________________
जघन्यस्थितेर्जघन्यबन्धकालः ] द्वितीयाधिकारे कालद्वारम्
[ १९१ पर्याप्तपञ्चेन्द्रियभेदयोस्तु जघन्यस्थितिबन्धादवतीर्णानां स्थितिबन्ध एव न प्रवर्तते, जघन्यस्थितिबन्धस्य क्षपकश्रेणावेव भावात् । श्रेणावुपशान्ताद्धाक्षयेणाऽबन्धादुत्तीर्याऽजघन्यस्थितिबन्धप्रारम्भद्वितीयसमये मरणस्य सम्भवेऽपि तथाप्रकारेण कालं कुर्वतां देवगतावुत्पत्त्या प्रकृतपञ्चेन्द्रियौघादिमार्गणाविच्छेदस्याभावात् प्रकृतवन्धकालोऽन्तमुहूर्तात्स्तोको न प्राप्यते । इत्थमेव त्रसकायभेदद्वये, पुवेदे, ज्ञानद्रिके, दर्शनहिके, शुक्ललेश्यायां, भव्ये, सम्यक्त्वौघ-क्षायिक-वेदको-पशमिकसम्यक्त्वेषु संज्ञिमार्गणाभेदेषु च यथासम्भवं भावनीयम् । एतेषु भेदेष्वन्तमुहर्तमात्राजघन्यस्थितिबन्धकालस्य प्राप्तिस्त्वोचवज्जघन्यकायस्थित्यनुसारेण वा यथासम्भवं द्रष्टव्या। केवलं पञ्चेन्द्रियौघभेदे त्रसकायौधभेदे संज्ञिभेदे च मार्गणान्तरादागतस्य षट्पञ्चाशदधिकद्विशतावलिकामात्रजघन्यायुपस्ततश्च्युत्वैकेन्द्रियतयोपित्सोर्जीवस्य प्रकृतमार्गणायां संजाताऽजघन्यस्थितिवन्धमपेक्ष्याजघन्यस्थितेः पटपञ्चाशदधिकद्विशतावलिकाप्रमाणो बन्धकालः सर्वजघन्यो द्रष्टव्यः । शेषमत्यज्ञानादिमागंणास्वप्यनया रीत्यैव सप्तकर्मसत्काऽजघन्यस्थितेरन्तमुहूर्तकालो भावनीयः।
ननु शेपासु मत्यज्ञानादिमार्गणासु प्रस्तुतकालः कथं समयमात्रो न प्राप्यते ? उच्यते, मार्गणाया जघन्यकायस्थितेरन्तमुहूर्तमात्रत्वे सति मरणव्याघाते समुपजातेऽपि प्रस्तुतमार्गणानां मार्गणान्तरतयाऽपरावर्तनात् । इदमुक्तं भवति-एतासु सप्तानामजघन्यस्थितेर्जघन्यवन्धकालः समयमात्रस्तदा प्राप्येत, यदि मनोयोगादिमार्गणावत्तत्तन्मार्गणाया जघन्यकायस्थितिः समयमात्रा स्याद् , अजघन्यस्थितिबन्धप्रारम्भक्तिीयसमये मरणव्याघाते समुपजाते प्रस्तुतमार्गणाया मार्गणान्तरतया परावृत्तिर्वा स्याद् । न चै देशसंयममार्गणां विहाय शेषासु मत्यज्ञान-श्रुताज्ञानाऽसंयम-कृष्णलेश्या-नीललेश्या-कापोतलेश्या-ऽभव्य-मिथ्यात्वमार्गणानामन्यतमस्या अपि भवति, प्रत्येकं मार्गणानां जघन्यकायस्थितेरन्तर्मुहूर्तप्रमाणत्वात् , मरणव्याघातेन मार्गणान्तरतयाऽपरावर्तनाच । जवन्यतोऽन्तमुहूर्तस्थितिकायां देशसंयममार्गगायां तु कालकरणे मार्गणापरावृत्तेः सम्भवेऽपि तत्र सप्तानामवन्धस्याऽभावात् , जवन्यस्थितिबन्धादुत्तीर्णानामन्यस्थितिबन्धस्यैवाभावाच न लभ्यते प्रस्तुतकालः समयमात्रः। किमुक्तं भवति-जघन्यस्थितिबन्धादुत्तरं यद्यन्यस्थितिवन्धः स्यात्तदाऽसावजघन्य एव स्यात् , तद्वितीयसमये कालकरणे च मार्गणापरावृत्तिप्रयुक्तः प्रस्तुतकालः समयमात्रः सम्पद्येत । न चैवं भवति । देशसंयममार्गणायां संयमाभिमुखानां जघन्य स्थितिबन्धस्वामित्वेन जयन्यस्थितिबन्धसमाप्त्या सममेव देशसंयममार्गणाविच्छेदादिति ॥१९५-१९६॥
अथैकयाऽऽर्यया शेषमार्गणासु सतानामजघन्यस्थितेर्जघन्यबन्धकालं प्राहमिस्सतिजोग-कसायतिगा-ऽवहिजुगल-परिहार-तेऊस। पम्हाअ मुहुत्ततो समयो वाऽण्णासु समयोऽत्थि ॥१९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org