________________
॥ अथ पञ्चममन्तरद्वारम् ॥ इदानीं पञ्चमस्यैकजीवाश्रयान्तरद्वारस्यावसरः । तत्रैकजीवाश्रयामन्तरप्ररूपणां चिकीर्षुरादौ तावदुत्कृष्टाऽनुत्कृष्टस्थितिबन्धविषयां तामोघतः कुर्वन्नाह
सत्तण्हुक्कोसाए ठिईअ लहुमंतरं मुहुत्तंतो। परममसंखपरट्टा अगुरूअ लहु भवे समयो ॥२०॥ भिन्नमुहुत्तं परमं आउस्स गुरूअ अंतरं हस्सं । समयूणपुवकोडी होइ दससहस्सवासऽहिया ॥२०१॥ परममसंखपरट्टाऽणुकोसाए जहण्णगं णेयं । भिन्नमुहुत्तं परमं तेत्तीसा सागराऽभहिया ॥२०२॥
(प्रे०) “सत्तण्डुकोसाए ठिईअ" इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रत्येकमुत्कृष्टायाः स्थितेः “लहुमंतरं" ति बन्धस्य प्रकृतत्वात् 'लघु'-जघन्यं बन्धान्तरं 'मुहूर्तान्तः' - अन्तमुहूतं भवेदिति परेणान्वयः । इदमुक्तं भवति-अनन्तरोक्तकालप्ररूपणावदन्तरप्ररूपणायामप्युत्कृष्टा-ऽनुत्कृष्ट-जघन्या-ऽजघन्यभेदाचतुर्धा विभक्तानां स्थितीनां प्रत्येक बन्धस्य जघन्यत उत्कृष्टतश्च द्विधाऽन्तरं चिन्त्यते, तत्रैकजीवाश्रयेऽनन्तरद्वारोक्त ज्ञानावरणादीनामुत्कृष्टादिस्थितिसत्के बन्धकाले समाप्त व्युपरतस्योत्कृष्टादिस्थितिबन्धस्य यावन्तं कालमतिक्रम्य नियमेन पुनः प्रारम्भो जायते, तावान् प्रातिष्ठितस्य पुनरारब्धस्य तत्तदुत्कृष्टादिस्थितिबन्धस्यान्तरालवर्ती सर्वोऽपि कालस्तत्तदुत्कृष्टादिस्थितिबन्धस्योत्कृष्टमन्तरमभिधीयते । पूर्वनिष्ठितस्तत्तदुत्कृष्टादिस्थितेबन्यो यावन्तं समयादिकालमनतिक्रम्य पुनर्नैव प्रारभ्यते, तावान् सर्वः कालस्तु तस्यास्तस्या उत्कृष्टादिस्थितेर्जवन्यं बन्धान्तरं संगीर्यते । ओघत आयुर्वर्जमूलसप्तप्रकृतीनां प्रत्येकमुत्कृष्टस्थितिबन्धस्य जघन्यमन्तरं भिन्नमुहूर्तमभिहितम्, तच्चानुत्कृष्टस्थितेजेधन्यवन्धकालापेक्षया भावनीयम् । तथाहि-कस्यापि पर्याप्तसंज्ञिपञ्चेन्द्रियमिथ्यादृष्टेर्जीवस्योत्कृष्टस्थितिवन्धे समाप्ते नियमेनानुत्कृष्टस्थितिबन्धः प्रवर्तते । स चानुत्कृष्टस्थितिवन्धः स्वकीयजघन्यबन्धकालमन्तमुहूर्तं यावदविरततया प्रवर्तत एव । तस्मिँश्च प्रवर्तमाने सति न विद्यते तावत्कालमुत्कृष्टस्थितेन्धप्रारम्भावकाशः, विवक्षितैककर्मण उत्कृष्टानुत्कृष्टस्थितिबन्धयोः सममेव प्रवृत्तेविरोधात् । ततश्चानुत्कृष्टस्थितेर्बन्धप्रायोग्ये जघन्यबन्धकालेऽतिक्रान्ते कस्यापि तादृशजीवस्य पुनरप्युत्कृष्टस्थितिवन्धप्रायोग्याध्यवसायप्राप्तेरनुत्कृष्टस्थितिबन्धविरामेन पुनरप्युत्कृष्टस्थितिबन्धः प्रवर्तयितु लगति । एवमेतादृशजीवस्वामिकोस्कृष्टस्थितिबन्धयोर्जघन्यमन्तरमन्तमुहूर्त प्राप्यत इति । “परममसंखपरहा" ति एकजीवाश्रयं सप्तकर्मणां प्रत्येकमुत्कृष्टायाः स्थितेः 'परमम्'-उत्कृष्टं बन्धान्तरमसंख्यपुद्गलपरावर्ता भवेदित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org