________________
२०२ ]
• बंधविहाणे मूलपयडिठिइबंधो
[ ओघतोऽष्टानामुत्कृष्टेतर स्थित्योः इदमप्यनन्तरद्वारोक्त सप्तप्रकृतीनामनुत्कृष्टायाः स्थितेरुत्कृष्टवन्धकालापेक्षया स्वयमेव भावनीयम्, केषाञ्चिज्जीवानामनुत्कृष्टस्थितेरुत्कृष्टवन्धकालं यावदुत्कृष्टस्थितिबन्धस्याऽप्रवर्तनात्, तदुत्तरं नियमेन प्रवर्तनाच्चेति ।
,
अथानुत्कृष्टस्थितिबन्धस्याह - "अगुरूअ" त्ति सप्तप्रकृतीनामगुरोः - अनुत्कृष्टायाः स्थितेः "लहु भवे समयो" त्ति 'लघु' - जवन्यं बन्धान्तरं 'समयः' - समयमात्रं भवेत् । सुगमम् प्रतिपक्षस्थितिबन्धजघन्यबन्धाद्धायाः समयमात्रत्वात् । उक्तं चानन्तरं कालप्ररूपणायाम् -'सत्तण्ह गुरूअ लहू कालो समयो' इति । यद्वैतदन्यथाऽपि स्थितेर्जघन्यमवन्धकालमाश्रित्य भावनीयम् । तथाहि - उपशमश्रेणौ सूक्ष्मसम्परायगुणस्थानकचरमसमये वेद्यमानायुषो द्विचरमसमयं वेदयन् यः कश्चिन् महात्मा ज्ञानावरणस्यानुत्कृष्टं स्थितिबन्धं करोति, न तु भवचरमसमये, तदानीं भवचरमसमय उपशान्तमोहगुणस्थानवर्तिनस्तस्य कस्याऽपि कर्मणः स्थितिबन्धस्याभावात् । तदुत्तरसमये पुनः स कालं कृत्वाऽन्तः कोटाकोटीसागरोपम प्रमाणां स्थिति बनन् पूर्वनिष्ठितमनुत्कृष्टस्थितिबन्धं पुनरपि करोति । तदेवं तस्य ज्ञानावरणस्यानुत्कृष्टस्थितेर्जघन्यं बन्धान्तरं प्राप्यत इति । इत्थमेव दर्शनावरणादिविषयेऽपि यथासम्भवं भावनीयमिति । अथाऽनुत्कृष्टस्थितेरेवोत्कृष्टं बन्धान्तरं दर्शयति- " भिन्नमुहुत्तं परमं" ति सप्तानामनुत्कृष्टायाः स्थितेः परममुत्कृष्टं बन्धान्तरं भिन्नमुहूर्तमित्यर्थः । इदं हि बन्धान्तरमुपशमश्रेणावबन्धको भूत्वा य उपशान्ताद्धाक्षयेण प्रतिपतति, तस्य महात्मनस्तत्तत्कर्मसत्कस्थितिबन्धानामवन्धकालापेक्षया भावनीयम्, न तुत्कृष्टस्थितिबन्धोत्कृष्टकालापेक्षया, तदपेक्षयाऽबन्धाद्धायाः संख्येयस्थितिबन्धाद्धाप्रमाणत्वेन दीर्घत्वादिति ।
अथायुरधिकृत्याह—“आउस्से "त्यादिना, उक्तशेषस्याऽऽयुःकर्मणो 'गुरोः ' - उत्कृष्टायाः स्थितेरन्तरम् - बन्धान्तरं 'ह्रस्वम्' - जघन्यम् “समयूणपुव्व कोडी होइ दससहस्सवासऽहिया" त्ति समयोना एका 'पूर्वकोटी' - उक्तस्वरूपाणां पूर्वाणां कोटी दशसहस्रवर्षाधिका भवतीत्यर्थः । इयमत्र भावना - आयुष उत्कृष्टस्थितिबन्धो वेद्यमानपूर्वकोटिस्थितिकायुषो भागद्वयेऽतिक्रान्ते तृतीयभागस्य प्रथमसमये वेद्यमाने त्रयस्त्रिंशत्सागरोपमस्थितिकं देवायुर्नरकायुर्वा बनतो जीवस्यैकस्मिन् समय एव लभ्यते, न पुनर्द्वितीयादिसमये, तदानीमबाधायाः परिगलितत्वेनोत्कृष्टाबाधासंगतस्योत्कृष्टस्थितिकायुर्वन्धस्यालाभाद् । एतच्च प्राक् प्रपञ्चितमेव । इत्थमुत्कृष्टाचाधायामुत्कृष्टस्थितिकमायुर्वद्ध्वा पुनरप्युत्कृष्टावाधायामुत्कृष्टस्थितिकायुर्बन्धो जघन्यतोऽपि समयोनदशसहस्रवर्षाभ्यधिकपूर्व कोटी कालेऽतिक्रान्त एव सम्भवति, न पुनस्तदर्वाक् ओघोत्कृष्टस्थितिकायुषो बन्ध-वेदन योर्भिन्नभिन्नगतावेव भावात् । किमुक्तं भवति-ओघोत्कृष्टस्थितिकायुषो बन्धकस्तिग् मनुष्यो वा भवति, तच्चायुर्नारिकतया देवतया वोत्पद्य वेदयति, ततश्च निरन्तरे भवद्वये द्वन्धौ न प्राप्येते, किन्तु सान्तरभवद्वय एव, इत्यतो जघन्यमप्यन्तरमुक्तप्रमाणं जायत इति । अत्र नोदक:ननु सान्तरभवद्वये तद्बन्धेऽपि कथमेतावत्सङ्गच्छेत्, यत उत्कृष्टस्थितिकमायुर्बद्ध्वा तत्र नारकतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org