________________
उत्कृष्टस्थितेह स्वेतरबन्धान्तरम् ]
द्वितीयाधिकारेऽन्तरद्वारम्
[ २०५
तिबन्धान्तरं न भवेदित्यर्थः । इदमुक्तं भवति - यस्यां मार्गणायामुत्कृष्टादिस्थितिबन्धः स्वप्रतिपक्षेणानुत्कृष्टादिस्थितिबन्धेन स्थितेरबन्धेन वाऽन्तरितः सन् जघन्यतोऽपि द्विः प्राप्यते, तस्यां मार्गणायां तस्या उत्कृष्टादिस्थितेर्वन्धान्तरं लभ्यते । प्रकृते च योगभेदकषायभेदान् विवर्ण्य शेषेष्वपगतवेद- मतिज्ञानादि मार्गणासु वेदोदय- मिथ्यात्वाद्यभिमुखजीवानामेव मार्गणाचरम स्थितिबन्धे उत्कृटस्थितिबन्धो जायते, तेषामेव स्वस्वमार्गणागतशेषजीवापेक्षयाऽधिकसंक्लिष्टत्वात् । ते चोत्कृष्टस्थितिबन्धं कृत्वाऽनन्तरमेव प्राग् यस्याभिमुखा आसन्, तं वेदोदय - मिध्यात्वादिकं प्राप्नुवन्ति तथा च सति तेषां प्रकृतमार्गणाया एव विच्छेदो जायते । इत्येवमपगत वेद- मतिज्ञानादिषु योग कषायवर्जमार्गणाभेदेषु मार्गणाविच्छेदादवग्भाविचरमस्थितेबन्धे सकृदेवोत्कृष्ट स्थितिबन्धभावाद् उत्कृष्ट स्थितिबन्धद्वित्वनिबन्धनमुत्कृष्टस्थिते बन्धान्तरं न लभ्यते । मनोयोगादियोगमार्गणाभेदेषु तूत्कृष्ट स्थितिबन्धस्वामिनः संज्ञिपञ्चेन्द्रियजीवा एव । तेषां च मनोयोगादीनां प्रत्यन्तमुहूर्तं परावृत्तिर्जायते । तथा च सति संज्ञिपञ्चेन्द्रियजीवानामुत्कृष्ट स्थितिबन्धस्वामिनां मनोयोगादितत्तन्मार्गणासु निरन्तरमवस्थानं स्वल्पमेव भवति । तावति च ह्रस्वकाले तत्स्वामिभिः संज्ञिपञ्चेन्द्रियजीवैर्द्विरुत्कृष्टस्थितिबन्धः कतु नत्र पार्यते, ततः स्वल्पावस्थानप्रयुक्तः प्रकृतान्तरस्याऽभाव एव तासु भवतीति ॥ २०३ -२०४।। तदेवं यामु मार्गणासु सप्तकर्मणामुत्कृष्टायाः स्थितेर्बन्धान्तरस्याऽसम्भवस्तासु तत्प्रतिषिध्य साम्प्रतं यासु तत्सम्भवस्तासु तज्जघन्यादिभेदेन दर्शयन्नाह -
सासु मुहुत्तो लहु गुरु तिपणिंदितिरियमणुसेसु ं । कोडित पुव्वा अयद्वार सुर-सुकासु ॥२०५॥
(प्रे०) "सेसासु मुहुत्तंतो” इत्यादि, अनन्तरं “ सव्वेसु जागेसु इत्यादिगाथाद्वयेऽभिहितमार्गणा विवर्ज्यं शेषासु निरयगत्योघादित्रिंशदुत्तरशतमार्गणासु प्रत्येकं “मुहत्ततो लहु" ति सप्तकर्मसत्कोत्कृष्ट स्थिते 'लघु' - जघन्यं बन्धान्तरं ' मुहूर्तान्त:':- अन्तर्मुहूर्त, भवतीति शेषः । तत्रै केन्द्रियौघादिमार्गणास्वनुत्कृष्टस्थितेर्जवन्यबन्धकालस्यान्तर्मुहूर्तत्वात् प्रकृतान्तरमप्योघवदन्तर्मुहूर्तमेव प्राप्यते । निरयगत्योघादिमार्गणासु यद्यपि सप्तानामनुत्कृष्टस्थितेर्जघन्यबन्धकालः समयस्तथाप्यसौ कालकरणेनान्यथा वा मार्गणापरावृत्तेरर्वाग् मार्गणाचरमसमयप्रारब्धानुत्कृष्टस्थितिबन्धमपेक्ष्य प्राप्यते, स च मार्गणाचरमसमयरुपोऽनुत्कृष्टस्थितिबन्धस्य जघन्यः समयमात्रकालः प्रस्तुतान्तरप्रयोजको भवितुं नार्हति तस्य मार्गणाकालभाव्युत्कृष्टस्थितिबन्धद्वयमध्यवर्तित्वाभावात् । यतो यः कचिदनुत्कृष्टस्थितियन्धो मार्गणाकालभाव्युत्कृष्टस्थितिबन्धद्वयमध्ये प्रवर्तते स स्वकीयप्रवृत्तिकालमपेक्ष्योत्कृष्टस्थितिबन्धान्तरस्य प्रयोजको भवति । निरयगत्योघादिमार्गणासु तादृशः स्थितिबन्धो जघन्यतोऽप्यन्तमुहूर्तकालिनः, अतो निरयगत्योघादिषु सप्तानामनुत्कृष्टस्थितिबन्धजघन्यकालस्य समयमात्रत्वेऽप्युत्कृष्टस्थितिबन्धस्य जघन्यमन्तरं तु समयं नैव प्राप्यते किन्त्वन्तमुहूर्तमेव प्राप्यत इति
"
www.jainelibrary.org
Jain Education International
,
For Private & Personal Use Only