________________
१९२ ]
बंधविहाणे मूलपयडिठिहबंधो [मार्गणास्वायुर्वर्जसप्तानाम् (प्रे० ) "मिस्सतिजोगे"त्यादि, औदारिकमिश्र-वैक्रियमिश्रा-ऽऽहारकमिश्रकाययोगलक्षणे मिश्रयोगत्रये, “कसायतिग" ति व्याख्यानतो विशेषप्रतिपत्तेर्लोभवर्जकषायत्रिके, क्रोधमान-मायालक्षणमार्गणात्रये इत्यर्थः । तथाऽवधियुगलेऽवधिज्ञाना-ऽवधिदर्शनमार्गणाद्वयात्मके,परिहारविशुद्धिकसंयममार्गणायां,तेजोलेश्या-पद्मलेश्यामार्गणयोश्चेत्येवं समुदितास्वेकादशमार्गणासु प्रत्येकम् “मुहत्तंतो समयो व" ति प्रस्तुतबन्धकालो मुहूर्तान्तः समयो वा भवति । तत्र मिश्रयोगतेजोलेश्या-पद्मलेश्यामार्गणासु .....ऽणंतरकाले सरीरपज्जत्तिं । यो णिट्ठवेउ सो वा णेयो तिसु मीसजोगेसु ॥१२६॥' तथा 'अपमत्तो अहवा से बंधम्मि कयकरणे हवेहिइ जो। सो यो परिहारे 'तेउ-पउमवेअगेसु य ॥१२८॥ इत्यादिनोक्तस्वामित्वविषयकमतान्तरप्रयुक्तोऽसौ यथासम्भवमन्तमुहूर्त समयो वा प्रागिव योज्यः । तत्र मिश्रयोगत्रये त्वनुत्कृष्टस्थितेर्जघन्यबन्धकालवत्सुगमाऽन्तमुहूर्त-समयकालयोजना । तेजः-पालेश्यामार्गणयोस्तु स्वस्थानाऽप्रमत्तस्य जघन्यस्थितिबन्धस्वामित्वमते जघन्यस्थितिबन्धादवतीर्याऽजघन्यस्थितिबन्धप्रारम्भद्वितीयसमये मार्गणापरावृत्तिप्रयुक्तः समयमात्रः प्रकृतकालो लभ्यते । कृतकरणत्वाक्सिमयस्थस्य जघन्यस्थितिबन्धस्वामित्वमते तु जघन्यस्थितिबन्धकालिनलेश्याया उत्तरत्राऽन्तमुहत यावत्प्रवर्तनात्तदानीमजघन्यस्थितिबन्धस्यैव प्रवर्तनाच्चाऽजघन्यस्थितिबन्धस्य जघन्योऽपि कालोऽन्तमुहूर्तं प्राप्यते । शेषकपायत्रिकादिमार्गणापटके तु यथोक्तजघन्यकायस्थितिविषयकमतद्वयानुसारेण प्रस्तुता-ऽन्तमुहूर्तसमयकालो योज्यः । तद्यथा-श्रोप्रज्ञापनासूत्रानुसारेण क्रोधादिकषायमार्गणात्रयस्यैकजीवाश्रयजघन्यकायस्थितेरन्तमुहूर्तत्वात् , अवधिद्विक-परिहारसंयमयोरेकाजीवाश्रयर्जघन्यकायस्थितेः समयमात्रत्वाच्च प्रस्तुतकालोऽपि क्रोधादिमार्गणास्ववधिज्ञानादिमार्गणासु च यथासङ्ख्यमन्तमुहूर्त समयश्च लभ्यते ।
ननु भवत्ववधिज्ञानादिमार्गणाजघन्यकायस्थितेः समयमात्रत्वात्तत्र कालोऽयं समयमात्रः, न पुनः क्रोधादिकपायमार्गणास्वपि तेनाऽन्तमुहूर्तप्रमाणेन भवितव्यमेव, जघन्यतोऽन्तमुहूर्तकायस्थितिकमार्गणास्वपि प्रस्तुतकालस्य समयमात्रत्वसम्भवाद् ? इति चेद्, एवमपि नात्रासौ तावान् सम्भवति, जघन्यस्थितिबन्धादित उत्तीर्णस्य पुनरपि समयान्तरेण जघन्यस्थितिबन्धाऽबन्धादीनां समुद्भवे तल्लाभात्, प्रस्तुतमार्गणात्रये तु जघन्यस्थितिबन्धादुत्तीर्णानां सर्वथैव स्थितिबन्धस्याऽप्रवर्तनात्, अबन्धादुत्तीर्णानां वाऽन्तमुहूर्तादर्वागवन्धस्य जघन्यस्थितिबन्धस्य मार्गणापरावृत्तेर्वाऽसम्भवादिति । एतासु मार्गणासु वैपरीत्येन क्रोधादिषु समयमात्रः, अवधिज्ञानादिषु त्वन्तमुहते च महाबन्धकाराभिमततज्जघन्यकायस्थितेस्तथात्वात् तथा बोद्धव्यः । अत्र तु परिहारविशद्धिकमार्गणायां तन्मतेऽपि कृतकरणाद्धाया अक्सिमये जघन्यस्थितिवन्धस्वामित्वाभ्युपगमापेक्षया प्रस्तुतकालोऽन्तमुहूर्तमपि द्रष्टव्य इति ।
__ "अण्णासु समयोऽत्थि" ति उक्तान्यासु द्वितीयपथिवीनिरयभेदादिषडविंशत्यभ्यधिकशतमार्गणासु प्रत्येकं प्रकृतः सप्तकर्मणामजघन्याः स्थितेर्जघन्यो बन्धकालः 'समयः' समयमात्रो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International