________________
जघन्या कायस्थिति: ]
द्वितीयाधिकारे कालद्वारम्
[ १८३
(प्रे० ) " पणमणे" त्यादि, पञ्चशब्दस्य योगशब्दस्य च मनोवचसो: प्रत्येकं सम्बन्धात् पञ्चानां मनोयोगभेदानां पञ्चानां वचोयोगभेदानां चेत्यर्थः । तथा " ओरालाहारविवकम्माणं" ति औदारिका - SSहारक - वैक्रिय कार्मणाख्यानां चतुर्णां काययोगमार्गणोत्तरभेदानाम् | "थोणपुमाSami" ति स्त्रीवेद-नपुंसकवेदयोरपगतवेदस्य चेत्यर्थः । तथा लोभकषाय- विभङ्गज्ञानयोरवधिज्ञाना- ऽवधिदर्शन मार्गणाद्वयलक्षणस्या- ऽवधियुगलस्य, अन्यमार्गणा सङ्ग्रहाय प्राह - "मणणाणसंयमाण”मित्यादि, मनः पर्यवज्ञान- संयमौघमार्गणयोः सामायिक - छेदोपस्थापन - परिहारविशुद्धिकसूक्ष्मसम्पराय संयमभेदानां सासादना - ऽनाहारक मार्गणयोरित्येतेषामेकोनत्रिंशन्मार्गणाभेदानां प्रत्येकम् - "समयोऽत्थि जहण्णकायठिई "त्ति एकजीवाश्रया जघन्यकायस्थितिः 'समय:' - समयमा - त्राऽस्ति । उक्तं च जीवसमासे
“मण-इ- उरल - विउत्रिय आहारय-कम्मजोग - अणरित्थी । संजमविभाग- विब्भंग-सासाणे एगसमयं तु ॥ " इत्थमेवापगतवेदादि मार्गगाजघन्यकायस्थितिविषये सूत्रसंवादो द्रष्टव्यः । तद्यथा
"अवेदए णं भंते! अवेदए ति कालतो केवचिरं होइ ? गोयमा ! अवेदे दुविधे पं० तं जहा - सादीए वा अजबसिए, साइए वा सपज्जवसिते, तत्थ णं जे साइए सपज्जवसिते से जहणेणं एवं समयं " इति । इत्थमेवावधिदर्शनादिजघन्यकायस्थितिविषयेऽपि द्रष्टव्यमिति ।। १८२ - १८३ ॥
अथ मतान्तरतः क्रोधादिकतिपयमार्गणानां प्रकृतजघन्यकायस्थितिं दर्शयन्नाह
अण्णे कोहाई समयो मणणाण - ओहिजुगलाणं ।
संयम- परिहाराणं भिन्नमुत्तं पडुच्च छउमत्थं ॥ १८४ ॥ ( गीतिः )
(प्रे० ) " अण्णे को हाईण" मित्यादि, अन्ये- महाबन्धकारादयः क्रोधादीनां क्रोध- मान-मायाकषायलक्षणानां तिसृणां मार्गणानां प्रकृतकायस्थितिः “समय” त्ति लोभकषायमार्गणावज्जघन्यत एकसमयस्तथा “मणणाणओहिजुगलाणं संयमपरिहाराणं" ति मनः पर्यवज्ञानस्याऽवधिज्ञाना- ऽवधिदर्शन मार्गणयोर्यु 'गलस्य संयमौघ- परिहारविशुद्धिकसंयमयोरित्येतासां सप्तमार्गणानाम् “भिन्नमुहत्तं" ति अन्तर्मुहूर्तं जघन्यकायस्थितिरिति वदन्तीति शेषः । संयमौघस्य जघन्यतोतमुहूर्त कार्यस्थितिस्तु कषायप्राभृतचूर्णिकाराद्यभिप्रायेणापि दृश्यते । उक्तं च कषायप्राभृतचूर्णौ मिथ्यात्वादीनां जघन्यादिकालविषयकाल्पबहुत्वे
1
.. अपुव्वकरणद्धा संखेज्जगुणा । जहणिया संजमासंजमद्धा समत्तद्धा मिच्छत्तद्धा संजमद्धा असंजमद्धा सम्मामिच्छतद्धा च एदाओ छप्पि अद्धाओ तुल्लाओ संखेज्जगुणाओ ।" इत्यादि, बृहत्कल्पेऽपि “पज्जाए मुहुत्तो जहन्नमुक्कोसिया उ देसृणा" (गाथा - १६३८ ) इत्याद्युक्तम् ।
इयं ह्युत्कृष्टजघन्यभेदभिन्ना द्विविधाऽपि मार्गणानां कायस्थितिः प्रकृतग्रन्थोपयोगित्वेन छद्मस्थजीवापेक्षा दर्शितेत्येतत्सूचयन्नाह - " पडुच्च छउमत्थं" ति छद्मस्थानामेव स्थितिबन्धकत्वादेषाऽनन्तरोक्ता द्विविधकाय स्थितिः छद्मस्थजीवं प्रतीत्योक्ता । इदमत्र हृदयम् -स्थिति
66
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org