________________
१५८ ]
'धविहाणे मूलपडिटिबंधो
[ मार्गणास्थानेष्वायुर्वर्जानाम् मेव पूर्वत्रोत्तरत्र चावसातव्यम् । पञ्च ेन्द्रियतिरथां पुनर्नरकगतावप्युत्पादात् तेषां पञ्च न्द्रियाणामुत्पत्तिप्रायोग्यं सर्वनिकृष्टं स्थानं नरकगतिः पञ्चेन्द्रियजात्यादयश्च ।
ननु अत्र पञ्चेन्द्रियत्वस्य सर्वापकृष्टस्थानतया ग्रहणं नैव युज्यते, पञ्चेन्द्रियतिरश्चामेकेन्द्रियजातावप्युत्पादात् तस्याश्च पञ्चेन्द्रियजात्यपेक्षयाऽपकृष्टत्वात् ? इति चेद्, न, जातिष्वपि गतिरेवप्रधाना, अपकृष्टगत्यनुवर्तिनी सामान्यतोऽनिकृष्टजातिरपि निकृष्टतया गृह्यते, कुतः ? पञ्च न्द्रियजातेरपि नरकगत्या समं बध्यमानतया सर्वसंक्लेशेन निर्वर्तनात् । वस्तुतः स्वप्रायोग्योत्कृष्टसंक्लेशनिर्वर्तनीयानां गति -जात्यादीनां स्वप्रायोग्य सर्वापकृष्टस्थानरूपत्वेनाभिमतत्वादिति । यथा तिर्यक्पञ्चेन्द्रियाणां तथा मनुष्याणामपि बोध्यम् । देवगतिभेदेषु त्वीशानकल्पान्तानां देवानां तिर्यग्गतिरेकेन्द्रियजात्यादिकं च सर्वनिकृष्टमुत्पत्तिप्रायोग्यं स्थानम्, न पुनः सनत्कुमारादिसहस्रारकल्पान्तानापि तत् । कुतः ? तेषां सनत्कुमारादीनामेकेन्द्रियेष्वनुत्पादाद्, अत एव तेषां सर्वनिकृष्टमुत्पत्ति प्रायोग्यं स्थानं तिर्यक्पञ्चेन्द्रियरूपमेव । आनतकल्पादिवासिनां तु मनुष्यरूपमेव सामान्यतोऽनिकृष्टानुत्कृष्टं स्थानम् । स्वप्रायोग्योत्कृटस्थितिबन्धानुकूलसंक्ले शवद्भिरपि तैर्मनुष्यगतेरेव निर्वर्तनात् । अन्यच्च भवचरमान्तमुहूर्ते ये जीवा यादृक्स्थानाभिमुखास्तादृशस्थानानुरूपपरिणाम भाजः प्रायशो भवन्ति, अतो नरकाभिमुखमनुष्याणामिवैकेन्द्रि यतयोत्पित्सूनां भवचरमातमुहूर्तं निर्वहतामीशानकल्पान्तदेवानां तादृशानां विकलेन्द्रियाणां भवचरमान्तर्मुहूर्ते उत्कृष्टसंक्क - शसम्भवः, न पुनस्तदन्येषां भवचरमान्तमुहूर्त निर्वहतामीशान कल्पान्तदेवानां विकलेन्द्रियाणां वा, एवमेव तिर्यक्पञ्चेन्द्रियतयोत्पसूनां सनत्कुमारादीनां सहस्रारान्तदेवानामेकेन्द्रियतयोत्पत्सूनामेकेन्द्रियाणां च भवचरमान्तमुहूर्ते उत्कृष्टसंक्के शसम्भवः, न तु तदन्येषां मनुष्यतयोत्पित्सूनां सनत्कुमारादिसहस्रारान्त देवानां द्वीन्द्रियादितया वोत्पित्सूनामेकेन्द्रियाणाम् एवं सति प्रकृते एकेन्द्रिय तयोत्पित्सूनामेकेन्द्रियाणां भवचरमान्तमुहूर्ते उत्कृष्टस्थितिबन्धसम्भवः । भवचरमसमयेऽनुत्कृष्टस्थितिबन्धस्य प्रारम्भकानां तेषां च्यवनानन्तरं स्वगतिष्वेवोत्पच्या न च मार्गणाविच्छेदः, न वा तेषां तत्रापर्याप्तावस्थायामुत्पत्तिसमयप्रभृत्याऽन्तमुहूर्तं यावदुत्कृष्टस्थितिबन्धोऽपि सम्भवति; तथा सति पूर्वभवचरमसमयप्रारब्धानुत्कृष्टस्थितिबन्धस्य प्रकृतमार्गणायामेव जघन्यतोऽप्यन्तमुहूर्त यावन्नैरन्तर्येण प्रवर्तनादेकेन्द्रियादिसप्तमार्गणासु सप्तकर्मणामनुत्कृष्टस्थिते बन्धकालो जघन्यतोऽप्यन्तमुहूर्तमुक्तः । ननु यद्येवं तर्हि बादरपर्याप्तै केन्द्रियादिमार्गणास्वपि कथमसावनुत्कृष्टस्थितेर्जघन्यबन्धकालोऽन्तर्मुहूर्तं नोक्तः ? उच्यते, यथा द्वीन्द्रियादीनामेकेन्द्रियमार्गणारूपं स्वप्रायोग्यं सर्वनिकृष्टं स्थानं स्वस्थानाद्भिन्नमस्ति, ततश्च तत्रोत्पित्सूनां भवचरमसमयेऽनुत्कृष्टस्थितिबन्धस्य प्रारम्भकानामपि द्वीन्द्रियादीनामनन्तरसमय एकेन्द्रियतयोत्पच्या द्वीन्द्रियादिमार्ग - णायामनुत्कृष्टस्थितेर्वन्धकाल एकसमयो लभ्यते, तथा बादरपर्याप्तै केन्द्रियादिमार्गणागतजीवानामप्युत्पत्तिप्रायोग्यं सूक्ष्मापर्याप्तै केन्द्रियादिरूपं सर्वनिकृष्टं स्वस्थानाद्भिन्न मार्गणान्तररूपं स्थानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org