________________
अनुरकृष्टस्थितेरुत्कष्टबन्धकालः ] द्वितीयाधिकारे कालद्वारम्
[ १६३ कुत्रेत्याह-"छसुहुमोघभेएसु” त्ति सूक्ष्मैकेन्द्रियादिषु पटषु सूक्ष्मजीवौषभेदेषु, ते च सूक्ष्मैकेन्द्रियोध-सूक्ष्मपृथ्वी कायौघ-सूक्ष्मा कायाध-सूक्ष्मतेजस्कायौघ-सूक्ष्मवायुकायौघ-सूक्ष्मसाधारणवनस्पतिकायौघमार्गणालक्षणा बोद्धव्याः। ननु "असंखलोगा" इत्यनेन कालतोऽसंख्योत्सर्पिण्यवसर्पिणीप्रमाणकालो व्याख्यातः, प्रकृते च "अंगुलअसंखभागो” इत्यनेनापि कालतोऽसंख्योत्सर्पिण्यवसपिण्य एवं व्याख्यातास्तत्कथं नाऽसङ्गतिः, असंख्यलोका-ऽङगुलासंख्यभागयोरतिमहदन्तरत्वात् ? इति चेद न, “सुहुमो य होइ कालो, तत्तो सुहुमयरयं हवइ खित्त"मिति वचनात् कालापेक्षया क्षेत्रस्यातिवहुसक्ष्मतयोक्तनीत्याऽङ्गुलासंख्यभागमात्रक्षेत्रगताऽऽकाशप्रदेशापहरणेऽप्यसंख्योत्सर्पिण्यषसर्पिण्य एवापकाम्यन्ति, केवलं ता असंख्यलोकप्रमाणक्षेत्रप्रदेशापहारेऽपगच्छदुत्सपिण्यवसर्पिण्यपेक्षयाऽसंख्येयभागमात्रा इति न काचिदसङ्गतिरिति । अथ मार्गणान्तरेप्वाह-- "ओघव्व" इत्यादिना, सप्तानामनत्कृष्टायाः स्थितेरुत्कृष्टो बन्धकाल ओघवदसंख्येयपुद्गलपरावर्तप्रमाणो भवति । कासु मार्गणास्थित्याह-"अणाणदुगे” इत्यादि, मन्यज्ञान-श्रुताज्ञानमार्गणाहयरूपेऽज्ञानदिले, असंयममार्गणायां तथाऽचक्षदर्शनमार्शणायां भव्यमार्गणायामभव्यमागंणायां मिथ्यात्वमार्गणायामित्येतासु सप्तमार्गणासु प्रत्येकमित्यर्थः । सुगमवायम् , ऑविककालापक्षराऽधिककालस्य कुत्राप्यमम्भवादिति । ___ अथ शेपमार्गणासु लाघवात्तत्तन्मार्गणायाः स्वम्वोकृष्टकायस्थितिप्रमाणः प्रकृतोत्कृष्टवन्धकाल इति दर्शयन्नाह-'सेसामु” इत्यादि, अनन्तरोता एकन्द्रियादिविंशतिमार्गणा विहाय शेपासु निरयगत्यादिपञ्चाशदुत्तरशतमार्गणासु प्रत्येकम् “उक्कोसा सगसगकायटिई" ति एकजीवस्य नैरन्तर्येण विवक्षितनारकादितत्तत्पर्याये उत्कृष्टावस्थानलक्षणैकजीवाश्रया निरयादितत्तन्मार्गणानां स्वकीया स्वकीयोत्कृष्टा कायस्थितिरित्यर्थः । अत्राऽपि व्याख्यानतः शेषमार्गणाऽन्तःप्रविटायामपगतवेदमार्गणायां 'सेसासु उस्कोसा सगसगकाढिईत्यनेनोत्कृष्टकायस्थितिरन्तमुहूर्तप्रमाणः प्राप्तोऽपि प्रस्तुतकालोऽन्तमुहूर्ततु ज्ञातव्यः, न तूत्कृष्टकायस्थितिः; उत्कृष्टकायस्थितेरन्तम हर्तप्रमाणत्वेऽपि तन्मये उपशान्ताद्धादिकालस्य प्रविष्टत्वात् , तदानीं च प्रकृतिबन्धसत्वेऽपि स्थितिबन्धस्याऽप्रवर्तनेन परिपूर्णोत्कृष्टकायस्थिति कालस्याऽसम्भवात् । कायस्थितिस्तु सर्वेमार्गणानां प्रक प्रकृतिबन्धेऽभिहिताऽपीह स्थितिबन्धमधिकृत्य किञ्चिद्विशेषतोऽनुपदमेव वक्ष्यमाणस्वरूपाऽवसातव्या । ननु कुत एतासु नरकगत्योधादिमार्गणासु प्रस्तुतबन्धकाल एकजीवविषयायाः मार्गणासत्कोस्कृष्टकायस्थितेस्तुल्यो भवति ? उच्यते, निरयगत्योपादिमार्गणासत्कोत्कृष्टकायस्थिति निर्गमयद्भिः कैश्चिजीवैः सकृदप्युत्कृष्टस्थितिबन्धप्रायोग्यसंक्लेशमनवाप्योत्कृष्टां मार्गणाकायस्थिति यावदुत्कृष्टस्थितिवन्धो न क्रियते, उत्कृष्टस्थितिवन्धाभावेऽनुत्कृष्टस्थितिबन्धस्तु तेयां मार्गणाप्रथमसमयादारभ्य मार्गणाचरमसमयं यावन्नरन्तर्येण प्रवर्तते, ततश्च सप्तकर्मणामनुत्कृष्टस्थितेरुत्कृष्ट बन्धकाल उत्कृष्टकायस्थितिप्रमाणो लभ्यत इति । ननु यद्येवं तडॅकेन्द्रियादिविंशतिमार्गणास्वप्यसौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org