________________
१६० ]
वाणे मूलपइबंधो
[ मार्गणास्थानेष्वायुर्वर्णानाम् बन्धकालोऽन्तर्मुहूर्तमेव लभ्यते, न पुनः समयमात्रः । न च त्रसकायिकानां सर्वनिकृष्टं स्थानं नरकगतिः, सा च तेषां स्वभिन्नस्थानरूपा नास्ति, नारकाणां त्रसकायान्तर्गतत्वात्, यद्यप्येवं तथाऽपि सकायान्तर्गता देवा भवचरमान्तर्मुहूर्ते उत्कृष्टस्थितिबन्धं कृत्वा मार्गणान्तरे एकेन्द्रियतयोत्पद्यन्ते, अतो निरुक्तनियमो ऽतिव्याप्नोतीति वाच्यम् । यतस्त्रसकायिकानां स्वप्रायोग्य सर्वनिकृष्ट गमनस्थानं न केवलं नरकगतिरूपम्, तदनुवर्तिपञ्चेन्द्रियजातिरूपं च, किन्तु तिर्यग्गत्ये केन्द्रियजातिरूपमपि, कुतः ? नरकगतिवत् स्वप्रायोग्य सर्वसंक्लेशनिर्वर्तनीयत्वलक्षणस्य स्वप्रायोग्य सर्वनिकृष्टस्थानत्वस्य तत्रानपायात्, बध्नन्ति च त्रसकायान्तर्गता ईशानदेवलोकपर्यन्ता देवाः सर्वसंक्कशे सति तिर्यग्गतिमेकेन्द्रियजात्यादिकं च, तथा च सति नरकगत्यादिकमाश्रित्य सकायानां स्वप्रायोग्य सर्वनिकृष्टस्वभिन्नस्थानाभावेऽपि तिर्यग्गत्ये केन्द्रियजात्यादिकं समाश्रित्य स्वप्रायोग्यं सर्वनिकृष्टस्वभिन्नस्थानं विद्यत एव, अतो भवचरमान्तमुहूर्ते उत्कृष्टस्थितिबन्धं कृत्वा देवरूपाणां सकायिकानामेकेन्द्रियरूपायां त्रसान्यमार्गणायामुत्पत्याऽपि यथोक्तनियमो निराबाध एव । इत्थमेव पञ्चेन्द्रियमार्गणागतजीवानामप्युत्पत्तिप्रायोग्यसर्वनिकृष्टस्थानस्य द्विविधत्वेन स्वभिन्नस्थानाऽविरहादोषानापत्तेरित्यलं विस्तरेण । इदमत्र बोध्यम्-यदुक्तं पञ्चेन्द्रियतिर्यङ्मनुष्याणां नरकरूपम्, नारकाणां तिर्यक्पञ्चेन्द्रियरूपम्, देवविकलेन्द्रियाणामेकेन्द्रियादिरूपम्, तथैव पर्याप्तानामपर्यातरूपं, बादराणां सूक्ष्मरूपं, त्रसानां स्थावररूपं यथासम्भवं सर्वनिकृष्टं स्थानं वेदितव्यम्, तत्रापि मनुष्यतिर्यगादीनां नरकादिषु पञ्चम- पष्ठ- सप्तमनरकादिरूपं स्वप्रायोग्यं सर्वनिकृष्टस्थानमित्यादिकं समयाविरोधेन भावनीयमिति । अथ प्रस्तुतमेवोच्यते-मत्यज्ञान - श्रुतज्ञानमार्गणाद्वये त्वौधिकानुत्कृष्टस्थितिबन्धस्य जघन्यकालवद् भावना कर्तव्या, तथैवाऽचक्षुर्दर्शना-संयम-भव्या-भव्यमिथ्यात्वमार्गणास्वपि प्रत्येकं भावनीयम् । मतिज्ञान - श्रुतज्ञानमार्गणयोः सम्यक्त्वकालस्य जघन्यतोऽप्यन्तर्मुहूर्तत्वात् तदपेक्षया प्रस्तुतान्तमुहूर्त कालो भावनीयः । इत्थमेव देशसंयम-सम्यक्त्वसामान्यौ-पशमिकसम्यक्त्व-वेदकसम्यक्त्व- क्षायिकसम्यक्त्वमार्गणासु मिश्रदृष्टिमार्गेणायां च प्रत्येकं भावना कर्तव्या । ननु सम्यक्त्वौघादिमार्गणासु मार्गणापरावर्तनप्रयुक्त एकसमयजघन्यबन्धकालः कथं न लभ्यते ? उच्यते, सम्यक्त्वौघादिमार्गणासु मिथ्यात्वाद्यभिमुखानामुत्कृष्टस्थितिबन्धभावान्नासावुत्कृष्टस्थितिबन्धो मार्गणाविच्छेदादर्वाग् विचरमसमये व्युपरमते, किन्तु चरमसमयं यावत्प्रवर्तते ततश्च चरमसमयेऽनुत्कृष्टस्थितिबन्धस्यैवाऽभावात्कुतस्तस्य मार्गणापरावृत्तिप्रयुक्तो व्याघातः स्यात्, तदभावे च कुत एकसमयः प्रस्तुतजघन्यबन्धकालः, न कुतश्चिदित्यर्थः । न च देशसंयममार्गणायां मरणव्याघातेन मार्गणाविच्छेदादवग्भावी चरमस्थितिबन्धोऽनुत्कृष्ट एव, स कदाचिदेकसमयो लभ्येतेति वाच्यम् । यतो देससंयमप्रत्तिपत्तेरारभ्य प्रवृत्तानुत्कृष्टस्थितिबन्धोऽपि जघन्यतोऽन्तमुहूर्तं प्रवर्तत एव कुतः ? भङ्गबहुलदेशविरतिप्रतिपत्तौ जघन्येनाऽप्यन्तर्मुहूर्तकालस्य गमनात् । उक्तं चश्रीमन्मलयगिरिपादैः श्रीप्रज्ञापनावृत्तौ — “देशविरतिर्हि द्विविधत्रिविधादि
1
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org