________________
१८६ ]
बंधविहाणे मूलपयडिठिइबंधो मार्गणासु जघन्यस्थितेः धिक इतिकृत्वा जघन्यत उत्कृष्टतश्चोभयथा पि समयमात्रो दर्शित इति । अथाजघन्यायाः स्थितेः प्रकृतकालमानमाह-"अलहूअ मुहुत्तंतो" ति अनन्तरोक्त “जहण्णियरो" इति पदं काकाक्षिगोलकन्यायेनात्रापि सम्बध्यते, ततः प्रकृतस्यायुषोऽलघोः-अजघन्यस्थितेजघन्येतरवन्धकालो प्रत्येकं मुहूर्तान्तः-अन्तर्मुहूर्तमित्यर्थः । इमावप्यायुपोऽनुत्कृष्टस्थितेर्जघन्योत्कृष्टवन्धकालवद्भावनीयाविति । दर्शित ओघत आयुषो जघन्याजघन्यस्थित्योः प्रत्येकं द्विविधोऽपि कालः । साम्प्रतमादेशतः प्रदर्शनावसरः, तत्राल्पवक्तव्यत्वाद् बहुषु मार्गणास्त्रोघसाम्याच्चाऽऽयुषः प्रकृतबन्धकालमेवादावतिदेशेनाह-"आउस्सेमेव सव्वासु" ति आयुषः, न पुनः शेषसप्तकर्मणामपीत्यर्थः । 'एवमेव,-यथौघतो दर्शितस्तथैव 'सर्वासु'-निरयगत्यादिसर्वमार्गणासु जघन्याऽजघन्यस्थित्योर्जघन्योत्कृष्टद्विविधोऽपि बन्धकाल इति प्रकरणाद्गम्यत इति।।१८७।। तदेवं साम्यतावादल्येन लाघवार्थं कृतेऽतिदेशे या काचिदतिप्रसक्तिस्तां निराचिकी' विशेषं दर्शयन्नाह
णवरं अजहण्णाए हस्सो समयोऽत्थि पणमणवयेसु। काये उरले विउवे आहारदुगे कसायेसु॥१८८॥
(प्रे०) "णवर" मित्यादि, नवरं-परमयं विशेषो ज्ञातव्यः । कोऽसावित्याह-"अजहप्रणाए” इत्यादि, अजघन्याः स्थितेह स्वः-जघन्यो बन्धकालः समयोऽस्ति । कासु मार्गणास्वित्याह"पणमणवयेसु"मित्यादि, पञ्चशब्दस्य प्रत्येकं योजनात् पञ्चषु मनोयोगमार्गणाभेदेषु पञ्चषु च वचोयोगमार्गणाभेदेषु, काययोगे, औदारिककाययोगे, वैक्रियकाययोगे, आहारका-ऽऽहारकमिश्रकाययोगमार्गणाद्वयरूपे आहारकद्विके क्रोधादिषु चतुषु 'कायेसु'-करायमार्गणाभेदेष्वित्येतासु षोडषमार्गणासु प्रत्येकमित्यर्थः । एतासु षोडषमार्गणास्वपवदने हेतवस्त्वायुपोऽनुत्कृष्टस्थितेजघन्योत्कृष्टबन्धकालवदेव द्रष्टव्याः । भावनाऽपि च तथैव कार्या, केवलमनुत्कृष्टस्थितिस्थाने जघन्यस्थितिरभिधातव्येति ॥१८८॥
कृतं सप्तानामोघत आयुष ओधत आदेशतश्च जघन्याऽजघन्यस्थित्योजघन्योत्कृष्टबन्धकालप्ररूपणम् । साम्प्रतमवशिष्टौ सप्तानां जघन्याजघन्यस्थित्योर्जघन्योत्कृष्टबन्धकालाबादेशतः प्ररूपयन्नाह
णरतिग-पणिंदितसदुग-तिवेअ-गयवेअ-चउकसायेसु। चउणाण-विभंगेसुसंयम-सामइअ-छेअ-हुमेसु॥१८९॥ (गीतिः) देसम्मि दंसणतिगे सुइल-भविय-सम्म-खइअ-मीसेसु। सण्णिम्मि य आहारे सत्तण्ह लहूअऽणू मुहुत्तंतो ॥१९०॥ (गीतिः) (प्रे०) “णरतिगे"त्यादि, व्याख्यानतो विशेषप्रतिपत्तेरपर्याप्तभेदं विहाय मनुष्यगत्योघ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org