________________
जघन्योत्कृष्टबन्धकालः ]
द्वितीयाधिकारे कालद्वारम्
[ १८५
भाविनः स्थितेरबन्धस्य वाऽऽकालमनवाप्तेरनादिकालप्रवृत्तौधिकाऽजघन्यस्थितिबन्धस्य कदापि विच्छेदासम्भवादिति । अथ द्वितीयविधामाह - " अणाइअधुवो य" त्ति, चः समुच्चये, अनाद्यध्रुवः, अनादिसान्त इत्यर्थः । अयं ह्यप्राप्तोपशान्तमोहगुणस्थानान् भव्यजीवान् प्रतीत्य ज्ञातव्यः, अप्राप्तोपशान्तमोहगुणस्थानानां भव्यजीवानां ह्यभव्यजीववत् प्रकृताजघन्यस्थितिबन्धो नियमतोऽनादिः स चागामिकाले उपशान्तमोहगुणस्थानप्राप्तौ जघन्यस्थितिबन्धे वा प्रारब्धे नियमेन व्यवच्छेदमेष्यति, ततच सान्त इति । तृतीयविधामाह - "साइअधुवो य" त्ति चः प्राग्वत्, 'साद्यध्रुव : ' -सादिसान्त इत्यर्थः । अयं पुनरुपशान्तमोहगुणस्थानात् निपतितान् जीवान् समाश्रित्याऽवसातव्यः, उपशान्तमोहगुणस्थानान्निपतने तेषामजघन्यस्थितिबन्धस्य सादित्वात्, सान्तत्वं तु प्राग्वदिति । जघन्यस्थितिबन्धवदस्यापि कालो जघन्योत्कृष्टभेदाद्विधा द्रष्टव्यः स च प्रथमे प्रकारद्वये न सम्भवति, १ तयोराद्यन्तान्यतरेयत्ताऽपतत्वात् । अतस्तृतीयस्य द्विविधकालमानं दर्शयन्नाह - " तइओ" इत्यादिना, तृतीयः साद्यवभङ्गगतः "अंतमुहुत्तमणु" ति अन्तर्मुहूर्तमणुः - जघन्यो बन्धकालः | "देसूणडपरिअहोऽण्णो त्ति देशोनापुद्गलपरावर्त : 'अन्य:' - जघन्यादन्यः उत्कृष्टवन्धकालो भवतीत्यर्थः । तत्रोपोशान्ताद्वाक्षयेण प्रतिपत्यान्तमुहूर्तं विश्रम्य पुनरपि श्रेणिमारुह्या ऽजघन्यस्थितिबन्धं निष्ठापयति तस्य जघन्यबन्धकालः प्राप्यते, उत्कृष्टबन्धकालस्तु श्रेणियोत्कृष्टान्तरस्य देशोनार्थपुद्गलपरावर्तप्रमाणत्वात् तदपेक्षया ज्ञातव्यः । कुतः ? श्रेणिं विहायान्यत्रौधिकाजघन्यस्थितिबन्धविच्छेदस्यासम्भवादिति ॥। १८६ ।।
तदेवमुक्त ओघत आयुर्वर्जानां सप्तानां जघन्याजघन्यद्विविधस्थित्योर्जघन्योत्कृष्टभेदभिन्नद्विविधोऽपि बन्धकालः । साम्प्रतमवशेषस्याऽऽयुषोऽपि तमोघतो दिदर्शयिषुरल्पवक्तव्यत्वादादेशतोऽपि सममेव दर्शयन्नाह
आउस जहण्णाए ठिईअ समयो भवे जहण्णियरो | अलहूअ मुहुत्तंतो आउस्सेमेव सव्वासु ॥ १८७॥
(प्रे० ) " आउस जहण्णाए" इत्यादि, आयुषो जघन्यायाः स्थितेः समयो भवेत् । क इत्याह- " जहण्णियरो" ति जघन्यस्तदितर उत्कृष्टव, द्विविधोऽपि बन्यकाल इत्यर्थः । कुतः ? उत्कृष्टाबाधाया इव जघन्याबाधाया अप्य संक्षेप्याद्धायामायुर्वघ्नत आयुर्वन्धकालचरमसमय एव प्राप्तेः । अयम्भावः-असंक्षेप्याद्धा तु जघन्यतो यावत्यायुष्यवशेषेऽवद्धायुर्जीवो नियमेनायुर्वन्धं प्रारभत इत्येवमवशेषवेद्यमानायुरूपा प्रथमाधिकाराल्पबहुत्वद्वारे व्याख्याता । सा च वेद्यमानायुषश्वरमखण्डप्रमाणा । तत्र प्रविश्य क्षुल्लकभवप्रमाणजघन्यायुर्बन्धं प्रारभमाणस्य जीवस्य न जघन्याबाधा, किन्तु क्रमेण निष्ठापयत आयुर्वन्धाद्धायाश्वरमसमयवर्तिनः । इत्येवं जघन्यावाधाया एकस्मिन् समय एव प्राप्ते - रुत्कृष्टस्थितिकायुर्वन्धकाल इव जघन्य स्थितिकायुर्वन्धकालोऽपि समयमात्र आसाद्यते, न पुनर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org