________________
२०४ ]
___ बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जसप्तानाम् कियज्ज्ञेयमित्याह-"भिन्नमुहुत्तं” ति भिन्नमुहूर्तम्-अन्तर्मुहूर्तम् । इदं हि पारभविकायुर्वन्धप्रायोग्यायां द्विचरमाद्धायां चरमाद्धायां च वारद्वयमायुर्बन्धप्रायोग्याध्यवसायानवाप्य द्विरायुर्वन्धं कुर्वतां जीवानां तस्यायुर्वन्धद्वयस्यान्तरालप्रमाणं बोद्धव्यम्, न पुनर्देशोनक्षुल्लकभवप्रमाणम्, क्षलकभवापेक्षया यथोक्तान्तरस्यैव लघुत्वात् । कुतः ? इति चेद् , अपर्याप्तैकेन्द्रियादिमार्गणास्वपि नानाऽऽकरेंरायुर्वन्धस्याभिमतत्वेन जघन्यस्थितिकापर्याप्तकभवत्रिभागादपि न्यूनत्वादिति। “परमं” ति आयुषो. ऽनुत्कृष्टस्थितेः 'परमम्'-उत्कृष्टं बन्धान्तरं “तेत्तीसासागराऽभहिया" ति अभ्यधिकानि त्रयस्त्रिंशत्सागरोपमाणीत्यर्थः । इदं हि यः कश्चिन्मनुष्यस्तिर्यग्जीयो वा स्वीयवेद्यमानपूर्वकोटियायुषो भागद्वयेऽतिक्रान्ते तृतीयभागद्वितीयसमयादन्तमुहूर्त यावदनुत्कृष्टस्थितिकं देवाथुर्निरयायुर्वा बद्ध्वा कालान्तरे निरयादित्वेनोत्पद्य च पूर्ववद्धं त्रयस्त्रिंशत्सागरोपमस्थितिकं निरयाद्यायुर्वेदयन् क्रमेणाऽवाप्तायामायुर्वन्धप्रायोग्यायां चरमायामसंक्षप्याद्धायां प्रविशन्नेव यदा पारभविकायुर्वन्धं करोति, न तु तदर्वाक, तदा तेन जीवेन पूर्वकोटीमनुष्यादिभवतृतीयभागावशेषे कृतस्याऽऽयुर्वन्धस्य तथाऽनन्तर उत्कृष्टस्थितिकनिरयादिभवे आयुर्वन्धप्रायोग्यायां चरमबन्धाद्धायां कृतस्यायुर्वन्धस्य यदन्तरालमन्तमुहूर्तद्वयोनपूर्वकोटितृतीयभागाभ्यधिकत्रयस्त्रिंशत्सागरोपमप्रमाणं तदरेक्षया विजे. यमिति ॥२००-२०१-२०२॥
तदेवमभिहितं मौलानामष्टानां कर्मणामुत्कृष्टानुत्कृष्टस्थित्योः प्रत्येकं जघन्योत्कृष्टद्विविधं बन्धान्तरमोधतः । साम्प्रतं तदेवादेशतो व्याजिही' रादौ तावदायुर्वर्जसप्तकर्मणां दर्शयन्नाइ
सव्वेसु जोगेसुगयवेए चउकसाय-णाणेसु। संयम-सामइएसु छेए परिहार-देसेसु ॥२०३॥ सुहुमो-हि-सम्म-बेअग-उवसम-सासाण-मीस-ऽणाहारे।
सत्तण्ह अंतरं णो उकोसाए ठिईअ भवे ॥२०४॥ (प्रे०) “सव्वेसु” इत्यादि, सर्वेषु 'योगेयु' मनोयोग-बचोयोग-काययोगसत्केष्वष्टादशवपि मूलोत्तरयोगभेदेष्वित्यर्थः । तथा 'गतवेदे'-उपगतवेदमार्गगाभेदे "चउकसायणाणेसु" ति चतुःशब्दस्य प्रत्येकं योजनात् क्रोधादिषु चतुर्यु कपायभेदेषु मत्यादिषु चतुर्यु ज्ञानमार्गणाभेदेषु चेत्यर्थः । तथा संयमौघ-सामायिकसंयममार्गणयोः "छेए" ति छेदोपस्थापनसंयमे, तथैव परिहारविशुद्धिकसंयम-देशसंयममार्गणयोरित्यर्थः । अन्या मार्गणाः संगृहितुं प्राह-"सुहुमोहि" इत्यादि, मूक्ष्मसम्परायसंयमा-ऽवधिदर्शन-सम्यक्त्वोघ-वेदकसम्यक्त्वौ-पशमिकसम्यक्त्व-सासादनमिश्रदृष्टय-नाहारकमार्गणाभेदेष्वित्येतासु चत्वारिंशन्मार्गणासु प्रत्येकमित्यर्थः । एतासु प्रत्येकं किमित्याह-"सत्तण्ह अंतरं णो"इत्यादि, आयुर्वर्जानां सप्तानां मूलकर्मणामुत्कृष्टायाः स्थितेः 'अंतरं'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org