________________
जघन्यस्थितेरुत्कृष्टबन्धकालः ] द्वितीयाधिकारे कालद्वारम्
[ १८९ कत्वाच्चेति । अथ मिश्रयोगत्रये स्वामित्वविषयकमतभेदापन्नौ विकल्पावाह-"भिन्नमुहुत्तं समयो वा" इत्यादि, औदारिकमिश्र-वैक्रियमिश्रा-ऽऽहारकमिश्रयोगाख्यासु त्रिसृषु मिश्रयोगमार्गणासु प्रत्येकम् “उकोसो” त्ति प्रकृतत्वात्सप्तानां जघन्यायाः स्थितेरुत्कृष्टो बन्धकालः"............ णंतरकाले सरीरपज्जत्ति । यो णिहवेउ सो वा णेयो तिसु मीसजोगेसु ॥१२६।।" इत्यनेन दर्शितजघन्यस्थितिबन्धस्वामिविषयकमतान्तरेण समयः, तदन्यमतेन तु ‘भिन्नमुहूर्तम्'-अन्तमुहूर्त ज्ञातव्य इति गाथाप्रान्तेऽन्वयः । गतार्थः । अथोक्तशेषमार्गणासु प्रस्तुतमाह-"सेसास" इत्याद्यत्तराधैन, अनन्तरोक्ता निरयगत्योघाद्यकादशमार्गणा विहाय शेषासु द्वितीयपथिवीनिरयभेदादिष्वेकोनपष्टयु त्तरशतमार्गणासु प्रत्येकं भिन्नमुहूर्तं ज्ञातव्यः, सप्तानां जघन्यायाः स्थितेरुत्कृष्टो बन्धकाल इति प्रक्रमाद्गम्यत इति । अयमपि कस्याप्येकस्थितिबन्धस्थानात्मकस्य जघन्यस्योत्कृष्टस्य वा स्थितिवन्धस्यान्तमुहूर्तादधिकमप्रवर्तनादित्यादि प्राग्वद्भावनीय इति ॥१९२-१९३॥
तदेवं सर्वमार्गणासु दर्शितः सप्तानां जघन्यस्थितेरुत्कृष्टबन्धकालोऽपि । साम्प्रतं तासामेव सप्तानामजघन्यायाः स्थितेर्द्विविधबन्धकालं प्रचिकटयिषुरादौ जघन्यं बन्धकालं दर्शयन्नाह
णिरय-पढमणिरयेसुअपज्जणर-देव-भवणजुगलेसु।
अजहण्णाए हस्सो दुखणूणजहण्णकायठिई ॥१९४॥ (प्रे०) "णिरयपढमे"त्यादि, निरयगत्योध-प्रथमपृथिवीनिरयभेदरूपयो योर्मार्गणयोस्तथा-ऽपर्याप्तनरभेद-देवौघ-भवनपति-व्यन्तरयुगलेष्वित्येतासु षण्मार्गणासु प्रत्येकम् “अजहण्णाए हस्सो” ति आयुर्वर्जानां सप्तकर्मणामजघन्यायाः-जघन्यभिन्नायाः स्थितेर्हस्वः-जघन्यो बन्धकालः “दुखणणजहण्णकायठिई" ति 'द्विक्षणौ'-द्वौ समयौ ताभ्यामृनाः-न्यूना द्विक्षणोना “कायठिई णायव्या जहण्णगा दससहस्स वासाणि । णिश्यपढमणिरयाणं देवभवणवंतराणं च ॥१७॥" इत्यादिनाऽभिहिता निरयगत्योपादिमार्गणानां स्वीया स्वीया जघन्या कायस्थितिभवतीत्यर्थः । इयमत्र भावना-प्रकृतसप्तमार्गणासु प्रत्येकं जघन्यस्थितिबन्धो विग्रहगतो वर्तमानस्य जीवस्य भवप्रथमसमयद्वय एव सम्भवति,नान्यदा। उक्तं च स्वामित्वद्वारे-“पढमदुइअसमये खलु असण्णिओ आगओ णेओ ॥१२१।। णिरयपढमणिरयेसु अपज्जणरदेवभवणजुगलेसु।" इति । ततश्च भवप्रथमसमयद्वयं संत्यज्यान्यदाऽजघन्यस्थितिबन्ध एव प्रवर्तते । नैरयिकदेवानां भवस्थितिकायस्थिती तु परस्परं तुल्य एव, कस्यापि जीवेनैकस्यैव भवस्य नैरयिकतया देवतमा वा निरन्तरकरणादिति तु प्रागभिहितमेव । इत्येवमजयन्यस्थितेर्जवन्यबन्धकालोऽपि यथोक्त एव प्राप्यत इति ॥१९४॥ अथ सप्तमपृथिवीनिरयभेदे प्रकृतकालं दिदर्शयिषुः समानवक्तव्यत्वादन्यमार्गणास्वपि सममेवाह
भिन्नमुहुत्तं सत्तमणिरये दुपणिंदि-तस-पुमेसु तहा। मइ-सुअणाणियरेसुदेसा-ऽयत-चक्खुइयरेसु॥१९५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org