________________
१६२ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुर्वर्जानाम् मार्गणाचरमसमयेऽनुत्कृष्टस्थितिबन्धं प्रारभ्य च मार्गणान्तरगमनेन तत्तन्मार्गणाविच्छेदप्रयुक्तो बोद्धव्यः, कासुचिन्मनोयोगादिमार्गणासु तु मार्गणाया वक्ष्यमाणसमयमात्रजघन्यकायस्थितिमपेक्ष्य प्रकारान्तरेणाप्यसौ लभ्यते, केवलं नपुंसकवेदमार्गणायां प्रस्तुतजघन्यबन्धकालः मार्गणाया जघन्यकायस्थितिमपेक्ष्यैव, न पुनरुत्कृष्टस्थितिबन्धादुत्तीर्य भवचरमसमयेऽनुत्कृष्टस्थितिबन्धप्रारम्भापेक्षयाऽपि । कस्माद् ? उत्कृष्टस्थितिबन्धादुत्तीर्य भवचरमसमयेऽनुत्कृष्टस्थितिबन्धस्य प्रारम्भकानां नपुंसकवेदिजीवानां भवचरमान्तमुहूर्ते उत्कृष्टस्थितिबन्धभावेन प्रागुक्तनीत्या भवान्तरे नपुंसकवेदितयैवोत्पत्तेर्नपुंसकवेदमार्गणाया विच्छेदाभावात् तद्विच्छेदाधीनः प्रकृतैकसमयबन्धकालो न लभ्यते, किन्तु जघन्यतोऽप्यन्तमुहूर्तमेव लभ्यते, अतः समयमात्रस्तु जघन्यकायस्थित्यनुसारेणोन्नेय इति । अत्र शेषमार्गणासु विस्तरभावना तूक्तदीशा कर्तव्या। तद्यथा-केनचिन्नारकजीवेन भवचरमसमये पूर्वप्रवृत्तं सप्तानामुत्कृष्टस्थितिबन्धं समाप्यानुत्कृष्टस्थितिवन्धः समारब्धः, अनन्तरसमये त्वसौ तत उद्धृत्य तिर्यक्तयोत्पन्नः, तत्र यद्यपि तस्य सप्तानामनुत्कृष्टस्थितिबन्ध एव प्रवर्तते, तथाऽपि नासौ निरगत्योधमार्गणायाम् , तदानीं तस्य निरयगतिवहिस्त्वात् , इत्येवं तस्य निरयगत्योधमार्गणामपेक्ष्य सप्तानामनुत्कृष्टस्थितेर्जधन्यबन्धकालः समयमात्रः प्राप्त इति । इत्थमेव शेषनिरयगतिभेदादी स्वयमेव भावनीय इति ॥१४७-१४८-१४९॥
तदेवं प्ररूपितः सर्वमार्गणासु सप्तानामनुत्कृष्टस्थितेर्जघन्यो बन्धकालः । साम्प्रतं तस्या एवाऽनुत्कृष्टस्थितेरुत्कृष्टं बन्धकालं दिदर्शयिपुर्गाथाद्वयमाह -
जेट्टो असंखलोगा एगिदि-णिगोअ-पंचकायेसु।। अंगुलअसंखभागो होइ छसुहमोघभेएसु॥१५०॥ ओघव्व अणाणदुगे अयता-ऽचक्खु-भवि-अभिवि-मिच्छेसु।
सेसासु उक्कोसा सगसगकायट्टिई यो ॥१५१॥ (प्रे०) “जेट्ठो असंखलोगा" इत्यादि, ज्येष्ठः-सप्तानामनुत्कृष्टस्थितेरुत्कृष्टो बन्धकालः पुनः "असंखलोग" त्ति क्षेत्रतोऽसंख्यलोकाः, असंख्येयेषु लोकाकाशप्रमितेष्वाकाशखण्डेश्वसत्कल्पनया प्रतिसमय मेकैकस्मिन्नाकाशप्रदेशेऽपहीयमाणे यावता कालेन ते सर्व आकाशप्रदेशा अपहीयन्ते तावान् काल इत्यर्थः। कालतस्त्वसावसंख्योत्सर्पिण्यवसपिण्यो भवति। कासु मार्गणास्वित्याह-"एगिदिणिगोअपंचकायेसु" ति एकेन्द्रियसाधारणवनौघमार्गणयोस्तथा पञ्चसु पृथिव्यादिवनस्पतिकायान्तास्वोधमार्गणासु प्रत्येकमित्यर्थः । अन्यत्राह-"अंगुलअसंखभागो होइ" त्ति अगुलासंख्येयतमैकभागप्रमाणक्षेत्रगताकाशप्रदेशेषु प्रतिसमयमेकैकस्मिन्नाकाशप्रदेशेऽपह्रीयमाणे यावान् कालोऽपगच्छति, तावान् कालो भवति । स च कालतोऽसंख्येयोत्सर्पिण्यवसर्पिण्य एव ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only