________________
१७८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानानामेकजीवाश्रया त्याह-"भवे" इत्यादि, पर्याप्तवादरपृथिवीकायादीनामिव समाप्तानां-पर्याप्तानां द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रिय-बादराग्निकायलक्षणानां चतुर्णा मार्गणाभेदानां प्रत्येकं प्रकृतैकजीवाश्रयोत्कृष्टकायस्थितिः संख्येयानि वर्षसहस्राणि भवेदित्यर्थः । उक्तञ्च पञ्चसङ्ग्रहमूलटीकाकारैः__ "बादराणां पर्याप्तकनामविशेषितानां संख्येया वर्षसाहस्यः, प्रत्येकं पृथिवीजलाग्निवायुवनस्पतिप्रत्येकैकेन्द्रियाणां वर्षसाहस्यः कायस्थितिः, विकलानामपि द्वि-त्रि-चतुरिन्द्रियाणां प्रत्येकं संख्येयवर्षसाहस्यः कायस्थितिः,” इति। ___अथान्येषामाह-"दो सागरा” इत्यादि, समाप्तस्य त्रसकायिकस्य चक्षुर्दर्शनस्य च प्रत्येक प्रकृतकायस्थितिद्वै सागरोपमसहस्र भवेदित्यर्थः । उक्तश्च जीवसमासे- “चक्खुस्सुदहीण बे सहस्साइ।” इति । “सत्तरह सत्त अयरा होइ कमा णीलकाऊसु” ति नीललेश्यायाः कापोतलेश्यायाश्च प्रत्येकमुत्कृष्टकायस्थितिः क्रमात् सप्तदश सप्त चातरा:-सागरोपमाणि भवति । इदमुक्तं भवति-महाबन्धकाराः पञ्चमपथिव्याः सर्वाधस्तनप्रतरे कृष्णलेश्याकनारकाणामिव नीललेश्याकनारकाणां सचं प्रतिपद्य, तथा तृतीयपथिव्याः सर्वाधस्तनप्रतरे नीललेश्याकनारकाणामिव कापोतलेश्याकनारकाणामपि समुद्भतिमपेक्ष्य मार्गणाद्वयस्यापि कायस्थितिं यथोक्तामभिदधतीति ॥१७२-१७३॥
तदेवमभिहितैकजीवाश्रया प्रस्तुतोपयोगिनी सर्वमार्गणानामुत्कृष्टा कायस्थितिः। साम्प्रतं प्रसङ्गात् प्रकृतोपयोगित्वाच्च प्राग दूरेणोक्तेति विस्मरणशीलानां जीवानामनग्रहार्थं तासामेव सर्वमार्गणानामेकजीवाश्रयां जघन्यां कायस्थितिं संस्मारयन्नाह
कायठिई णायव्वा जहण्णगा दससहस्सवासाणि। णिरय-पढमणिरयाणं देव-भवण-वंतराणं च ॥१७४॥
दुइआइगणिरयाणं सा पढमाइणिरयाण जा जेट्टा। (प्रे०) "कायठिई णायव्वा” इत्यादि, अनन्तरं वक्ष्यमाणा "कायठिई” त्ति एकजीवाश्रिता कायस्थितिर्विवक्षितनरकाद्यवस्थाया अविच्छिन्नमवस्थानलक्षणा“णायव्वा जहण्णगा" त्ति जघन्या एव जघन्यका-सर्वलध्वी ज्ञातव्येत्यर्थः । तामेव क्रमत आह-"दससहस्से"त्यादिना, दशवर्षसहस्राणि जघन्या कायस्थितिनिरयोघ-प्रथमपृथिवीनिरयभेदयोः, देवोघ-भवनपति-व्यन्तरदेवगतिभेदानां च प्रत्येकं ज्ञातव्येत्यर्थः । सुगमा चैपा, देवनैरयिकयोरनन्तरभवे देवनैरयिकतयानुत्पादात् , प्रथमनरकनैरयिक-भवनपत्यादीनां जघन्यभवस्थितेर्दशसहस्रवर्षप्रमाणत्वाच । उक्तंच-“दससहसवरिसठिइआ, भवणाहिव-निरय-बंतरिआ” ॥२७॥ इति ।
अथ नरकगतिशेषमार्गणाभेदानां प्राह-"दुइआइगे"त्यादिना, द्वितीयादिपृथिवीभेदभिन्नानां षण्णां निरयभेदानां जघन्यकायस्थितिः सा, भवतीति शेषः । का पुनः सेत्याह-“पढमाइणिरयाणे"त्यादि, प्रथमादिनिरयभेदानां 'जा' ति या प्राक-“पढमाइगणिरयाणं कमसो एगो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org