________________
जघन्या काय स्थितिः ]
द्वितीयाधिकारे कालद्वारम्
[ १८१
मार्गणाया अवधिज्ञान- मनः पर्यवज्ञानमार्गणोश्च जघन्यकायस्थितेरुत्तरत्र वक्ष्यमाणतया ता मार्गणा विहाय क्रोध - मान-माया लक्षणानां कपायमार्गणानां त्रिकस्य मतिज्ञान - श्रुतज्ञानरूपयोर्ज्ञानमार्गयो युगलस्य चेत्यर्थः । तथैव विभङ्गज्ञानमार्गणायाः प्रकृतकायस्थितेरप्युत्तरत्र वक्ष्यमाणतया "अण्णाणदुगस्स "त्ति मत्यज्ञान - श्रुताज्ञानलक्षणयो' योरज्ञानमार्गगयोस्तथा देशसंयमाSसंयम-चक्षुर्दर्शन मार्गणाभेदानां "सव्वलेसाणं" ति सर्वासां पट्संख्याकानामपि कृष्णादिलेश्यामार्गणाभेदानामित्यर्थः । तथा सम्यक्त्वौघ - क्षायिक-वेदकौ पशमिक-मिश्रमार्गणाभेदानां मिथ्या त्वस्येत्येतेषां समुदितानामष्टचत्वारिंशन्मार्गणाभेदानां प्रत्येकमित्यर्थः । उक्तं च कार्यस्थितिपदे – “पजत्तए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं" इति । इत्थमेव शेषमार्गणानां जघन्यकायस्थितिविषयेऽपि समयसंवादो द्रष्टव्य इति ॥ १७७-१७८ ॥
अधुना क्रमप्राप्तानां शेषदेवगत्यादिभेदानां जघन्यकायस्थितिमाह — पलियम्स अभागो जोइसिअस्स पलिओवमं णेया । सोहम्मरस्स भवे ईसाणस्स भहियपल्लं ॥ १७९ ॥ दोणि हवेज्जा जलही सणकुमारस्स दोण्णि अव्भहिया । माहें दस्स हवेज्जा सत्त भवे बम्हदेवस्स ॥ १८०॥ लंतकदेवाईणं सा बम्हसुराइगाण जा जेट्टा |
(प्रे० ) "पलियस्से" त्यादि, पदैकदेशे पदसमुदायोपचारात् "पलियस्स” त्ति पल्योपमस्याष्टमो भागो ज्योतिष्कदेव मार्गणाभेदस्यैकजीवाश्रया जघन्यकायस्थितिरिति गम्यते । एवमुत्तरत्रापि बोद्धव्यम् । “पलिओवमं णेय" त्ति एकं पल्योपमं ज्ञेया प्रकृतकायस्थितिः, कस्येत्याह–“सोहम्मसुरस्स" ति सौधर्माख्यस्य वैमानिकप्रथमदेवभेदस्येत्यर्थः । "भवे ईसाणस्स भहियं पल्लं "ति वैमानिकद्वितीयदेवभेदस्येशानकल्पाख्यस्य साऽभ्यधिकं पल्योपमं भवेदित्यर्थः । " दोणि हवेज्जा जलहो" त्ति द्वौ 'जलधी' सागरोपमौ भवेत् सनत्कुमाराख्यदेवगतिभेदस्य, "दोण्णि अन्भहियो” त्ति "जलही" इत्यस्यात्राप्यनुवर्तनाद् द्वौ 'जलधी'-सागरोपमेऽभ्यधिके माहेन्द्राख्यचतुर्थ कल्पदेवगतिभेदस्य भवेत्, “सत्त भवे" त्ति पूर्ववत् “जलही” इत्यस्यानुवृच्या सप्त जलघयः - सागरोपमाणि प्रकृतकाय स्थितिर्भवेद् ब्रह्मलोकाख्यपञ्चमकल्पस्य । लाघवार्थमित उपरितनदेवगतिभेदानां प्रकृतकायस्थिति मतिदेशद्वारेणाह - "लंतक - देवाईण" मित्यादिना, लान्तककल्यादिदेवगतिभेदानां सा जघन्यकायस्थितिर्मन्तव्येति वाक्यशेषः । का पुनः सा इत्याह - " बम्हे" त्यादि । इदमुक्त' भवति - "सोहम्माईण कमा अयरा दो साहिया दुवे सत्त | अब्भहिया सत्त य दस चउदस सत्तरह णायव्वा ।। १५९ ।। एत्तो एगेगऽहिया णायव्वा जाब एगती सुदही । उवरिमगेविज्जस्स उ त्तेत्तीसाऽणुत्तराण भवे || १६०||" इति गाथाद्वयेन ब्रह्मकल्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org