SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १६४ ] विहाणे मूलप डिइिबंधो [ मार्गणास्थानानामेकजीवाश्रया कथं कायस्थितिप्रमाणो नाभिहित: ? उच्यते एतासु विंशतिमार्गणासु कासुचिद्भव्या-ऽभव्यजीवविशेषमधिकृत्यैकत उभयतो वा निरवधिकासु भव्यादिमार्गणासु, कासुचिच्चै केन्द्रियादिष्व संख्येयलोकादि प्रमाणाऽतिब हुदीर्घकाय स्थितिकासु मार्गणासूत्कृष्ट कार्यस्थितिकालं निर्गमयद्भिर्जीवैरन्तराऽन्तरेत्कृष्ट स्थितिबन्धप्रायोग्यं संक्केशमवाप्य नियमेनोत्कृष्टस्थितिबन्धः क्रियते, ततच तासु मार्गणासु कस्यापि जीवस्यानुत्कृष्ट स्थितिबन्ध उत्कृष्टकायस्थितिं यावन्नैरन्तर्येण नैव प्रवर्तते, अत एतासु मार्गणास्वनुत्कृष्टस्थितिबन्धस्योत्कृष्टः कालो न उत्कृष्टकायस्थितिप्रमाणः, किन्तु ततोऽप्यत्यन्तहीनः सावधिकश्चेति तास्वसौ निरयगत्यौघादिमार्गणावदुत्कृष्टकाय स्थितिप्रमाणो नाभिहितः, किन्तु विशेषत एवाऽभिहित इति । । १५०।१५१॥ तदेवमुक्त एकेन्द्रियौघादिषु विंशतिमार्गणासु 'जेहो असंखलोगा' इत्यादिना विशेषेण, शेषासु निरयगत्योघादिपञ्चाशदुत्तरशतमार्गणासु तु 'उक्कोसा सगसगकायट्टिई' इत्यनेन सप्तानामनुत्कृष्टस्थितेरुत्कृष्टो बन्कालः स्वीयस्वीयोत्कृष्टकाय स्थितिरिति । तत्र कार्यस्थितिर्यद्यपि प्रकृतिबन्धे प्रदर्शिता, तथापि सा तत्र सामान्यतच्छद्मस्था छद्मस्थोभयावस्थामपेक्ष्यैवोक्ता, तत्र तस्या युज्यमानत्वात् । इह तु स्थितिबन्धस्य प्रस्तुतत्वेन तदुपयोगिनीम्, उत्तरत्रत्रक्ष्यमाणानुभागबन्धादिग्रन्थोपयोगिनीं चेति मत्वा के लछन स्थावस्थाधीनां पूर्वापेक्षया किञ्चिद्विशेषसमन्वितां तामाचष्टेकायटिई उकोसा णिरय-मराणं विभंगणाणस्स । किण्ड सहल - खडआणं तेत्तीसा सागरा णेया ॥ १५२ ॥ (०) "काय उक्कोसा" इत्यादि, निरुक्तस्वरूपा एकजीवाश्रयोत्कृष्टा कायस्थतिज्ञेयेति गाथाप्रान्तेऽन्वयः । केषां मार्गणास्थानानां कियती ज्ञेयेत्याह - " णिरयसुराण" मित्यादि, निरयगतिसामान्यस्य देवगतिसामान्यस्य विभङ्गज्ञानस्य कृष्ण-शुक्रलेश्या - क्षायिक सम्यक्त्वानामित्येतेषां पण्णां मार्गणास्थानानां प्रत्येकम् "तेत्तोसा सागरा" त्ति 'भीमो भीमसेन' इति न्यायेन पदेऽपि पदसमुदायोपचारात् त्रयस्त्रिंशत्सागरोपमाणीत्यर्थः । तत्र नैरथि - काणामुत्कृष्टभवस्थितिप्रमाणैवोत्कृष्टकायस्थितिरपि, नैरविकाणामनन्तरभवे नैरविकतयाऽनुत्पादात्, उत्कृष्टभवस्थिते स्त्रयस्त्रिंशत्सागरोपमप्रमाणत्वाच्च । उक्तं चागमे - नेरइए णं भंते ! कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं दसवाससहस्साइ उनको सेणं तेत्ती सं सागरोवमाइ " इति । इत्थमेव देवगतिसत्काऽपि वेदितव्या, देवानामप्यनन्तरभवे देवतयाऽनुत्पादात्, तदीयोत्कृष्टभवस्थितेस्त्रयस्त्रिशत्सागरोपमप्रमाणत्वाच्च । विभङ्गज्ञानस्योत्कृष्टा कार्यस्थितिरपि नैरथि - कस्योत्कृष्टभवस्थितिप्राधान्याल्लभ्यत इति सामान्यतस्त्रयस्त्रिंशत्सागरोपमप्रमाणा दर्शिताऽपि तत्तन्मतानुसारेण सोपस्कारं व्याख्येया । तद्यथा - श्रीप्रज्ञापनासूत्राऽभिप्रायेण देशोनपूर्वकोट्यभ्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि । उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy