________________
उत्कृष्ट कार्यस्थितिः ]
द्वितीयाधिकारे कालद्वारम्
[ १६९
दुत्कृष्टाऽपि कार्यस्थिरन्तर्मुहूर्तादधिका न लभ्यते, एवमेवौदारिककाययोग - कार्मणकाययोगवर्जेषु काययोगभेदेष्वऽपि बोद्धव्यम् । ननु कस्मादौदारिककार्मणकाययोगौ वज्येते ? उच्यते, - प्रस्तुतग्रन्थविवक्षया विग्रहगतौ सम्भविनः कार्मणकाययोगस्य त्रिसमयादधिकाव स्थानाऽसम्भवात् त्रिसमयादधिका, तथा मनोवचो रोगरहितानामेकेन्द्रियाणां पर्याप्तावस्थायामौदारिककाययोगादन्ययोगानामसम्भवेना-ऽऽमरणमौदारिककायकोगस्यावस्थानाद् दीर्घा काय स्थितिरौदारिककाययोगस्य लभ्यत इत्येतौ द्वौ योग वर्ज्येत इति । प्रस्तुतग्रन्थविवक्षां तु यथावसरं दर्शयिष्याम इति । अपगतवेदस्य काय स्थितिरछद्मस्थजीवापेक्षया साद्यपर्यवसितभङ्गपतिता भवति, तथाऽपि छद्मस्थजीवापेक्षया सादिसपर्यवसितभङ्गपतिता दर्शिता । कस्मात् ? स्थितिबन्धादिनिरूपणोपयोगि काय स्थितेर्भण्यमानत्वात् । सा चोपशमश्रेणावन्तमुहूर्तमात्रोत्कृष्टतोऽपि लभ्यते, नाविकेति । कस्यापि जीवस्य क्रोधादिकषायोदयानामप्युत्कृष्टतः प्रत्यन्तमुहूर्तमन्यान्यकषायोदयतया नियमतः परावर्तनादेकजीवाश्रया क्रोधादिकषायमार्गणासत्कोत्कृष्टकायस्थितिरप्यन्तमुहूर्तादधिका न लभ्यते । यदुक्तम् -
“को हकसाई णं भंते ! कोइकसाइ त्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं उक्कोसेणं अंनो मुहुत्तं, एवं जात्र माणमायाकसाती | लोभकसाई णं भंते ! लोभ०पुच्छा, गोयमा ! जह० एक्कं समयं, उक्को०अंतोमुहुत्तं ।" इति ।
शेषस्तु सुगमः, सूक्ष्मसम्परायादिगुणानामन्तर्मुहूर्त मात्रावस्थानात् । उक्त च पञ्चस ंग्रहे“समयाओ अंतमु अनुकरणाउ जाव उसंतो ।” तथा “मी सुत्रसम अंतमुहू" इति ।। १५६- १५७ ॥ तदेवं दर्शिता तिर्यग्गतिभेदानामेकजीवाश्रयोत्कृष्टकायस्थितिः, तत्तुल्यवक्तव्यत्वादन्येपामपि बहुमार्गणाभेदानाम् । साम्प्रतं देवगतिसत्कशेषभेदानां दिदर्शयिपुराह
भवणस्स साहिदी पल्ल वंतरसुरस्स विष्णेया । पलिओमम भहियं जोइसदेवस्स णायव्वा ॥ १५८॥ सोहम्माईण कमा अयरा दो साहिया दुवे सत्त । अमहिया सत्त य दस चउदस सत्तरह णायव्वा ॥ १५९ ॥ एत्तो एगेगऽहिया णायव्वा जाव एगतीसुदही । उवरिमगेविज्जस्स उ तेत्तीसाऽणुत्तराण भवे ॥ १६०॥
( प्रे० ) “भवणस्स साहियुदही" त्यादिगाथात्रयम्, “भीमो भीमसेन" इति । न्यायेन 'भवनस्य ' - भवनपतिदेवभेदस्य साधिकेोदधिः, -साधिकसागरोपममुत्कृष्टकायस्थितिरित्यर्थः, नरकभव इव देवभवो निरन्तरमेक एव भवति, नाधिकः, मनुष्यतिरश्चामेवानन्तरभवे देवतयोत्पादात्, ततश्च देवानामपि या भवस्थितिः सैव कायस्थितिर्भवति । भवनपतिदेवेषूत्कृष्टा भवस्थितिरूत्तरदिग्वर्तिना मसुर कुमारनिकायदेवानाम् । सा च साधिकसागरोपममाना । यदुक्त' जीवसमासे
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org