________________
उत्कृष्टा कायस्थितिः ]
द्वितीयाधिकारे कालद्वारम्
[ १७५
च जोवसमासेऽपि–“समयतिगं कम्मइगो" इति । “पल्लसयपुहुत्तमित्थीए " ति पल्यशतपृथस्त्रीवेदस्य, इत्यक्षरार्थः । इयं हि स्त्रीवेदमार्गणायाः कार्यस्थितिर्द्विधा व्याख्याता दृश्यते । तद्यथा“द्रव्प्रस्त्रीवेदोऽयः पल्योपमशत पृथक्त्वं यावदुत्कृष्टतो भवति ।" इति पञ्चसंग्रहमूलवृत्तौ । मलयगिरिवृत्त्यादौ पुनः "श्री पलियसयपुहुतं" ति स्त्रीदेदो जघन्यत एकं समयं, उत्कर्षतः पल्पमशतं पूर्वको टिपृथक्त्वं च । इत्यादि व्याख्यातम् । श्रोप्रज्ञापनायां तु पूर्वपूर्वतन सूरिमतभेदमुपदर्शयता भगवता आर्यश्यामेन पञ्चादेशाः प्रज्ञप्ताः । तद्यथा
31
" इत्थवे णं भंते ! इत्थीवेए त्ति कालओ केवचिरं होइ ? गोत्रमा ! एगेणं आए सेणं जहन्नेणं एगं समयं, उक्को सेणं दसोत्तरं पलिओत्रमस्यं पुत्रको डिपुहत्तमव्भहियं १ । एगेणं आएसेणं जहन्नेणं एवं समयं उक्कोसेणं अट्ठारस पलिओ माइ पुव्वको डिपुहुत्तमम्भहियाई २ । एगेणं आएसेणं जहन्नेणं एवं सयमं, उक्को नेणं चोदसपलिओ माई पुत्र्वकोडी पुहुत्तममहियाई ३ । एगेणं आए सेणं जहर नेणं एवं समयं उक्को सेणं पलिओ मसयं पुत्रको डिपुहुत्तमब्भहियं ४ । एणं आए सेणं जहन्नेणं एवं समयं उक्को - सेणं पलिओत्रमहुतं पुत्रको डिपुहुत्तमव्भहियं ति ५ । इति ।
,
तदत्र मूलोक्तप्रकृतकाय स्थितिरपि मतिमता - ऽविरोधेन व्याख्येयेति ॥ १६६ ॥ माण- संयमाणं समइअ - छेअ - परिहार-देसाणं ।
देसूणा पुव्वाणं कोडी एगा मुणेयव्वा ॥ १६७ ॥
(प्रे०) "मणणाणे"त्यादि, मनः पर्यवज्ञान- संयमौघमार्गणयोः सामायिक-छेदोपस्थापनपरिहारविशुद्धिक- देशसंयमानामित्येते पण्णां मार्गणाभेदानां प्रत्येकमुत्कृष्टा कायस्थितिः "देसूणा" ति वर्षाष्टकादिरूपैकदेशे नोना पूर्व्वाणामेका कोटिर्ज्ञातव्या । तत्र परिहारविशुद्धिकमार्गणावर्जानां शेषमनः पर्यवज्ञानादिमार्गणाभेदानामष्टवर्ष लक्षणेनैकदेशेनोना पूर्वकोटी बोद्धव्या, परिहारविशुद्धिकसंयमस्य त्वेकोनत्रिंशद्वर्षलक्षणेनैकदेशेनोना सा विज्ञेया, जघन्यतो विंशतिवर्षयतिपर्यायाणां तदङ्गीकरणस्य विहितत्वात् । उक्तं च-“गिहिपज्जाओ जहन्निगुणतीसा | जइपज्जाओ बीसा” इति । अत्र कोनत्रिंशद्वर्षाणि भवप्रथमसमयादारभ्य बोद्धव्यानीति ॥ १६७ ॥
दुअणाणा-यत-मिच्छाण अणाइधुवा अणाइ अधुवा य । साइ अधुवाय तिविहा तइआ हीणद्धपरिअट्टो ॥ १६८ ॥
(प्रे० ) " दुअणाणायते "त्यादि, विभङ्गज्ञानवर्जयो योरज्ञानमार्गणाभेदयोरसंयमस्य मिथ्यात्वस्य चेत्येतासां चतसृणां मार्गणानां प्रत्येकं प्रकृतोत्कृष्टकायस्थितिः “तिविहा" इति परेणान्वयः । अर्थात् स्वामिभेदात् त्रिविधा- त्रिप्रकारा भवति । तद्यथा - "अणाइधुवा" त्ति प्रथमाऽनादिधुवा, अनाद्यनन्ताऽभव्यजीवमपेक्ष्य ज्ञातव्या, तस्या - ssकालं मिथ्यात्वपरित्यागाभावात् । “अणाइअधुवा य" त्ति अनाद्यध्रुवा, अनादिसान्तेत्यर्थः, एषा भिन्नग्रन्थिकमन्यजीवापेक्षया ज्ञातव्या । कुतः ? अभिन्नग्रन्थिकत्वात्तदीयमिध्यात्वस्यानादित्वम्, भव्यत्वे नागामिकाले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org