________________
उत्कृष्टा कायस्थितिः ]
द्वितीयाधिकारे कालद्वारम्
[ १७१
तत्वार्थ भाष्ये तु — सर्वार्थसिद्धवर्जेषु चतुर्ष्वनुत्तरविमानभेदेषु केनाप्यभिप्रायेणोत्कृष्टा भवस्थितिद्वत्रिंशत्सागरोपमाण्येवाभिहिता । तथा चोक्तं तत्र - “सा विजयादिषु चतुर्ष्वप्येकेनाधिका द्वात्रिंशन् ।” इति ।। १५८-१५९-१६० ।। गता देवगतिभेदानामुत्कृष्टा कार्यस्थितिः । साम्प्रतमेकेन्द्रियादिजातिसत्कभणितशेषमार्गणाभेदानां तामाह
अंगुलअसंखभागो बायर एगिंदियस्स हुमाणं ।
तह पुहवाइ उन्हं या लोगा असंखेज्जा ॥१६१॥
(प्रे०) "अंगुलअसंख भागो" इत्यादि, अड्गुलस्यासंख्पभागः, -अङ्गुलस्याऽसंख्येयतमै भागमात्र क्षेत्रगताकाशप्रदेशेषु प्रतिसमय मे कैक प्रदेशापहारे यावान् कालोऽतिगच्छति, तावत्य असंख्येया उत्सर्पिण्यवसर्पिण्य इत्यर्थः । एतावान् कालो बादरै केन्द्रियमार्गणाभेदस्यैकजीवाश्रयो - त्कृष्टकाय स्थितिर्ज्ञेयाः । “मुहुमाणं" ति सर्वेषां 'सूक्ष्माणां' सूक्ष्मैकेन्द्रियादीनां पण्णामोघभेदानाम्, तथा समुच्चये, “पुहवाइचउण्हं” ति सूक्ष्मवादरपर्याप्तापर्याप्तविशेषणविरहितानां सामान्यपृथिव्यादिवायुकायान्तानां चतुर्णामोघभेदानाम् " या " त्ति प्रकृतकाय स्थितिज्ञेया । कियत्प्रमाणेत्याह- "लोगा असंखेज्जा" त्ति क्षेत्रतोऽसंख्येया लोकाः, लोकाकाशप्रमाणेष्वसंख्येयेवाकाशखण्डेषु प्रतिसमय मकैकस्मिन्नाकाशप्रदेशेऽपहृीयमाणे यावता कालेन ते सर्वे प्रदेशा हीयन्ते, तावानसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाणः काल इत्यर्थः । उक्तञ्च काय स्थितिपदे
"सुहमे णं भने ! सुहुमे त्ति कालतो केवच्चिरं होति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्को सेणं असंखेज्जं काउं असंखेज्जाओ उस्सप्पिणिओसप्पिणीतो कालतो, खेत्ततो असंखेज्जा लोगा, सुहुमपुढत्रिकाइते हुमाते हुम काइते सुहुमवाउकाइते सुहमनिगोदे विज० अंतोमुहुत्तं, उक्को० असंखेज्जं कालं असंखिज्जाओ उस्सप्पिणिओस्सप्पिणितो कालतो, खेत्ततो असंखेज्जा लोगा" इति ॥ १६९ ॥
वायरपज्जेगिंदिय-भू-दग - पत्ते - वाउ - विगलाणं ।
"
संखेज्जसहस्ससमा समत्तवेइंदियस्स संखसमा ॥ १६२ ॥ ( गीतिः ) (प्रे) "बायरपज्जेगिंदिये "त्यादि, बादरपर्याप्त शब्दस्य वायुकायान्तेषु प्रत्येकं योजनाद् बादरपर्याप्तैकेन्द्रियभेदस्य "भू" ति बादरपर्याप्तस्य 'भूकायिकस्य' - पृथिवीकायभेदस्य, तथा बादरपर्याप्तस्य "दग" त्ति दककायिकस्य, वादरपर्याप्ताष्काय भेदस्येत्यर्थः । तथा "पत्तेअ" ति बादरपर्याप्तप्रत्येक वनस्पतिकायभेदस्य अत्र बादरेति विशेषणं स्वरूपदर्शनपरं विज्ञेयम् । तथा “वाउ" ति बादरपर्याप्तवाउकाय भेदस्य, "विगलाणं” त्ति पर्याप्त पर्याप्त विशेषणविरहितानां द्वि-त्रि- चतुरिन्द्रियलक्षणानां विकलेन्द्रियौधभेदानामित्येवमष्टमार्गणाभेदानां प्रत्येकम् "संखेज्जसहस्ससमा " त्ति एकजीवाश्रयकाय स्थितिः संख्येयसहस्राणि 'समाः' - वर्षाणीत्यर्थः । उक्तं च“बायरेगिंदियपज्जत्तए णं भंते ! बायरेगिंदियपज्जत्तम त्ति कालओ केवच्चिरं होइ ? गोयमा ! जहनेणं अंतोमुहुत्तं, उक्कोसेणं संखेज्जाइ वाससहस्साइ" इति । तथा "बादरपुढविकाइयपज्जत्तए णं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only