________________
अजघन्यस्थितेर्जघन्यबन्धकालः ] द्वितीयाधिकारे कालद्वारम्
[ १९३ भवतीत्यर्थः । तत्र शेषमर्गणाभेदा नामतोऽमो-द्वितीयादिषष्ठपथिव्यन्ताः एचनिरयगतिभेदाः, ज्योतिष्कादिपञ्चानुत्तरविमानभेदपर्यन्ताः सप्तविंशतिर्देवगतिमार्गणाभेदाः, मनुष्यौघ-पर्याप्तमनुष्यमानुपीलक्षणास्त्रयो मनुष्य गतिभेदाः,सर्वे तिर्यग्गतिभेदाः, सर्व एकेन्द्रियभेदाः,सर्वे विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रिय भेदः, सर्वे पृथिवीकाया-ऽकाय-तेज काय-वाघुकाय-बनस्पतिकायसत्का भेदाः, अपर्याप्तत्रसकायभेदः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, काय योगसामान्यो-दारिक-क्रियाऽऽहारक-कार्मणकाययोगमार्गणाभेदाः, स्त्री-नपुसकवेदभेदावपगतवेदभेदश्च, तथा लोभकषाय-मन:पर्यवज्ञान-विभङ्गज्ञान-संयमोघ-सामायिक-च्छेदोपस्थापन-सूक्ष्मसम्परायसंयम-सासादना-ऽसंड्या-ऽऽहा यं-ऽनाहारिमार्गणाभेदाश्चति ।।
तत्र द्वितीयपृथिव्यादिनिरयभेदेष्वनन्तरगाथायां प्रसङ्गाद्भावितः प्रकृतबन्धकालः, तथैव सप्तविंशतिदेवमार्गणाभेदेषु भावनीयः । मनुष्यगतिभेदत्रये तूपशान्ताद्धाक्षयेऽजघन्यस्थितिवन्धं प्रारभ्य द्वितीयसमये कालकरणेन देवगतावुत्पच्या प्रस्तुतमार्गणाविच्छेदादेकसमयः । तिर्यग्गत्योघे जघन्यस्थितिवन्धस्वामी यः कश्चिदेकेन्द्रियजीवो भवद्विचरमसमये जघन्यस्थितिबन्धं समाप्य भवचरमसमयेऽजघन्यस्थितिबन्धं प्रारभ्यानन्तरसमये कालं कृत्वा मनुष्यतयोत्पद्यते, तमपेक्ष्य प्रकृतबन्धकालः प्राप्यते । इत्थमेव शेषेसु तिर्यक्पञ्चेन्द्रियभेदेष्वपि द्रष्टव्यम, नवरमपर्याप्तमार्गणाभेदेऽसंशिजीवस्य भववरमसमयेऽजघन्यस्थितिबन्धप्रारम्भादनन्तरं मनुष्यतयोत्पादो द्रष्टव्यः, शेषभेदत्रये तु देवतयेति । इन्द्रियमार्गणाभेदेषु कायमार्गणाभेदेषु च तिर्यग्गत्योधमार्गणाभेदवद् यथासम्भवं भावनीयः। काययोगवर्जेषु शेषयोगमार्गणाभेदेषु तु प्रत्येकं स्वस्त्रजघन्यकायस्थित्यनुसारेण प्रस्तुतोऽजघन्यस्थितेर्जघन्यबन्धकालो भावनीयः । इत्थं वेदादिशेषमार्गणाभेदेष्वपि स्वीयस्वीयजघन्यकायस्थितिभावनाबद्भावना द्रष्टव्या, केवलं काययोगसामान्य-संयमौघ-मनःपर्यवज्ञान-आहारिमार्गणासु प्रत्येकमबन्धादुत्तीर्याऽजघन्यस्थितिबन्धप्रारम्भद्वितीयसमये योगपराबत्त्या कालकरणेन च यथासम्भवं प्रकृतमार्गणाविच्छेदाज्जघन्यकालो द्रष्टव्य इति॥१९७॥
तदेवमभिहितः सप्तानां मूलप्रकृतीनामजघन्यस्थितेरेकजीवाश्रयो जघन्यो बन्धकाल आदेशतः । साम्प्रतं तस्या एवोत्कृष्टबन्धकालं विभणिषुर्गाथाद्वयमाह
जेट्ठो असंखलोगा तिरिये-गिदिय-णिगोअभेएसु। पणकाय-अणाणजुगल-अयता-ऽभवि-मिच्छ-अमणेसु॥१९८॥ अंगुलअसंखभागो सुहमेसु भवे अचक्खु भवियेसु।
ओघव्व जाणियब्बो सेसासु सगुरुकायठिई ॥१९९ ॥ (प्रे०) “जेट्ठो असंखलोगा" इत्यादि, प्रकृतसप्तप्रकृतिसत्काया अजघन्यस्थितेज्येष्ठःउत्कृष्टो बन्धकालोऽसंख्यलोकाः क्षेत्रतः, कालतस्तु प्रागवदसंख्येया उत्सर्पिण्यवसर्पिण्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org