________________
अनुत्कृष्टस्थितेर्जघन्यबन्धकाल: ] द्वितीयाधिकारे कालद्वारम्
[१६१ भङ्गबहुला। तत्प्रतिपत्तौ जघन्येनाप्यन्तर्मुहूर्त लगति" इति । कृष्णाद्यशुभलेश्यामार्गणात्रये तु सुगमः, भवचरमसमयेऽनुत्कृष्टस्थितिबन्धं प्रारभ्य भवान्तर उत्पत्याऽपि कृष्णलेश्यादिमार्गगानां तत्राऽनुवर्तनादिति । ___ अथ यासु मार्गणासु प्रस्तुतः सप्तानामनुत्कृष्टस्थितेर्जवन्यवन्धकालो मत येन पृथक्पृथप्राप्यते तासु तथैव दर्शयन्नाइ-"खणो व भवे मिसतिजोगा-ऽवहिदुग-परिहारे” त्ति औदारिकमिश्र-वैक्रियमिश्रा-ऽऽहारकमिश्रकाययोगत्रयलक्षणेषु त्रियु मिश्रयोगेषु, अविज्ञाना-5वधिदर्शनलक्षणेऽवधिक परिहारविशद्धिकसंयमे च "खणी व भवे" त्ति 'मुहत्तंतो अगुरुठिईए लहु" इति पदानां देहलीदीयकन्यायेनात्राऽपि योजनात् सप्तानामनुत्कृष्टायाः स्थितेर्जघन्यो बन्धकालो मुहूर्तान्तः क्षणो वा भवेदित्यर्थः । तत्र मिश्रयोगत्रये शरीरपर्याप्तिनिष्ठापनप्रासमये वर्तमानानामेव जघन्योत्कृयस्थितिबन्धस्वामित्वमतेनाऽन्तमुहूर्तम् । कुतः ? मार्गणाप्रथमसमयादारभ्य प्रवृत्तानुस्कृष्टस्थितिवन्धस्य मिश्रयो चरमसमयं यावत् नैरन्तर्येण प्रवर्तनात्, मिश्रयोगजघन्यकालस्याप्यन्तर्मुहूर्तत्वाच । तदन्यमतेन त्वसौ 'क्षणः'-समयो ज्ञातव्यः, तन्मते मिश्रयोगचरमसमय इव तचिरमादि समयेत्कृष्टस्थितिवन्धस्य सम्भवात् । ततः किम् ? ततो ये केचनौदारिकादिमिश्रयोगिनः संज्ञिपञ्चेन्द्रियकरणापर्याप्ता मिथ्यादृष्टिजीवा मिश्रयोगचिरमसमय उत्कृष्टस्थितिवन्धं समाप्य चरमसमयेऽनुत्कृष्टस्थितिवन्धं प्रारभन्ते, तेवामनुत्कृटस्थितिरन्धस्य मिश्रयोगमार्गणानां समयमात्रप्रवर्तनात् जवन्यबन्धकाल एक समयः प्राप्यत इति । शेषमार्गगात्रये त्वसौ मतद्वयेन वक्ष्यमाणमार्गणाजवन्यकायस्थित्यनुसारेण विविध उक्तः, तत्रान्तमुहूर्तकालस्तु मतिज्ञानादिमार्गणापतिज्ञेयः, समयस्तु वक्ष्यमाणमनोयोगादिमार्गणावदिति ।
__"समयोऽत्थि सेसासु" ति उक्तशेषासु निरयगत्योघादिष्वेकोनचत्वारिंशदभ्यधिकशतमार्गणामु प्रत्येकं समयो भवति, सतप्रकृतिसत्कानुकृस्थिते वन्यो बन्धकाल इति गम्यते । उक्तशेषमागणास्तु नामत इमाः-सर्वे निरयगतिमार्गणाभेदाः, सर्वे तिर्यग्गतिमार्गगाभेदाः, सबै मनुष्यगतिमार्गणाभेदाः, सर्वे च देवगतिमार्गगाभेदास्तथा बादरैकेन्द्रियोध-पर्याप्ता-ऽपर्याप्तबादरेकैन्द्रिय-पर्याप्तसूक्ष्मैकेन्द्रियरूपाश्चत्वार एकेन्द्रियमार्गणाभेदाः, द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियपञ्चेन्द्रियमार्गणासत्कास्तु सर्वे भेदाः, तथैव पृथिव्यप्तेजोवायुकायप्रत्येकवनस्पतिकायमार्गणासत्का अपि सर्वे भेदाः, बादरसाधारणवनस्पतिकायोध-पर्याप्ता-ऽपर्याप्तरूपास्त्रयस्तथा पर्याप्तसूक्ष्मसाधारणवनरपतिकाय भेदश्च, त्रसकायमानणासत्कास्तु सर्वेऽपि, पञ्चमनोयोग-पञ्चवचोयोग-काययोगतामान्यौ-दारिक क्रिया-ऽऽहारक-कार्मणकाययोगभेदाः, स्त्री-पुरुष-नपुंसकवेदाः, अपगतवेदः, क्रोधादिचतुःकषायाः, मनःपर्यवज्ञान-विभङ्गज्ञान-संयमोघ-सामायिक-छेदोपस्थापन-सूक्ष्मसम्परायसंयमचक्षुर्दर्शन-तेजः-पद्म-शुक्ललेश्या-सासादन-संश्य-असंड्या ऽऽहारिमार्गणाभेदाश्चेति । एतासु प्रत्येकं सप्तानामनुत्कृष्टस्थितेर्जघन्यवन्धकालः प्रागुक्तनीत्या मार्गणाद्विचरमसमये उत्कृष्टस्थितिबन्धं समाप्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International