________________
१८० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानानामेकजीवाश्रया योगाहारिमार्गणयोराह-तिसमयूगो आहारिउरालमीसाणं" ति आहारिमार्गणाया औदारिकमिश्रकाययोगमार्गणायाश्च प्रत्येकमेकजीवाश्रया जघन्यकायस्थितिस्त्रिसमयोनः, कः ? क्षुल्लकभव इत्यनुवृत्त्या बोद्धव्यम् । कथं पृथिव्यादिभ्यश्च्युत्वा चतुःसामयिक्या विग्रहगत्या जघन्यस्थितिकपथिव्यादितयोत्पद्य, ततोऽपि मृत्वा विग्रहगत्यैव यो भवान्तरं गच्छति,तस्य क्षुल्लकभवचतुर्थसमयात्प्रारभ्य क्षुल्लकभवान्त्यसमयं यावदाहारकत्वादौदारिकमिश्रकाययोगित्वाच तदपेक्षया प्रकृतकायस्थितिर्बोद्धव्या । उक्त च जीवसमासत्तौ श्रीमन्मलधारीयहेमचन्द्रसूरिपादैः
___“कश्चिदेकेन्द्रियादिर्जीवो मृतः, पूर्वाभिहितप्रकारेण च विग्रहे समयत्रयमनाहारको भूत्वा क्षुल्लकभवग्रहणायुष्केषु पृथिव्यादिषूत्पन्नः, तत्र च तावन्तं कालं निरन्तरमाहारको भूत्वा मृतः, पुनरपि विग्रहेऽनाहारको जात इत्येवं जघन्यतस्त्रिसमयोनं क्षुल्लकभवग्रहणमाहारकत्वम्' इति ॥१७५-१७६॥
अथ क्रमप्राप्तस्य पर्याप्ततिर्यक्पञ्चेन्द्रियभेदस्य जघन्यकायस्थितिं दिदर्शयिषुलाघवार्थमक्रमगतानपि तुल्यवक्तव्यान मार्गणाभेदान् सगृह्याह
भिन्नमुहत्तं उ सयलपज्जत्तगजोणिणीण कायस्स । मीसदुजोग-पुमाणं कसायतिग-णाणजुगलाणं ॥१७७॥ अण्णाणदुगस्स तहा देसा-ऽयत-चक्खु-सब्बलेसाणं ।
सम्मत्त-खइअ-वेअग-उवसम-मीसाण मिच्छस्स ॥१७८॥ (प्रे०) "भिन्नमुहुत्तं उ” इत्यादि, भिन्नमुहूर्तम्-अन्तर्मुहूर्त जघन्यकायस्थितिर्भवतीति शेषः । तुशब्दः पूर्वापेक्षया विशेषद्योतनार्थं प्रकृतान्तमुहूर्तकायस्थितेः । को विशेषो द्योत्यते ? उच्यते, पूर्व तिर्यग्गत्याधेकोनपञ्चाशन्मार्गणानां परस्परं तुल्यैव जघन्यकायस्थितिरासीद्, न पुनः समयमात्रेणापि न्यूनाधिका । प्रकृते तु सा कुत्रचिल्लेश्यादिमार्गणासत्का लध्वन्तमुहूर्तमात्रा, कुत्रचित्पर्याप्तादिभेदानां क्षुल्लकभवाद् दीर्घान्तमुहूर्तप्रमाणा, इत्येवं विशेषेण यथासम्भवं बोद्धव्येति । केषां मार्गणाभेदानां जघन्यकायस्थितिरन्तमुहूर्तमात्रेत्याह-"सयलपजत्तगे"त्यादि, सकलशब्दस्य प्रत्येकं योजनात् सकलपर्याप्तभेद-सकलयोनिमतिमार्गणाभेदानामित्यर्थः । तत्र पर्याप्तभेदा विंशतिः, द्वो पुनर्योनिमद्भदौ । तद्यथा-पर्याप्तपञ्चेन्द्रियतिर्यक्-पर्याप्तमनुष्यभेदो, पर्याप्तसूक्ष्मबादरैकेन्द्रियभेदो, तथा पर्याप्तद्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियभेदाः, पर्याप्तसूक्ष्मबादरपथिव्यप्तेजोवायु-साधारणवनस्पतिकाय-पर्याप्तप्रत्येकवनस्पतिकाय-पर्याप्तत्रसकायभेदाश्चेति पर्याप्तभेदाः । तिरश्ची मानुषी चेति द्वौ योनिमद्भेदाविति । “कायस्स" ति काययोगमार्गणाभेदस्य तथा “मीसदुजोगपुमाणं" ति औदारिकमिश्रयोगस्याऽनन्तरगाथायामेवाभिहितत्वादौदारिकमिश्रयोगवर्जयोः शेषयोक्रियमिश्रा-ऽऽहारकमिश्रकाययोगभेदयोः पुंवेदमार्गणाभेदस्य चेत्यर्थः । "कसायतिगणाणजुगलाणं" ति "लोहविभंगोहिजुगलाण" (गाथा-१८३) मित्यादिना लोभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org