SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २०० ] बंधविहाणे मूलपयडिठिइबंधो [ अजघन्यस्थित्युत्कृष्टबन्धकालः कासु मार्गणास्वित्याह-"तिरियगिनिये” त्यादि, तिर्यग्गत्योधै-केन्द्रियौघ-साधारणवनस्पत्योघभेदेषु तथा पृथिव्यादिवनस्पकि.यान्तपञ्चकायौघमार्गणासु, मत्यज्ञान-श्रुताज्ञानयोयुगले, असंयमाऽभव्य-मिथ्यात्वा-ऽसंज्ञिमार्गणास्वित्येतासु चतुर्दशमार्गणासु प्रत्येकमित्यर्थः । कथमेतावानेव, न पुनन्यूनः ? इति चेत् , सूक्ष्मपथिव्यादीनामुत्कृष्टकायस्थितेरसंख्येयलोकप्रमाणत्वात् , तेषां च प्रकृतमार्गणासत्कज बन्यस्थितिबन्धस्वामित्वाभावेनोत्कृष्टकायस्थितिं यावदजघन्यस्थितिवन्धस्यैव निर्वतनादिति । अथान्यत्राह-"अगुलअसंखभागो सुहुमेसु भवे" त्ति प्रस्तुतोत्कृष्टबन्धकालः पष्वेकेन्द्रिय-पृथिव्यादि-वनस्पतिकायान्तेषु पर्याप्ताऽपर्याप्तविशेषणविरहितेषु सूक्ष्मोघभेदेषु प्रत्येकमगुलस्याऽसंख्यभागः क्षेत्रतो भवेत् । कालतस्तु प्राग्वदवसातव्यः । “अचक्खुभवियेसु" ति अचक्षुर्दर्शनमार्गणायां भव्यमार्गणायां च प्रत्येकम् “ओघव्व” त्ति प्रकृतबन्धकाल ओघवत् त्रिधा ज्ञातव्यः । तद्यथा-अनादिध्रुवः,अनाद्यध्रुवः, साद्यध्रुवश्च । तत्र साद्यध्रुव उत्कृष्टतो देशोनार्थपुद्गलपरावर्तः । उक्तश्च प्राक“स य एवमणाइधुवो अणाइअधुवो य साइअधुवो य। तइओंऽतमुहुत्तमणू देसूणद्धपरियट्टोऽण्णो"।। इति । अथ शेषमार्गणासु प्रकृतकालमाह-"सेसासुसगुरुकायठिई" ति उक्तविंशतिमार्गणा विहाय शेषास्वष्टचत्वारिंशदुत्तरशतमार्गणासु प्रत्येकं प्रकृतसप्तकर्मणामजघन्यस्थितेरुत्कृष्टो बन्धकालस्तत्तन्मार्गणाया स्वीया स्वीया प्रागुक्तोत्कृष्टकायस्थितिबर्बोद्धव्य इत्यर्थः । सगमः, नैरयिकादिजीवेषु केपाञ्चिज्जीवानामुत्कृष्टकायस्थिति यावज्जघन्यस्थितिबन्धस्याप्रवर्तनेनाजघन्यस्थितिवन्धस्याऽविरततया प्रवर्तनसम्भवात् । अत्राऽपि शेषमार्गणाऽन्तःप्रविष्टायामपगतवेदमार्गणायां 'सगुरुकायठिई' इत्यनेन प्रस्तुतकालयुकृष्टकायस्थितिप्रमाणे प्राप्तेऽप्यसौ व्याख्यानतोऽनुत्कृष्टस्थितिबन्धोत्कृष्टकालवदन्तमुहूर्तमेवावसातव्यः, न तूत्कृष्टकायस्थितिरिति ॥१९८-१९९॥ तदेवमभिहितः शेषसप्तकर्मसत्काजघन्यस्थितेरपि द्विविधो बन्धकालः, तस्मिँश्चाभिहिते समाप्ता चतुर्थद्वारविषयभूतै कजीवाश्रयकालप्ररूपणेति ।। ॥ इति बन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे चतुर्थमेकजीवाश्रयकालद्वारं समाप्तम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy