________________
१८२]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानानामेकजीवाश्रया सुरादिकानां या ज्येष्ठा कायस्थितिः प्रागभिहिता, सा द्रष्टव्येत्यर्थ । तद्यथा-लान्तककल्पदेवगतिभेदस्य दशसागरोपमाणि जघन्यकायस्थितिः, शुक्रकल्पस्य तु सा चतुर्दश सागरोपमाणि, सहस्रारकल्पस्य सप्तदशसागरोपमाणि, इतस्तूत्तरोत्तरदेवभेदानामेकैकसागरोपमेणाधिका कायस्थितिद्रष्टव्या यावच्चतुर्णामनुत्तरविमानदेवगतिमार्गणाभेदानां प्रत्येकमेकजीवाश्रयजघन्यकायस्थितिरेकत्रिंशत्सागरोपमाणीति । सर्वार्थसिद्धविमानदेवगतिभेदस्य तु सा एकत्रिंशत्सागरोपमप्रमाणा जघन्यकायस्थितिर्न भवति, तस्या अनन्तरं प्रतिषेध्यत्वादिति । एपा हि कायस्थितिस्तत्तद्देवगतिभेदानां जघन्यभवस्थित्यनुसारेण भावनीया । जघन्या भवस्थितिस्तु तेषामित्थं पठ्यते -
“सोहम्मे ई साणे जहन्नठिइ पलियमहियं च ॥९॥ दोसाहि सत्त दस च उदस सत्तर अयराइ जा सहस्सारो। तप्परओ इक्किक्कं, अहियं जाऽणुत्तरच उक्के ॥१०॥” इति । (श्रीचान्द्रसंग्रहणी)
श्रीसमवायाङ्गसत्रे तु-सर्वार्थसिद्धवर्जेषु विजयादिषु चतुर्खनुत्तरभेदेषु जघन्या भवस्थितिात्रिंशत्सागरोपमाण्यभिहिता । तथा च तद्ग्रन्थः-"विजय-वेजयंत-जयंत-अपराजियाणं देवाणं केवइय कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं बत्तीसं सागरोवमाई" इति ॥१७६-१८०॥
अथ सर्वार्थसिद्धविमानदेवगतिभेदे प्रागुक्तोत्कृष्टकायस्थितिरेवाऽजघन्यानुन्कृष्टा इति तत्रोक्तोस्कृष्टकायस्थितितोऽन्या नास्ति काचिज्जघन्या कायस्थितिरित्येतत्प्रतिपिपादयिपुस्तत्साम्पादन्यत्राऽपि सममेव जघन्यां कायस्थितिं प्रतिषेधयन्नाह
सव्वत्था-ऽचक्खूणं भविया-ऽभवियाण णत्थि लहू ॥१८१॥
(प्रे०)"सव्वत्थाचवखूण''मित्यादि, 'भीमो भीमसेन' इति न्यायेन “सव्वत्थ" त्ति सर्वार्थसिद्धविमानदेवगतिभेदा-ऽचक्षुर्दर्शनमार्गणयोस्तथा भव्या-ऽभव्यमार्गणयोरित्येतासां चतसृणां "णत्थि लहु" त्ति एकजीवाश्रया 'लघुः'-जघन्या कायस्थिति स्ति-न विद्यते । कुतः ? सर्वार्थसिद्धविमानदेवगतिभेदवर्जानां त्रयाणामचक्षुर्दर्शनादिमार्गणास्थानानां कायस्थितेराधन्तान्यतरेयत्ताविरहितत्वेनोभयतः सावधिकाया जघन्यकायस्थितेरसम्भवात् , सर्वार्थसिद्धविमानदेवभेदस्य त्वागमेऽजवन्यानुत्कृष्टत्रयस्त्रिंशत्सागरोपमप्रमाणस्थितेः प्रतिपादनात् । तथा चोक्तं श्रीप्रज्ञापनायाम्- “सव्यदृसिद्धदेवाणं भंते ! केवतियं कालं ठिई पण्णत्ता ? गोयमा ! अजहण्णुक्कोसेणं तित्तीसं सागरोबमाइ ठिई पन्नत्ता” इति ॥१८१॥
साम्प्रतं शेषमार्गणानां प्रकृतैकजीवाश्रयां जघन्यां कायस्थितिमार्याद्वयेन प्रदर्शयन्नाहपणमणवयजोगाणं ओराला-ऽऽहार-विउव-कम्माणं । थी-णपुमा-ऽवेआणं लोह-विभंगो-हिजुगलाणं ॥१८२॥ मणणाण-संयमाणं समइअ-छेअ-परिहार-सुहुमाणं । सासण-ऽणाहाराणं समयोऽत्थि जहण्णकायठिई॥१८३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org