमेव सम्भवादिति ।
___ "अयराऽहार सुरसुक्कासु" ति 'अतराः --गागरोपमाण्यष्टादश सप्तप्रकृतिसत्कोत्कृष्टायाः स्थितेरुत्कृष्टबन्धान्तरं भवतीति प्रक्रमागम्यते । कस्यामित्याह-“सुरे"त्यादि, तत्र “सुर" ति देवगत्योधमार्गणायां तथा शुक्ललेश्यामार्गणायामित्येतयोः प्रत्येकमित्यर्थः । अयम्भावः-यद्यपि सामान्यत उत्कृष्टस्थितिवन्धस्योत्कृष्टमन्तरं तत्स्वामिनस्तत्तन्मार्गणायामुत्कृष्टावस्थानलक्षणोत्कृष्टकायस्थित्यधीनम्, ततश्च बहुषु मार्गणासु तद्देशोनकायस्थितिप्रमाणं प्राप्यते, तथापि कतिपय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org