________________
अनुत्कृष्टस्थितेर्जघन्यबन्धकालः ] द्वितीयाधिकारे कालद्वारम्
[ १५९ विद्यते । भवचरमसमयेऽनुत्कृष्टस्थितिबन्धस्य प्रारम्भका बादरपर्याप्त केन्द्रियाद्या नियमतो भवचरमान्तमुहर्ते उत्कृष्टस्थितिबन्धस्य कर्तारः, तथा च सति तेषां ततश्च्युत्वा सूक्ष्मापर्याप्तकेन्द्रियतया मार्गणान्तरे उत्पत्या प्रकृतमार्गणाया विच्छेद एव, एवं च सति भवचरमसमयारब्धस्यानुत्कृष्टस्थितिबन्धस्य प्रस्तुतबादरपर्याप्तकेन्द्रियादिमार्गणायां समयमात्रप्रवृत्तेादरपर्याप्तकेन्द्रियादिमार्गणास्वनुत्कृष्टस्थितेर्जघन्यबन्धकालोऽन्तमुहूर्तं नोक्तः, किन्तु समय एव वक्ष्यतीति । एकेन्द्रियोध-सूक्ष्मैकेन्द्रिया-ऽपर्याप्तसूक्ष्मैकेन्द्रिय-बनस्पतिकायसामान्य-साधारणवनस्पतिकाय-साधारणसूक्ष्मवनस्पति-- काया-ऽपर्याप्तसाधारणसूक्ष्मवनस्पतिकायरूपप्रस्तुतसप्तमार्गणागतजीवानां नास्ति किश्चित्स्योत्पत्तिप्रायोग्यं स्वस्थानाद्भिन्न मार्गणान्तररूपं सर्वनिकृष्टं स्थानम् । कुतः ? प्रस्तुतैकेन्द्रियादितत्तन्मागणाया एव तेषां सर्वनिकृष्टस्थानरूपत्वात्, अन्यासामनिकृष्टत्वाच्च । भवचरमसमयेऽनुत्कृष्टस्थितिबन्धस्यारम्भकाः प्रकृतैकेन्द्रियादितत्तन्मार्गणागतजीवा मृत्वाऽनन्तरं सूक्ष्मापयर्याप्तवनस्पतितयोत्पद्यमानाः स्वस्वमार्गणायामेवोत्पद्यन्ते, न तु मार्गणान्तरे; अतः कालकरणेऽपि न तेषां प्रकृतमार्गणाविच्छेदप्रयुक्तोऽनुत्कृष्टस्थितेर्जघन्य एकसमयो बन्धकालः । मार्गणान्तरे उत्पित्सूनां तु प्रस्तुतसप्तमार्गणागतजीवानां भवचरमान्तमुहर्ते उत्कृष्टस्थितिबन्ध एव न भवति, कुतः ? एकेन्द्रियोघादिस्वस्वमार्गणाभ्यो या अन्याः प्रस्तुतमार्गणागतजीवानामुत्पत्तिप्रायोग्या मार्गणास्तास्तेषां न सनिकृष्टस्थानरूपाः, अतस्तत्रोत्पित्सूनां तत्तद्वीन्द्रियादिमार्गणान्तराभिमुखानां तेषां भवचरमान्तमुहूर्ते न परम उत्कृष्टस्थितिबन्धप्रायोग्यः संक्लेशः, तथा च सति तेषां भवचरमान्तमुहर्तेऽनुत्कृष्टस्थितिवन्ध एव, तस्य च कालकरणेनाधिकृतमार्गणाविग्छित्याऽपि सप्तानामनुत्कृष्टस्थितिबन्धस्य प्रकृतमार्गणायां जघन्यतोऽप्यन्तमहूर्तमेव प्रवर्तनं लभ्यते, भवचरमान्तमहूर्तात् पूर्वत एव प्रवृत्तस्यानुत्कृष्टस्थितिबन्धस्य मरणं यावत् प्रस्तुतमार्गणायां नियमतः प्रवर्तनात् । कालकरणाभावे तु प्रस्तुतमार्गणानां परावृत्तेरसम्भवादिति । ननु सूक्ष्मापर्याप्तपृथिवीकायिकादिमार्गणाभेदेषु कथं प्रस्तुतकालोऽन्तम हूत नोक्तः ? उच्यते, सूक्ष्मापर्याप्तपृथिवीकायिकादिमार्गणाभेदेषु प्रत्येकशरीरिण एव जीवाः प्रविष्टाः । तेषां चास्ति स्वप्रायोग्यं सर्वेनिकृष्टं स्वस्थानादिन्नं साधारणवनस्पतिकायमार्गणारूपं स्थानान्तरम्, अतस्तत्रोत्पित्सूनां तेषां भवचरमसमयारब्धानुत्कृष्टस्थितिबन्धापेक्षयाऽपि सप्तानामनुत्कृष्टस्थितेर्जधन्यबन्धकालो नान्तमुहूर्तम् , किन्तु समय एव ।
अयमत्र परमार्थ:-येषां हि स्वप्रायोग्यं सर्वनिकृष्टं पारभविकोत्पत्तिस्थानं मार्गणान्तररूपं नैव वर्तते, ते हि यदि भवचरमान्तमुहर्ते स्वप्रायोग्यमुत्कृष्टं स्थितिबन्धं कुर्वन्ति, तदा स्वकीयवर्तमानमार्गणायामेवोत्पद्यन्ते, तेषां च भवचरमसमयप्रारब्धानुत्कृष्टस्थितिबन्धस्य कालोऽन्तमुहूर्तमेव, न पुनरेकसमयः, भवचरमसमयेऽनुत्कृष्टस्थितिवन्धं प्रारभ्य मार्गणान्तरे उत्पित्सुजीवापेक्षया तल्लाभात् । प्रस्तुतैकेन्द्रियादिसप्तमार्गणागतजीवानां स्वीयस्वीयमार्गणाभ्यो भिन्नाः स्वप्रायोग्यसर्वनिकृष्टस्थानरूपा अन्यमार्गणा न सन्ति, अत उक्तनीत्या तास्वनुत्कृष्टस्थितेर्जघन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org