________________
१६८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानानामेकजीवाश्रया सव्वापजत्ताणं समत्तवायरणिगोअकायस्स । पज्जतगसुहुमाणं पणवय-उरलमीसाणं ॥१५६॥ विउवा-ऽऽहारदुगाणं अवगयवेअस्स चउकसायाणं ।
सुहुमु-बसम-मीसाणं भिन्नमुहुरा मुणेयब्बा ॥१५७॥ (प्रे०) “सव्वापज्जत्ताण"मित्यादि, सर्वेषामपर्याप्तपञ्चेन्द्रियतिर्यगपर्याप्तमनुष्या-ऽपर्यासवादरैकेन्द्रिया--ऽपर्याप्तसूक्ष्मैकेन्द्रिया-ऽपर्याप्ततीन्द्रिया-ऽपर्याप्तत्रीन्द्रिया-ऽपर्याप्तचतुरिन्द्रिया-ऽपर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तवादरपृथिवीकायाप्कायतेजस्कायवायुकायसाधारणवनस्पतिकाया-ऽपर्याप्तसूक्ष्मपथिवीकायाप्कायतेजस्कायवायुकाया-ऽपर्याप्तप्रत्येकवनस्पतिकाया--ऽपर्याप्त साधारणवनस्पतिकाया-ऽपर्याप्तत्रसकाय लक्षणानां विंशतिसंख्याकानामप्यपर्याप्तमार्गणाभेदानां “समत्तबायरणिगोअकायस्स" त्ति समाप्तस्य-पर्याप्तस्य बादरनिगोदाख्यसाधारणवनस्पतिकायभेदस्येत्यर्थः । तथा "पज्जत्तगसुहमाणं" ति पर्याप्तकसूक्ष्मजीवभेदानाम्, ते च पर्याप्तकसूक्ष्मभेदाः पट, एकेन्द्रिय-पथिवीकाया-ऽ'काय-तेजस्काय-वायुकाय-साधारणवनस्पतिकायभेदात् । तथा "पणमणे'त्यादि, तत्र पञ्चशब्दस्य मनोवचसोः प्रत्येकं योजना होघोत्तरभेदभिन्नानां पञ्चानां मनोयोगभेदानां पञ्चानां वचोयोगभेदानामौ-दारिकमिश्रकाययोगभेदस्य चेत्यर्थः । अथान्यानप्यन्तमुहर्वोत्कृष्टकायस्थितिकान् मार्गणाभेदान् संगृह्याह-"विउवे"त्यादि,तत्र दुग' शब्दस्य प्रत्येकं सम्बन्धाद्वैक्रिय-क्रियमिश्रकाययोगयोढिकस्या-ऽऽहारका-ऽऽहारकमिश्रकाययोगयोकस्य चेत्यर्थः । तथाऽपगतवेदमार्गणाभेदस्व क्रोधादीनां चतुर्णा कायागां "सुहुमुवसममोसाणं" ति सूक्ष्मसम्परायसंयमस्योपशमिकसम्यक्त्वमिश्रदृष्ट्योरित्येतेषां पञ्चाशन्मार्गगाभेदानां प्रत्येकं "भिन्नमुहुत्तं मुणेयव्या" ति भिन्नमुहूर्त्तम्-, अन्तमुहूर्त ज्ञातव्या, एकजीवाश्रयोत्कृष्टकायस्थितिरिति गम्यते । लब्ध्ययर्याप्ततया नानाभवकरणेनाप्यन्तमुहूर्तादधिककालो नात्येति, तथा चाऽपर्याप्तावस्थाया उत्कृष्टमप्यवस्थानमन्तमुहूर्तमेवेति सर्वाऽपर्याप्तभेदानामुत्कृष्टकास्थितिरन्तमुहूत दर्शिता । यदुक्तं श्रीप्रज्ञापनासूत्रे
"अपज्जत्तए णं भंते ! अपज्जत्तए त्ति कालओ केवञ्चिरं होइ ? गोयमा ! जहन्नेण वि अंदोमुडुत्तं, उक्कोसेण वि अंतोमुहुत्तं,” इति ।
इत्थमेव पर्याप्तसूक्ष्मजीवभेदानां पर्यातमादरसाधारणवनस्पतिकायस्य च प्रत्येकं जघन्यत इवोत्कृष्टतोऽप्यन्तमुहूर्तमेव कास्थितिर्भवति, तत ऊर्ध्वं नियमान्मार्गणान्तरोत्पत्तेः । उक्तश्च
___"सुडुमे णं भंते ! अपज्जत्तए सुटुमअपज्जत्तर त्ति कालओ के अच्चिर होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्फोसेण वि अंतोमुहुत्तं । पुढधिकाइय-आउकाइय-तेउकाइय-बाउकाइय-वणस्सइकाइयाण वि एवं चेव, पज्जत्तयाण वि एवं, बायरनिगोयपज्जत्तए य बायरनिगोयअपज्जत्तए य पुच्छा, गोयमा ! दुन्नि वि जहन्नेण उक्कोसेणं वि अंतोमुहुत्तं ।" इति ।
मनोयोग-वचोयोगभेदानामुत्कृष्टतोऽन्तमुहूर्तादृषं स्वभावादेव योगान्तरतया परावर्तना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org