SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १७० ] बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानानामेकजीवाश्रया "असुरेसु सारमहिय” इति । ततश्चोत्कृष्टा कायस्थितिरपि तावत्यभिहिता । एवमेवोत्तरत्रापि तत्तद्देवानामुत्कृष्टभवस्थित्यनुसारेणोत्कृष्टकायस्थिति पनीया। व्यन्तरादिदेवगतिभेदानामुत्कृष्टकायस्थिति दर्शयति-“पल्लं वंतरसुरस्स विमेया" ति एकदेशेन समुदायस्यावगमात् “पल्ल" ति पल्योपमंव्यंतरसुरभेदस्य विज्ञेया प्रकृतकायस्थितिः । तथा "पलिओवममभहियं" ति अभ्यधिकं पल्योपमं ज्योतिष्कदेवभेदस्य विज्ञेया । अत्र वर्षलक्षणाभ्यधिकमिति सोपस्कारं व्याख्येयम् । यदुक्तम्-“वंतर पल्ल, जोइस वरिसलक्खाहियं पलियं” इति । ___ अथ वैमानिकदेवभेदानामाह-“सोहम्माईणे"त्यादिना, सौधर्मादीनां क्रमाज्ज्ञातव्येति गाथाप्रान्तेऽन्वयः । कियतीत्याह-"अयरा दो" इत्यादि, सौधर्मकल्पाख्यप्रथमदेवगतिभेदस्य 'द्वावतरौ'-द्वौ सागरोपमावित्यर्थः । “साहिया दुवे" ति क्रमप्राप्तस्येशानकल्पदेवगतिभेदस्य साधिको द्वौ सागरोपमावुत्कृष्टकायस्थितिः। “सत्त" ति क्रमप्राप्तस्य सनत्कुमारकल्पदेवगतिभेदस्य सप्त सागरोपमाणि, तथैव "अब्भहिया सत्त य” त्ति अभ्यधिकानि सप्त सागरोपमाणि माहेन्द्रकल्पभेदस्येत्यर्थः । चः पादपूत्यें । एवं यथोत्तरं वाच्यम्, ततो ब्रह्मकल्पदेवभेदस्य “दश" त्ति दश सागरोपमाणि, लान्तककल्पदेव भेदस्य चतुदेश सागरोपमाणि, शुक्रकल्पस्य सप्तदश सागरोपमाणि, इत उपरितनदेवमेदानामाह-"एत्तो एगेगऽहिया" इत्यादिना, 'इतः' -शुक्रकल्पदेवगतिभेदादुत्तरम् “गेगहिया" ति एकैकाधिका 'अतराः'-सागरोपमाणि “णायव्या" ति एकजीवाश्रयोत्कृष्टा कायस्थितिर्जातव्या, "जाव एगतीसुदही” त्ति यावदेकत्रिंशदुदधयः-सागरोपमाणि । कस्येत्याह-"उवरिमविज्जस्स" त्ति नवम वेयकस्येत्यर्थः ।। अयम्भावः-महस्राराख्यस्याऽष्टमकल्पस्योत्कृष्टा कायस्थितिः शुक्रकल्पापेक्षयैकेन सागरोपमेणाधिकाऽष्टादश सागरोपमाणि ज्ञातव्या, साऽप्येकेन सागरोपमेणाधिककोनविंशतिः सागरोपमाण्यानताख्यनवमकल्पदेवभेदस्य ज्ञातव्या, अनया नीत्या प्राणतकल्पस्य विंशतिः सागरोपमाणि, आरणकल्पस्यैकविंशतिः सागरोपमाणि, अच्युतकल्पस्य द्वाविंशतिः सागरोपमाणि उत्कृष्टकायस्थितिः, प्रथमग्रे वेयकस्य सात्रयोविंशतिः सागरोपमाणि, द्वितीय वेयकस्य चतुर्विशतिः सागरोपमाणि, तृतीयग्रे वेयकभेदस्य पञ्चविंशतिः सागरोपमाणि, चतुर्थ वेयकभेदस्य पविंशतिः सागरोपमाणि, पञ्चमवेयकभेदस्य सप्तविंशतिः सागरोपमाणि, षष्ठवेयकभेदस्याऽष्टाविंशतिः सागरोपमाणि, सप्तम वेयकभेदस्यैकोनत्रिंशत्सागरोपमाणि, अष्टम वेयकभेदस्य त्रिंशत्सागरोपमाणि, नवमस्य सर्वोपरितन वेयकस्यकत्रिंशत्सागरोपमाणि प्रकृतोत्कृष्टकायस्थितिख़तव्येति । पञ्चानुत्तरदेवगतिभेदानां तर्हि कियतीत्याह-"तेत्तीसाऽणुत्तराण भवे" त्रयस्त्रित्सागरोपमाणि पञ्चानामनुत्तरविमानदेवगतिभेदानां भवेत्प्रकृता कायस्थितिः, सुगमा चैषा , एतेषु देवगतिभेदेधूत्कृष्टभवस्थितेरेतावत्प्रमाणत्वात् । उक्तञ्च-"दो साहि सत्त साहिय, दस चउदस सत्तर अयर जा सुक्को । इक्किक्कमहिय-मित्तो,जा इगतीसुवरि गेविज्जे ॥८॥ तित्तीसऽणुत्तरेसु" इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy