________________
[१६७
उत्कृष्टाकायस्थितिः ]
द्वितीयाधिकारे कालद्वारम् तिर्यक्-तिरश्चीलक्षणानां त्रयाणां पञ्वेन्द्रियतिर्यग्भेदानां तथैवापर्याप्तमेदवर्जानां त्रयाणां नरगतिभेदानां च प्रत्येकं ज्ञातव्येति गाथाप्रान्तेऽन्वयः, प्रकृतोत्कृष्टकायस्थितिरिति गम्यते । कतिप्रमाणा ज्ञातव्येत्याह-“पलिओवमा तिण्णि” इत्यादि, पुव्यस्स उ परिमाणं सयरिं खलु वास कोडिलक्खाओ। छप्पन्न च सहस्सा बोधव्या वासकोडीणं ॥” इत्यादिनाऽन्यत्राऽभिहितपरिमाणानां पूर्वाणां कोटिपथक्त्वेनाभ्यधिकानि त्रीणिपल्योपमानीत्यर्थः । उक्तं च-“तिरिक्खजोणिणी णंभंते ! तिरिक्खजोणिणि त्ति कालओ केवञ्चिरं होइ ? गोयमा ! जहन्नेणं अतोमुहुत्तं उक्कोसेणं तिन्नि पलिओ माई पुवकोडिपुहुत्तमभहियाई । एवं मणुस्से वि, मणुस्सी वि एवं चेव" इति। -
इत्थमेव शेषभेदेष्वपि बोद्धव्यम्, “पंचिंदियतिरिनराणं सत्तट्ठभवा उ उक्कोसा" इति वचनादिति । न च श्रीप्रज्ञापनायाम्-“तिरिक्खजोणियपज्जत्तए णं भंते ! तिरिक्खजोणियपज्जत्तपत्तिकालतो केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिन्नि पलिओबमाई अंतोमुहुत्तूणाई" इति ग्रन्थेन पर्याप्तपञ्चेन्द्रियतियग्भेदस्योत्कृष्टकायस्थितेरन्तमुहर्मोनत्रिपल्योपमाभिहितत्वात्, कथमेतत् सङ्गच्छेदिति वाच्यम् । यतः प्रज्ञापनासूत्र-प्रकृतग्रन्थयोः पर्याप्तमार्गणाविश्यकविवक्षाभेदादुभयत्र वचनभेदमात्रः, न पुनः काचिदसङ्गतिः । इदमुक्तं भवति-श्रीप्रज्ञापनायां पर्याप्त जीवतया करणपर्याप्ता एव गृहीताः, लब्ध्यपर्याप्ताः करणापर्याप्ताश्च वर्जिताः । ततस्तत्र “सत्तट्ठः भवा उ उक्कोसा" इति वचनोक्तसप्ताष्टभवप्रमाणकायस्थितिरुपादातुं न शक्यते, द्वितीयभवप्रथमसमयादेव करणापर्याप्तावस्थायाः प्राप्तः । इत्थं च तत्र द्वितीयभवप्रारम्भमाग पर्याप्तसत्का कायस्थितिनिष्ठां याति, तत्कुतः सप्ताप्टभवस्थितीनामनुसंधानसम्भवः । अत एव तत्रैकं त्रिपल्योपमस्थितिकं युग्मिभवमादाय तस्यापि प्रथममपर्याप्तावस्थासत्कमन्तमुहूर्त विवयं शेषाः स्थितिरुत्कृष्टकायस्थितितया दर्शिता । उक्त च तवृत्तौ मलयगिरिसूरिपादैः
“तिर्यसूत्रे जघन्यतोऽन्तर्मुहूर्तभावना प्रागिव, उत्कर्षतस्त्रीणि पल्योपमान्यन्तर्मुहूर्तोनानि, एतच्चोत्कृष्टायुषो देवकुर्वादिभाविनरतिरश्चोऽधिकृत्य वेदनीयम्, अन्येषामेतावत्कालप्रमाणायाः पर्याप्तावस्थाया अविच्छेदेनाप्राप्यमाणत्वात् , अत्राप्यन्तर्मुहूर्तोनत्वमन्तर्मुहूर्तस्याद्यस्याऽपर्याप्तावस्थायां गतत्वात्" इति ।
__ अत्र तु पर्याप्तनामकर्मोदयजन्यसर्वावस्थामपेक्ष्य कायस्थितिरभिहिता, पर्याप्तनामकर्मोदयस्तु करणापर्याप्तानामपि तदानीमपर्याप्तावस्थायां भवत्येव, ततश्चापर्याप्तावस्थासत्कमन्तमुहूर्त न वज्यंते, तथाचोत्कृष्टस्थितिकयुग्भिभवसम्बन्धिन्या त्रिपल्योपमस्थित्या सममनन्तरगतानां संख्येयवस्थितिकानां पर्याप्ततिर्यक्पञ्चेन्द्रियभवानां स्थितेरनुसन्धानमपि भवतीत्येवमत्र विवक्षाभेदादीर्घा कायस्थितिः प्रतिपादिता, न पुनः कश्चिन्मतान्तरोऽसङ्गतिर्वेत्यलं विस्तरेणेति ॥१५५।।
अथ क्रमप्राप्ताऽपर्याप्तपञ्चेन्द्रियतिर्यग्मार्गणास्थानस्य प्रस्तुतकायस्थितिं व्याजिहीर्ष स्तुल्यवक्तव्योपेता अन्या अपि मार्गणाः संगृह्य सममेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org