________________
१७६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानानामेकजीवाश्रया सम्यक्त्वादिप्राप्तौ विच्छेदं यास्यतीति तस्याध्वत्वं चेतिकृत्वा । चः समुच्चये। तृतीया पुनः "साइअधुवा य" त्ति साद्यध्रुवा,-सादिसान्तेत्यर्थः । इमा तु भिन्नग्रन्थिकजीवापेक्षया बोद्धव्येति । चः प्राग्वद् । इत्थं त्रिविधा मत्यज्ञानादीनां कास्थितिः। अत्र प्रथमयो योर्विधयोराछन्त्यान्यतराबधिरहितत्वेन सावधिकप्रमाणप्रदर्शनाऽसम्भवात् तृतीयायास्तावदुत्कृष्टं प्रमाणं दर्शयन्नाह"तइआ होणद्धपरिअटो" ति तृतीया साधध्रवलक्षणा कायस्थितिरुत्कर्षतो हीनार्धपरावर्तः, क्षेत्रतो देशोनार्धपुद्गलपरावर्तप्रमाणेत्यर्थः । उक्तंच कायस्थितिपदे--
__“अण्णाणी मतिअण्णाणी सुतअण्णाणी णं भंते ! अण्णाणी मतिअण्णाणी सुतअण्णाणि त्ति कालओ केवच्चिरं होति? गोयमा ! अण्णाणी मइअण्णाणी सुयअण्णाणी तिविधे पपणत्ते, तं जहा--अणाइए वा अपजवसिते, अणाइए वा सपज्जवसिते, सादीए वा गपज्जवसिते ! तत्थ णं जे सादीए सपजवसिते से जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं, अणंताओ उस्सप्पिणिओसप्पिणीओ कालतो, खेत्तओ अवहपोग्गलपरियट्ट देसूर्ण,” इति । इत्थमेव मिथ्यात्वकायस्थितिविषयेऽपि सूत्रसंवादो द्रष्टव्य इति ॥१६८॥
साहियछसटिजलही तिणाण-सम्मत्त- वेअगो-हीसु।
दुविहाऽत्थि अणाइधुवा अणाइअधुवा अचक्खुस्स ॥१६९॥ (प्रे०) “साहियछसहिजलहो" त्यादि, 'साधिका'-मनुष्यभवसत्ककियत्कालेनाभ्यधिकाः षट्षष्टिर्जलधयः-सागरोपमाणि प्रकृतोत्कृष्टा कायस्थितिर्भवतीत्यर्थः । केषां मार्गणाभेदानामित्याह-"तिणाण” इत्यादि, मनःपर्यवज्ञानवर्जानां त्रयाणां मत्यादीनां ज्ञानमार्गणाभेदानां सम्यक्त्वोध-वेदकसम्यक्त्वा-ऽवविदर्शनमार्गणाभेदानां चेत्येतेषां पण्णां प्रत्येकमित्यर्थः । अत्र हि सम्यक्त्वौघमार्गणायाः उत्कृष्टकायस्थितिः प्राग्वच्छद्मस्थजीवापेक्षयैव बोद्धव्या । अथाचक्षुदर्शनमार्गणाभेदस्याह-"दुविहात्थि” इत्यादि, सुगमा, नवरमनादिध्रुवा प्रागवदभव्यजीवापेक्षया, अनायध्वा तु भव्यजीवापेक्षया बोद्धव्या, "नट्ठम्मि उ छाउमथिए नाणे” इति वचनात् केवलोत्पत्तौ क्षायोपशमिकभावानां मत्यादिज्ञानानां विलय इब क्षायोपशमिकभावस्याऽचक्षुर्दर्शनस्याऽपि विलयभावात् । अत एवोक्तं प्रवचने
__ "अचक्खुदंसणी णं भंते ! अचकवुदंसणि त्ति कालओ केवचिरं होइ ? गोयमा ! अचक्खुदंसणी दुविहे पन्नते. तं जहा--अणादीए वा अपज्जवसिते, अनादीए वा सपज्जवसिते," इति, ॥१६६॥
णीलाइचउण्ह कमा अयरा दस तिण्णि दोण्णि अट्ठार ।
भवियस्सऽणाइअधुवा तहा अभवियस्सऽणाइधुवा ॥१७०॥ (प्रे०) “णीलाइचउण्हे" त्यादि, नीलादीनां चतुर्णा लेश्यामार्गणाभेदानां “कमा" क्रमाद् 'अतराः'-सागरोपमाणि दश त्रीणि द्वेऽष्टादशेति । सुगमा, नवरं नीलकापोततेजोलेश्याभेदानां प्रत्येकं मूलोक्ताः कायस्थितयः पूर्ववत्पल्योपमासंख्येयभागेनाभ्यधिका द्रष्टव्याः, मूलेऽधिकांशस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org