________________
१८८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जसप्तानाम् गत्योघाद्य कत्रिंशदुत्तरशतमार्गणासु प्रत्येकं समयोऽस्ति, जघन्यस्थितेजघन्यबन्धकाल इति गम्यते । तत्र शेषमार्गणा नामत इमाः-अष्टौ निरयगतिभेदाः, पञ्चापि तिर्यग्गतिभेदाः, अपर्याप्तमनुष्यभेदः, सर्वेऽपि देवगतिभेदाः,सप्तैकेन्द्रियभेदाः, नव विकलेन्द्रियभेदाः, अपर्याप्तपञ्चन्द्रियभेदः, पृथिव्यप्तेजोवायुवनस्पतिकायसत्काः सर्वे भेदाः, ते चैकोनचत्वारिंशत् । अपर्याप्तत्रसकायभेदः, सर्वे योगभेदास्ते चाष्टादशः । मत्यज्ञान-श्रताज्ञाना-ऽसंयम-कृष्ण-नील-कापोतलेश्या-ऽभव्यो-पशमिकसम्यक्त्व-सासादन-मिथ्यात्वा- संजय-ऽनाहारिमार्गणाभेदाश्चेति । तत्र नरकगत्योध-प्रथमपृथिवीनिरयभेदयोर्देवगत्योघ-भवनपति-व्यन्तरभेदेष्वपर्याप्तमनुष्यमार्गणायां च प्रत्येकमेकवक्रया द्विसामयिक्या विग्रहगत्याऽसंज्ञिभ्य आगच्छतो जीवस्य भवप्रथमसमयापेक्षया विज्ञेयः। पञ्चसु मनोयोगमार्गणाभेदेषु,पञ्चसु वचोयोगमार्गणाभेदेषु, काययोगसामान्य औदारिककाययोगमार्गणाभेदे च क्षपकश्रेणौ चरमस्थितिबन्धप्रारम्भद्वितीयसमये पूर्वप्रवृत्तमनोयोगादीनां योगान्तरतया परावर्तने तत्प्रयुक्त एकसमयकालोऽवसातव्यः । शेषासु द्वितीयपृथिवीनिरयभेदादिमार्गणासु तु न प्रकृतजघन्यस्थितिबन्धः क्षपकणिसत्कः सम्यक्त्वायभिमुखावस्थाभावी वा, ततश्च तत्प्रारम्भद्वितीयसमये कालकरणेन मार्गणापरावर्तनादुपयोगक्षयात् तथास्वाभाव्याद्वाऽजघन्यस्थितिबन्धं कुर्वतो जीवस्य प्राप्यते । केवलमुपशमसम्यक्त्वमार्गणायामसौ जघन्यस्थितिवन्धप्रारम्भद्वितीयसमये कालकरणापेक्षयैव प्राप्यत इति तदपेक्षयैव भावनीय इति॥१९१॥
___ तदेवमभिहितः सप्तानां जघन्याः स्थितेजघन्यो बन्धकालः । साम्प्रतं तस्या एवोत्कृष्टबन्धकालं व्याजिहीर्ष रार्याद्वयमाह
होइ गुरू दोसमया णिरये पढमणिरये अपज्जणरे । सुर-भवण-वंतरेसूकम्मा-ऽणाहारगेसु च ॥१९२॥ भिन्नमुहुत्तं समयो वा उक्कोसो तिमिस्सजोगेसु।
सेसासु मग्गणासु भिन्नमुहुत्त मुणेयव्वो ॥१९३॥ (प्रे०) “होइ गुरू” इत्यादि, सप्तानां जयन्याः स्थितेगुरु:-उत्कृष्टो बन्धकालो द्वौ समयो भवति । कस्यां मार्गणायामित्याह-"णिरये" इत्यादि, निरयगत्योघे, प्रथमपृथिवीनिरयभेदे, अपर्याप्तनरभेदे, सुरगत्योघ-भवनपतिदेवभेद-व्यन्तरदेवभेदेषु कार्मणानाहारकमार्गणयोश्चेत्येतास्वष्टमार्गणास्वित्यर्थः । कुतः ? विग्रहगतावनाहारकावस्थायां वर्तमानानां बादरजीवानामेव प्रस्तुततत्तन्मार्गणासत्कजघन्यस्थितिबन्धस्वामित्वादिति । अयमत्राभिप्रायः-अधिकृताष्टमागेणासु जघन्यस्थितिबन्धस्वामिनो बादरेभ्यश्च्युत्वा बादरतयोत्पद्यमाना जीवा एव सम्भवन्ति, तेषां त्रिसामयिक्यां द्विवक्रायां विग्रहगतौ जायमानं जघन्यस्थितिबन्धमपेक्ष्य प्रकृतबन्धकाल उत्कर्षतः समयद्वयमेवावाप्यते, अनाहारकावस्थायां तद्भावात् , त्रिसामयिक्यां विग्रहगतो समयद्वयमेवानाहार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org