________________
उत्कृष्ट कार्यस्थितिः ]
द्वितीयाधिकारे कालद्वारम्
[ १६५
"विभंगणाणी णं भंते ! विभंगणाणि त्ति कालओ केवञ्चिरं होइ ? गोयमा ! जहण्णेणं एवं समयं. उक्को सेणं तेन्तीसं सागरोत्रमाइ देसृणाते पुव्वकोडीते अव्भहिताई" इति । (कायस्थितिपदे सूत्र - २४१)
इत्थमेव कृष्णलेश्यादिके शेषमार्गणात्रयेऽपि सामान्यतस्त्रयस्त्रिंशत्सागरोपमाण्यभिहिताऽपि प्रकृतकाय स्थितिरन्तमुहूर्तादिनाऽभ्यधिका द्रष्टव्या । कस्माद् ? उत्कृष्टस्थितिकस्य कृष्णलेश्याकनारकस्य कृष्णलेश्यायाः पूर्वोत्तरभवद्वयेऽन्तमुहूर्त सम्बन्धात् । इदमुक्तं भवति - सप्तमनरक उत्कृष्टस्थितिकतयोत्पित्सोः कस्यापि जीवस्य मनुष्यादिवर्तमानभवचरमान्तमुहूर्ते नियमेन कृष्णलेश्या समुद्भवति । सा च तदा निवर्तते, यदा तत्स्वामी नारकतयोत्पद्योत्कृष्टकायस्थितिं चातिवाद्य ततच्युत्वा पुनरपि तिर्यग्भवे भवप्रथमान्तमुहूर्तमतिगच्छति । एवं च तादृशमेकजीवमपेक्ष्य कृष्णया उत्कृष्ट कार्यस्थितिरन्तमु हर्तद्वयेनाधिकानि त्रयस्त्रिंशत्सागरोपमाणि भवति । उक्तं च श्रीप्रज्ञापनायाम् - " कण्हले से णं भंते ! कण्हलेसेत्ति कालतो केवञ्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीस सागरोवमाइ अंतोमुहुत्तमम्भहियाई” इति ।
T
इत्थमेव शुक्लेश्याया अपि मूलो काय स्थितिरन्तर्मुहुर्तेनाभ्यधिका द्रष्टव्या । यदुक्तं प्रज्ञापनासूत्रे कायस्थितिपदे- “सुक्कले से णं भंते ! सुक्कले से त्ति कालओ केवश्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्को सेणं तेत्तीस सागरोत्रमाई अंतोमुहुत्तमम्भहियाइ" इति । भावनाप्यत्र कृष्ण
यावदेव द्रष्टव्या नवरं मनुष्पभवायुत्वाऽनुत्तरविमाने उत्कृष्टस्थितिकदेवतयोत्पद्य पुनरपि मनुष्यभवे उत्पद्यमानजीवमपेक्ष्येति । क्षायिकसम्यक्त्वमार्गणायां तु न केवलेनाऽन्तमुहूर्तेनाभ्यधिका, न वा सूत्रो का साद्यनन्तभङ्गपतिता, किन्तु यावत् क्षपकश्रेणिमवाप्य स्थितेरवन्धको न भवति, तावत्पयन्ता बोद्धव्या । स्थितिबन्धाद्युपयोगिनीं कायस्थितिं प्रदर्शयितुं प्रवृत्तत्वादिति । महाबन्धकारैस्तु विभङ्गज्ञाने एकं पर्याप्तसंज्ञि पञ्चेन्द्रियजीवभेदमङ्गीकृत्याऽपर्याप्तावस्थायां विभङ्गज्ञानस्याभावेन भवद्रसत्कविभङ्गज्ञान कालस्य सान्तरत्वादन्तमुहूर्तोनत्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा कार्यस्थितिरभ्युपगम्यत इति ॥ १५२ ॥
अथ शेषनिरयगतिभेदानां प्रकृतकार्यस्थितिमाह
पढमा गणिरयाणं कमसो एगो य तिष्णि सत्त दस । सत्तरह य बावीसा तेत्तीसा सागरा णेया ॥ १५३॥
(प्रे० ) “पढमाइ गणिरयाण" मित्यादि, 'प्रथमादिकनिरयाणां' - प्रथमादिपृथिवीभेदैर्भिनानां प्रथमादिसप्तमान्तानां निरयगतिमार्गणाभेदानां क्रमशः 'ज्ञेया' इति गाथाप्रान्ते सम्बन्धः | उत्कृष्टकायस्थितिरिति गम्यते । क्रमशः कियती ज्ञेयेत्याह - "एगो ये" त्यादि, एतेषामेकत्र्यादीनां त्रयस्त्रिंशत्पर्यन्तनां संख्यापदानां प्रत्येकं "सागरा" इति परेणान्वयः । तत्र “सागरा" इति सागरोपमाणि, ततश्चायमर्थः - अर्थवशादूवचन विपरिणतेः प्रथमनिरयस्यैकजीवाश्रयोत्कृष्टा कायस्थितिरेकं सागरोपम र द्वितीयनिरयस्य तु सा त्रीणि सागरोपमाणि, एवं तृतीयस्य सप्त
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org