________________
जघन्यो बन्धकालः ]
द्वितीयाधिकारे कालद्वारम्
[ १८७
पर्याप्त मनुष्य मानुषीमार्गणारूपे नरत्रिके, द्विकशब्दस्य पञ्चेन्द्रियत्रसयोः प्रत्येकं योजनात् पञ्चेन्द्रियौ- पर्याप्तपञ्चेन्द्रिय मार्गगयोजिके सकायौघ- पर्याप्तत्र सका यमार्गणोश्च द्विके इत्यर्थो विज्ञेयस्तथा त्रिषु स्त्री-पुरुष नपुंसकवेद मार्गणाभेदेषु, गतवेदमार्गणायाम्, क्रोधादिकषायचतुष्के | अन्या मार्गणाः संचिन्वन्नाह - "चउणा, ”त्यादि, मत्यादिचतुर्ज्ञान-विभङ्गज्ञान-संयमौघ-सामायिक-छेदोपस्थापळा-सूक्ष्मसम्परायसंयामार्गणासु देशसंयमार्गणायां चक्षुरादिदर्शनमार्गणानां त्रिके शुक्ललेश्याभव्य सम्यक्त्व - क्षायिक सम्यक्त्व- मिश्र दृष्टिमार्गणासु संज्ञिमार्गणायामाहारिमार्गणायां चेत्येतासु पञ्चत्रिंशन्मार्गणा प्रत्येकम् “सत्तण्ह लहूअणू मुहुत्तंतु" ति शेषाणामायुर्वर्जानां सप्तानां मूलकर्मणां 'लघोः'- जघन्याया: "णू” त्ति अकारस्य दर्शनात् 'अणुः' - जघन्यो बन्धकालो मुहूर्तान्तः - अन्तर्मुहूर्तमित्यर्थः । अत्र विभङ्ग देशसंयम मिश्रदृष्टिमार्गणात्रये जघन्यस्थितिबन्धः संयमाद्यभिमुखावस्थायां भवति, संयमाद्यभिमुखानां तत्स्वामित्वात् । यदुक्तं स्वामित्वप्ररूपणायाम् -“विभंगदेसेसु संयमाभिमुहो” तथा 'मीसे वो पडिवज्जइ अणंतरम्मि समयम्मि सम्मत्तं" इत्यादि । ततश्व मिथ्यात्वाद्यभिमुखावस्थाभान्युत्कृष्:स्थितिबन्धवज्जघन्यस्थितिबन्धोऽपि न मरणव्याघातादिना व्याहन्यते, अत उत्कृष्टबन्धकाल इस तस्य जघन्यबन्धकालोऽप्यन्तमुहूर्तमेव प्राप्यते । शेषासु द्वात्रिंशन्मार्गणासु तु जघन्यस्थितियन्त्रस्व.मी क्षपकश्रेणिगतो जीवः, तस्यापि मरणव्याघाताऽसम्भवात् प्रतिसमयमनन्तगुणविशुध्यमानत्वाच्चोक्तरीत्या प्रत्येकं स्थितिबन्धा जघन्यतोऽप्यन्मुहूर्त प्रवृत्यैव विरनन्ति, अतस्तत्स्वामिकजघन्यस्थितेर्जघन्यवन्धकालोऽप्यन्तर्मुहूर्तमेव लभ्यत इति ॥ १८९-१९०॥ अथ परिहारविशुद्धिकसंयमादिमार्गणासु जघन्यस्थिते: स्वामित्वविषयकमतभेदात् प्रस्तुतबन्धकालमपि भेदेन दर्शयन् शेषमार्गणासु प्रस्तुतबन्धकालं प्रतिपादयश्वाह
परिहारे तेऊए पउमाए वेअगे य समयो वा ।
भिन्नमुहुत्त व भवे हस्सो समयोऽथ सेसासु ॥१९१॥
(प्रें०) “परिहारे तेऊए” इत्यादि, परिहारविशुद्धिकसंयम मार्गणायां तेजोलेश्यामार्गणायां पद्मलेश्यामार्गणायां “वेअगे य" त्ति वेदके, क्षायोपशमिकसम्यक्त्वमार्गणायामित्यर्थः । चः समुच्चये । एतासु चतसृषु मार्गणासु प्रत्येकं सप्तानां जघन्यस्थितेर्जघन्यो बन्धकालः "समयो वा " त्ति स्वस्थानाप्रमत्तसंयतस्यापि जघन्यस्थितिबन्धस्वामित्वं स्वीकुर्वतां मते 'समयः' एकसमयः, भवेदिति परेणान्वयः । वाकारस्तु मतान्तरद्योतकः । “भिन्नमुहुत्तं व भवे" त्ति "अहवा से बंधम्म कयकरणो हवेहिइ जो । सो यो परिहारे तेउपमवेअगेसु य ॥” (गाथा - १२८) इत्यनेन कृतकरणाद्धायाः प्राक् चरमस्थितिबन्धं कुर्वतोऽप्रमत्तस्यैव जघन्य स्थितिबन्धस्वामित्वमिति दर्शितमतान्तरेण 'भिन्नमुहूर्तम्' - अन्तर्मुहूर्त वा भवेदित्यर्थः ।
1
• अथ शेषमार्गणासु प्रकृतकालमानमाह - "समयोऽत्थि सेसासु" ति उक्तशेषासु निरय
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org