________________
उत्कृष्टा कायस्थितिः ] द्वितीयाधिकारे कालद्वारम्
[१७७ ऽविवक्षितत्वात् । न च ब्रह्मकल्पान्तानां देवानामेव पालेश्याया अभिहितत्वात् , तेषां चोत्कृष्टतोऽपि दशसागरोपमस्थितिकत्वात्पद्मलेश्यामार्गणायाः प्रकृतोत्कृष्टकायस्थितिरष्टादशसागरोपमाणीति कथं नु सङ्गच्छेदिति शङ्कनीयम् । तस्य स्वामित्वप्ररूपणायां प्रागेव समाहितत्वात् , अष्टादशसागरोपमविषयकस्याभिप्रायस्य व्युत्पादितत्वाच्चेति । श्रीप्रज्ञापनासूत्रापेक्षया तु सा पद्मलेश्याया उत्कृष्टकायस्थितिर्दशसागरोपमाग्येव द्रष्टव्या । उक्तश्च तत्र___ “पम्ह लेसे णं भंते ! पम्हलेसे त्ति कालतो केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं दस सागरोगमाई अंतोमुहुत्तमभहियाइ,' इति ।
"भवियस्सऽणाइअधुवा” त्ति भव्यस्य --सव्यमार्गणाभेदस्यानावधवा, 'अभव्यस्यअभव्यमार्गणास्थानस्य "णाइधुवा" ति अकारस्य दर्शनादनादिववा, अनाद्यनन्ता प्रकृतकायस्थितिरित्यर्थः । उक्तं च कायस्थितिपदे
___"भवसिद्धिए णं भंते ! भवसिद्धिए त्ति कालओ केवचिरं होइ ? गोयमा ! अणादीप सपज्जबसिते । अभवसिद्धिए णं भंते ! अभवसिद्धिए त्ति कालओ केवचिरं होइ ? गोयमा ! अणादी र अपज्जवसिते," इति । ॥१७०॥
सासाणस्सा-5ऽवलिआ छ भवे आहारगस्स णायव्वा ।
अंगुलअसंखभागो त्ति भवे उकोसकायठिई ॥१७१॥ __ (पं) “सासाणस्सावलिआ” इत्यादि, सासादनमार्गणाया एकजीवाश्रयोत्कृष्टकायस्थितिः पडावलिका भवेत् । उक्तं च पञ्चसङ्ग्रहे-“आपलियाणं छक्कं समयादारब्भ सासणो होइ" इति । “आहारगस्स णायव्वा” त्ति आहारिमार्गणाभेदस्थोत्कृष्टकायस्थितिख़तव्या, कतिपयेत्याह-"अंगुलअसंखभागो" ति अङगुलाऽसंख्यभागप्रमाणाकाशप्रदेशेषु प्रतिसमयमेकैकप्रदेशापहारे यावान् कालो नियति, तावानसंख्योत्सर्पिण्यवसर्पिणीप्रमाणः काल उत्कृष्टकायस्थितिभवतीत्यर्थः । इयमपि छद्मस्थजीवापेक्षयैव उक्ता, तस्या एव प्रकृतोपयोगित्वात् । उक्त च
___ "छ उमत्थआहारए णं भंते ! छउमत्थाहारए त्ति कालतो केवचिरं होइ ? गोयमा ! जहन्नेणं खुड्डागभवग्गहणं दुसमयऊणं, उक्कोसेणं असंखेज्जं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीतो कालतो, खेत्तत्तो अंगुलस्स असंखेज्जतिभागं," इति ॥१७१॥ अथ पर्याप्ततीन्द्रियादिकतिपयमार्गणानां प्रस्तुतकायस्थिति मतान्तरेण दर्शयन्नार्याद्वयमाह
अण्णे उ भणन्ति भवे संखसहस्सवरिसा समत्ताणं । बेइंदिय-तेइंदिय-चउरिंदिय-बायरग्गीणं ॥१७२॥ दो सागरा सहस्सा समत्ततस-चक्खुदंसणाण भवे ।
सत्तरह सत्त अयरा होइ कमा णीलकाऊसु॥१७३॥ (प्रे०) "अण्णे उ भणन्ति" इत्यादि, अन्ये केचनाचार्यास्तु-पुनर्भणन्ति, किं भणन्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org