________________
जघन्या कायस्थितिः ] द्वितीयाधिकारे कालद्वारम्
[ १७९ य तिण्णि सत्त दस । सत्तरह य बाबीसा तेत्तीसा सागरा णेया ।।१५३।। इत्यनया गाथया' ज्येष्ठा'-उत्कृष्टा कायस्थितिरभिहितेत्यर्थः । तद्यथा-द्वितीयपृथिवीनिरयभेदस्य जघन्या कायस्थितिरेकं सागरोपमम् , तृतीयपृथिवीनिरयभेदस्य सा त्रीणि सागरोपमाणि, चतुर्थपृथिवीनिरयभेदस्य सप्त सागरोपमाणि, एवं पञ्चमपथिवीनिरयभेदस्य दश, षष्ठपथिवीनिरयभेदस्य सप्तदश, सप्तमपथिवीनिरयभेदस्य तु सा जघन्यैकजीवाश्रयकायस्थितिद्वाविंशतिः सागरोपमाणीति । उक्तश्चान्यत्राऽपि___“सत्त य पुढवीसु ठिइ, जिट्ठो-बरिमाइ हिट्ठपुडवीए। होइ कमेण कणिहा दसवाससहस्स पढमाय ॥” इति ॥१७४॥
अथ क्रमप्राप्ततिर्यग्गत्योधमार्गणाभेदस्य जयन्यकायस्थितिं विवक्षुस्तत्साम्यादन्यासामपि यासां मार्गणानां जघन्यकायस्थितिः क्षुल्लकभवग्रहणलक्षणास्ता अपि सममेव सगृह्याह
खुड्डभवो तिरिय-पणिंदितिरिय-मणुस-तदपज्जाणं ॥१७५॥ पज्जत्तभेअवज्जिअसेसिंदिय-कायभेअ-सण्णीणं ।
अमणस्स तिसमयूणो आहारि-उरालमीसाणं ॥१७६॥ (प्रे०) "खुड्डुभवो तिरिये"त्यादि, 'क्षुल्लकः'-सर्वभवापेक्षया लघीयान् ‘भवः'-जन्म सः क्षुल्लकभनोऽनन्तरवक्ष्यमाणतिर्यग्गत्यादिमार्गणाभेदानांजघन्यकायस्थितिवेदित्यर्थः । क्षुल्लकभवमानं वित्थं प्रतिपाद्यते,-आवलिआणं दोसयछप्पन्ना एग वुड्डभवे,” इति । तत्रावलिका त्वसंख्येयानां समयानां समुदायो ज्ञातव्यः । यदुक्तमनुयोगदारसूत्रे-“असंखिज्जाणं समयाणं समुदयसभिइ समागमेण सा एगा आबलिय त्ति वुच्चइ।" इति । तिर्यग्गत्योघादिमार्गणाभेदानेवाह-"तिरिये"त्यादिना, तिर्यग्गत्योघस्य तिर्यक्पञ्चेन्द्रियौष-मनुष्यौषभेदयोस्तथा तयोरेवापर्याप्तभेदयोः, अपर्याप्ततिर्यक्पञ्चेन्द्रियाऽपर्याप्तमनुष्यभेदयोश्चेत्यर्थः । तथा “पज्जत्ते"त्यादि, पर्याप्तवादरैकेन्द्रिय-पर्याप्तसूक्ष्मैकेन्द्रिय-पर्याप्तद्वीन्द्रियादिलक्षणपर्याप्तभेदैवर्जिता ये शेषा एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियलक्षणेन्द्रियमार्गणासत्कोघा-ऽपर्याप्तभेदभिन्नास्तथा पृथिव्यप्तेजोवायुवनस्पतित्रसकायलक्षणकायमार्गणासत्कौघा-ऽपर्याप्तभेदभिन्ना भेदास्ते पर्याप्तभेदवर्जितशेपेन्द्रियकायभेदाः, ते च समस्तास्त्रिचत्वारिंशद्भवन्ति । तद्यथा-एकेन्द्रियसत्काः सूक्ष्मपर्याप्तबादरपर्याप्तभेदवर्जा ओघ-सूक्ष्मौष-बादरौघसूचनाऽपर्याप्त-चादराऽपर्याप्तभेदभिन्नाः पञ्च भेदाः, तथैव पृथिव्यप्तेजोवायुसाधारणवनस्पतिकायानां पञ्चानां प्रत्येकं पञ्च पञ्च भेदाः, द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियाणां प्रत्येकं पर्याप्तभेदवर्जावोघा-ऽपर्याप्तभेदभिन्नी द्वो द्वौ भेदो, इत्थमेव प्रत्येकवनस्पतिकायसत्को द्वौ त्रसकायसत्कौ द्वौ वनस्पतिकार्याघभेदश्चेति । तेषां, तथा "सण्णोणं" ति संज्ञिमार्गणाभेदस्य "अमणस्स" त्ति असंज्ञिमार्गगाभेदस्येत्येतेषां समुदितानां तिर्यग्गत्योघाद्यकोनपश्चापन्मार्गणाभेदानां प्रत्येकमित्यर्थः। सुगमा । अथानन्तरोक्तकास्थित्यपेक्षया स्वल्पतारतम्यात् क्रममुल्लङ्थ्यादावौदारिकमिश्रकाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org