________________
१९० ]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्वायुर्वर्जसप्तानाम् अपसत्थतिलेसासु सुकिल-भवि-अभवि-सम्मेसु।।
खाइअ-वेअग-उवसम-मीसेसुमिच्छ-सण्णीसु॥१९६॥ (उपगोतिः) (०) "भिन्नमुहुत्तं” इत्यादि, सप्तानामजघन्यस्थितेर्जघन्यबन्धकालो भिन्नमुहूर्त भवति । केषु मार्गणाभेदेष्वित्याह-"सत्तमणिरये" इत्यादि. सप्तमपृथिवीनिरयभेदे. "दपणिंदितसपुमेसु” त्ति द्विशब्दस्य पञ्चेन्द्रियवसयोः प्रत्येकं योजनाद् द्वयोः पञ्चेन्द्रियभेदयो
योस्त्रसकायभेदयोः पुवेदमार्गणाभेदे चेत्यर्थः । अत्र व्याख्यानतो विशेषप्रतिपत्त्या पञ्चेन्द्रियत्रसकायसत्को निरुक्तौ द्वौ द्वौ भेदावपर्याप्तभेदवौं बोद्धव्याविति । तथाशब्दोऽनुक्तसमुच्च ये, अनुक्तमार्गणाभेदानेव सार्धया गाथया संगृह्णन्नाह-"मइसुअ"इत्यादिना, मतिज्ञान-श्रुतज्ञानमार्गणयोः, मत्यज्ञान-श्रताज्ञानलक्षण यो योरज्ञानमार्गणाभेदः , देशसंयमे, असंयमे, चक्षरचक्षुदर्शनमार्गणयोः, 'अप्रशस्तासु' अशुभासु त्रिसृषु कृष्णादिलेश्यामार्गणासु, शुक्ललेश्या-भव्या-ऽभव्यसम्यक्त्वौघमार्गणाभेदेषु, क्षायिक-वेदको-पशमिकसम्यक्त्व-मिश्रदृष्टिमार्गणाभेदेषु मिथ्यात्वमार्गणासंज्ञिमार्गणयोरित्येतेषु सप्तविंशतिमार्गणाभेदेषु प्रत्येकमित्यर्थः ।
इयमत्र भावना-अजघन्या स्थितिरनुत्कृष्टस्थितिवत् साकाराऽनाकारोभयोपयोगेन बध्यते, अतस्तद्वन्धे साकारोपयोगोऽनाकारोपयोगो वा न व्याघातकः, किन्तु प्रकृतमार्गणाया मार्गणान्तरतया परावृत्तिर्जघन्यस्थितिबन्धोऽबन्ध इत्येतेषां त्रयाणामन्यतमो व्याघातको भवति । इत्थं हि तेभ्यस्त्रिभ्योऽवतीर्याजघन्यस्थितिबन्धप्रारम्भद्वितीयसमये यदि पुनरपि तेषां त्रयाणामन्यतमः समुद्भवति, तदाऽजघन्यस्थितेजेधन्यवन्धकाल एकसमयः प्राप्यते । एतच प्रस्तुतसप्तमपृथिवीनिरयभेदादिमागणासु न सम्भवति । तथाहि-प्रथमपथिवीनिरयभेदं संत्यज्य शेषेषु द्वितीयादिसप्तमान्तेषु षट्षु निरयभेदेषु सप्तकर्मणां जघन्यस्थितिबन्धस्वामिनः सम्यग्दृष्टयो जीवा एव । उक्तं च स्वामित्वप्ररूपणायाम्- "सेसणिरयदेवेसु विउवदुगे होइ सम्मत्ती' ||१२२।। इति ।
तत्रापि तिर्यक्त्वेनैवोत्पित्सवः सप्तमनरकजीवाः पूर्वलब्धसम्यक्त्वमुत्सृज्य मिथ्यात्वं चाऽवाप्याऽन्तर्मुहूतं विश्रम्यैव कालं कुर्वन्ति, न पुनरतदयंगपि । इत्थं हि द्वितीयादिनिरयभेदगतजीवानामिवामीषां सप्तमनरकजीवानामजघन्यस्थितेजघन्यबन्धकालः समयो नावाप्यते, अजघन्यस्थितिबन्धप्रारम्भादन्तमुहूर्तेऽतिक्रान्ते एव तेषां मरणसम्भवात् । द्वितीयादिपञ्चनिरयभेदगतजीवास्तु ससम्यक्त्वा अपि भवान्तरं गच्छन्ति, न पुनः सप्तमपृथिवीनैरयिकाणामिवान्तमुहूर्त मिथ्यात्वं गत्वैव । इत्थं तेभ्यो ये केचन सम्यक्त्ववन्तो भवद्विचरमसमये जघन्यस्थितिबन्धं समाप्य भवचरमसमयेऽजघन्यस्थितिबन्धं च प्रारभ्य कालं कुर्वन्ति, तेषामजघन्यस्थितेर्जघन्यवन्धकालः समयमात्रोऽपि प्राप्यत इतिकृत्वा प्रकृते द्वितीयादिनिरयभेदानपहाय सप्तमपृथिवीनिरयभेद एव गृहीतः। निरयभेदेषु मरणव्याघातं विना तु समयमात्रजघन्यबन्धकालस्य सम्भव एव नास्ति । पञ्चेन्द्रियौघ
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only