________________
१८४ ]
बंधविहाणे मूलपयडिठिइबंधो [ ओघतः सप्तानां जघन्येतरस्थित्योः बन्धः सकपायजीवानामेव जायते, एवमनुभागबन्धोऽपि । प्रदेशबन्धो योगप्रत्ययत्वाद्यद्यपि सकपायाणामिवाऽकपायाणामपि जीवानां भवति, तथाप्यसावत्र विवक्षाविशेषेण सकपायजीवानाश्रित्याऽधिकरिष्यति । एवं सति भण्यमानवक्ष्यमाणस्थितिबन्धादित्रिविधवन्धस्याऽपि सकषायजीवविषयत्वात् सकषायजीव-छद्मस्थजीवसव्यपेक्षैकजीवाश्रयकायस्थित्योर्मतिज्ञानादिकतिपयमार्गणा अधिकृत्याऽन्तमुहूर्तमात्रेण न्यूनाधिकत्वेऽप्युभयकायस्थितिवक्तव्यतायास्तुल्यत्वाच्च छद्मस्थजीवान् प्रतीत्य पूर्वापेक्षया किञ्चिद्विलक्षणैवात्र कायस्थितिरभिहिता । ततश्चेमामेव कायस्थितिमुपादायानन्तरोक्तोत्तरत्रवक्ष्यमाणस्थितिबन्धादिकाला-ऽन्तरादय उपपादनीयाः, न पुनः प्रकृतिबन्धग्रन्थोक्तकायस्थितिमादायेति । तदेवं समाप्तं प्रासङ्गिकं कायस्थितिनिरूपण, तत्समाप्तौ च निष्टिताऽष्टानामपि मूलप्रकृतीनामुत्कृष्टानुत्कृष्टस्थित्योद्धिविधवन्धकालप्ररूपणा ॥१८४॥ अथ जघन्याऽजघन्यस्थितिबन्धयोर्जघन्योत्कृष्टभेदभिन्नकालं ओघत दर्शयन्नाह
आउगवजाण भवे जहण्णगाए ठिईअ हस्सियरो ।
कालो भिन्नमुहुत्तं तिविहो होइ अजहण्णाए ॥१८५॥ (प्रे०) “आउगवज्जाणभवे" इत्यादि, आयुष्फवर्जानां ज्ञानावरणादीनां सप्तानां मूलकर्मणां भवेत् , क इत्याह-“कालो" ति परेणान्वयः। प्रकृतत्वादेकजीवाश्रयबन्धकालो भवेदित्यर्थः । यस्याः कियानित्याह-"जहण्णगाए" इत्यादि, जघन्या एव जघन्यका,तस्या जघन्यकायः स्थितेः "हरिसयरो" त्ति ह्रस्वस्तदितरदीर्घश्च प्रत्येकम् “भिन्नमुहुत्तं" ति अन्तमुहूर्तमित्यर्थः । कुत उभयथाप्यन्तमुहूर्तमेव ? सप्तकर्मसत्कजघन्यस्थितिबन्धस्य चारित्रमोहनीयक्षपकस्वामिकत्वात् । उत्त.श्च स्वामित्वद्वारे-“सव्य विसुद्धो खवगो हस्साअ ठिईअ बंधगो" इत्यादि.(गाथा-११५) क्षपकस्य यथोत्तरमनन्तगुणविशुद्धत्वात् मरणव्याघातस्याभावाच्च प्रत्येकं स्थितिबन्धा नियमेनान्तमुहूर्त प्रवर्तन्ते, अतः सप्तानां जघन्यस्थितेरुकृष्टबन्धकाल इव जघन्योऽपि बन्धकालोऽन्तमुहूर्तमेव लभ्यत इति । अथ सप्तकर्मणामजघन्यस्थितेः प्राह-"तिविहो होइ अजहण्णाए"त्ति सामान्यतः स्वामिभेदादजघन्याः स्थितेर्बन्धकालस्त्रिविधः-पक्ष्यमाणत्रिप्रकारो भवतीत्यर्थ इति॥१८५॥ तानेव त्रीन् प्रकारान् सप्रभेदमुपदर्शयन्नाह
स य एवमणाइधुवो अणाइअधुवो य साइअधुवो य ।
तइओंऽतमुहुत्तमणू देसूणद्धपरियट्टोऽण्णो ॥१८६॥ (प्रे०) “स य एवमि"त्यादि, स चानन्तरगाथोदिष्ट आयुर्वर्जानां सप्तकर्मणां प्रत्येकमजवन्याः स्थितेस्त्रिवधो बन्धकालः ‘एवं'-वक्ष्यमाणस्वरूपो ज्ञातव्य इत्यर्थः । तमेवाह-"णाइधुवो" इत्यादि, विश्ले शप्राप्तस्याकारस्य दर्शनाइनादिध्रुवः, अनाद्यनन्त इत्यर्थः । अयं ह्यभव्यजीवापेक्षया बोद्धव्यः, अभव्यानां मिथ्यात्वपरित्यागाभावेन क्षपकश्रेणिभाविजघन्यस्थितिबन्धस्योपशमश्रेणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org