________________
१७४ ]
वाणे मूलvasaइबंधो
[ मार्गणास्थानानामेकजीवाश्रया वि । पत्तेयबायरवणस्सइकाइए णं भंते! पुच्छा, गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरिं सागरोमकोडाकोडीओ ।" तथा "बायरनिगोए णं भंते ! बायरनिगोए त्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्को सेणं सत्तरिं सागरोत्रमको डाकोडीओ, ” इति ॥ १६५ ॥
देसूणसहस्ससमा बावीसुरलस्स तिसमया या । कम्मा-ऽणाहाराणं पल्लसयपुहत्तमित्थी ॥ १६६ ॥
1
(प्रे०) “देसूणसहस्से” त्यादि, देशोनसहस्रसमा द्वाविंशतिः, देशोनानि द्वाविंशतिवर्षसहस्राणीत्यर्थः । कस्येत्याह " - उरलस्स” त्ति औदारिककाययोगमार्गणायाः, उत्कृष्टकाय स्थितिरिति गम्यते । इयं हि खरबादरपृथिवीकायिकस्योत्कृष्टभवस्थित्यपेक्षया बोद्धव्या, केवलं तस्याऽपर्याप्तावस्थायामौदारिकमिश्रकाययोगसद्भावाद् भवप्रथमान्तमुहूर्त शुद्धोदारिककाययोगे न गृह्यते तस्योत्कृष्टभवस्थितिस्तु द्वाविंशतिवर्षसहस्राणि “बावीसा पुढवीए" इति वचनात् ततोऽन्तमुहूर्ते व्यपनी प्रकृतकाय स्थितिरवाप्यत इति । न च त्रिपल्योपमायुषां तिर्यग्मनुष्याणामौदारिककाययोगसद्भावेन साऽधिकाऽपि सम्पद्येतेति वाच्यम् । तेषां पर्याप्तावस्थायामौदारिकयोगादन्येषां मनोयोगादीनामप्यन्तरान्तरा सम्भवेन तदानीं मनोयोगादिप्रवर्तमानयोगप्राधान्यादौदारिककाययोग आमरणं नैरन्तर्येण न लभ्यते, किन्तूत्कृष्टतोऽप्यन्तमुहूर्तमेव, अतो न तदपेक्षयोक्ताfarara स्थितिसम्भव इति । “ति समया णेया" त्ति त्रिसमयाः प्रकृतोत्कृष्टकाय स्थितिर्ज्ञातव्या । कस्याः कस्या इत्याह- "कम्मा -ऽणाहाराणं” ति कार्मणकाययोगमार्गणाया अनाहारकमार्गणायाः प्रत्येकमित्यर्थः । यद्यप्यनाहारकमार्गणाया उत्कृष्टकायस्थितिरछद्मस्थजीवमपेक्ष्य साद्यनन्तभङ्गपतिताऽपि लभ्यते; तथापि स्थितिबन्धाद्युपयोगित्वात् प्राग्वत्तद्बन्धकछद्मस्थजीवापेक्षपा सा प्रकृतेऽभिहितेति । ननु छद्मस्थजीवापेक्षयाऽपि सा प्रज्ञापनासूत्रे उत्कृष्टतो द्वौ समयावेवाभिहिता । तथा च तद्ग्रन्थ:- "छउमत्थअणाहारण णं भंते ! छउमत्थअणाहारण ति कालओ के होइ ? गोमा ! जहन्नेणं एवं समयं उक्कोसेणं दो समया,” इति । तत्कथमत्र त्रिसमया उत्कृष्टकायस्थितिरभिधीयते ? इति चेद्, उच्यते, त्रित्रक्रायाश्चतुःसामयिक्या विग्रहगतेरपि प्रकृते विवक्षितत्वात् । इदमुक्तं भवति - एकद्वयादिपञ्चसमयान्ता विग्रहगतयो भवन्ति । उक्तञ्च "उजुया य एवंका दुहतोयंका गती विणिदिट्ठा । जुज्जर तिचरयंका वि नाम चउपंचसमयाओ ||" इति । ताभ्य एकद्वित्रिसामयिक्यो विग्रहगतयः प्रज्ञापनायां विवक्षिताः, न पुनश्चतुःसामयिकी पञ्चसामविकी वा । उक्त च तट्टीकायाम् — “ दोसमया" इति त्रिसामयिकी विग्रहगतिमधिकृत्य, चतुःसामयिकी पञ्चसामयिकी च विग्रहगतिनं विवक्षिता," इत्यादि ।
प्रकृतग्रन्थे तु पञ्चसामयिक्या विग्रहगत्या प्रायेण जन्तूनामनुत्पत्तेस्तां विहाय जीवसमासवच्चतुःसामयिकी विग्रहगतिरपि विवक्षिता, ततश्च तदपेक्षया कार्मणानाहारकमार्गणयोरेकजीवाश्रिता प्रस्तुतोत्कृष्टकाय स्थितिरपि श्रीप्रज्ञापनोक्तकाय स्थित्यपेक्षया समयाधिकाऽभिहिता । उक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org