________________
[१५७
अनुत्कृष्टस्थितेर्जघन्यबन्धकालः ] द्वितीयाधिकारे कालद्वारम् योगावस्थायामेव प्रवर्तते, किन्तु साकाराऽनाकारान्यतरोपयोगावस्थायामपि प्रवर्तते, इत्येवं नासौ साकारोपयोगक्षये उत्कृष्टस्थितिबन्धवत् क्षयं याति, येन साकारोपयोगचरमसमयप्रवृत्तानुत्कृष्टस्थितिबन्धस्य साकारोपयोगक्षयप्रयुक्तो जघन्यबन्धकाल उत्कृष्ट स्थितिबन्धजयन्यकालवत् समय मात्रः सम्पद्यत । तर्हि कथं लभ्यते ? अनुत्कृष्टस्थितिवन्धप्रारम्भद्वितीयसमये कालकरणेनाऽन्यथा वा प्रस्तुतमार्गणाया मार्गणान्तरतया परावर्तनात्, प्रस्तुतमार्गणाया विच्छेदादिति भावः । अत्रैकजीवाश्रयगतिजातीन्द्रियादिमार्गगाभेदानां विच्छेदस्ततद्गत्यादौ वर्तमानस्य जीवस्य कालकरणेनैव लभ्यते, नान्यथा । मनोयोगादिमार्गणानां तु कालकरणेन, कालकरणाभावे तु मार्गणान्तरगमनेन वाऽन्यतरप्रकारेणाऽपि विच्छेदः प्राप्यते, काययोगोध-मत्यज्ञान-श्रुताज्ञान-मतिज्ञानादिकतिपयमागेणानां तु मागेणापरावत्यैव विच्छेदः प्राप्यते, न पुनर्मरणव्याघातेन । यद्यप्येवं तथाप्यधिकृतमार्गणाभ्यः केवलेन मरणव्याघातेन विच्छेदयोग्यास्वेकेन्द्रियादिषु प्रथमोपात्तसप्तमार्गणासु ये जीवा भवद्धिचरमसमये उत्कृष्टस्थितिवन्धं समाप्य भवचरमसमयेऽनुत्कृष्ट स्थितिजन्यं प्रारभन्ते, ते तदनन्तरं मृत्वा प्रकृतमार्गणायामेवोत्पद्यन्ते, अत एतासु सप्तमार्गणासु भवचरमसमयेऽनुत्कृष्टस्थितिबन्यस्य प्रारम्भकानां कालकरणेऽपि मार्गणाविच्छेदस्याऽभावात् , मार्गणाविच्छेदप्रयुक्तोऽनुत्कृष्टस्थितेजघन्यो बन्धकाल एकसमयो न प्राप्यते, किन्तु जयन्यतोऽप्यन्तमुहूर्तमेव लभ्यते ।
ननु कुत एते भवचरमसमयेऽनुत्कृष्टस्थितिवन्धस्य प्रारम्भकाः प्रस्तुतैकेन्द्रियादिसप्तमार्गणागतजीवा अनन्तरसमये मत्वैकेन्द्रियादिप्रस्तुतमार्गणायामेवोत्पद्यन्ते, न पुनर्मार्गणान्तरेऽपि ? इति चेद, उच्यते, भवचरमसमयेऽनुत्कष्टस्थितिबन्धस्यारम्भका हि नियमतो भवद्विचरमसमय उत्कष्टास्थितिवन्धस्य निष्ठापकाः सन्ति, विहायोपशान्तमोहगुणस्थानकगतजीवान् । स च भवदिचरमसमये नियापितः स्वप्रायोग्योत्कृष्ट स्थितिबन्धस्तत्प्रायोग्योत्कष्ट संक्रशं विना न जायते, एवं हि ते नियमेन भवचरमान्तमहर्ते मरणाभिमखावस्थायां स्वप्रायोग्योत्कटस्थितिबन्धानुकूलसंक्ले शोपेताः सन्ति, भवचरमान्तमुहूर्ते स्वप्रायोग्योत्कृष्टस्थितिबन्धानुरूपसंत शवतां जीवानां तु वर्तमानमनुष्यपञ्चेन्द्रियादिभवेभ्यश्व्युत्वा स्वप्रायोग्य सर्वनिकृष्टेषु नरकतिर्यगेकेन्द्रियादिस्थानेपुत्पत्तिर्जायते । तथाहि-नारकाणामुत्पत्तिप्रायोग्यं सर्वनिकृष्टं स्थानं तिर्यग्गतिः पञ्चन्द्रियजात्यादयश्च । कुतः ? तेषां बन्धप्रायोग्यमनुष्यगत्यपेक्षया तिर्यग्गतेरधमत्वात् । पञ्चन्द्रियजात्यपेक्षया यद्यपि चतुरिन्द्रियाद्यधमजातयः सन्ति, तथापि ता न नारकाणां बन्धप्रायोग्याः, अतः पञ्चन्द्रियजातिरेयोपादीयते, न त्वेकेन्द्रियादयः । तिर्यग्गतावेकेन्द्रियाणां ततश्च्युत्वोत्पत्ति प्रायोग्यं सर्वनिकृष्टं स्थानं तिर्यग्गतिरेकेन्द्रियजात्यादिकं च, न तु नरकगतिरपि, एकेन्द्रियाणां तत्रानुत्पादात् , शेषाणां मनुष्यगति-धीन्द्रियजात्यादिस्थानानां तिर्यग्गत्येकेन्द्रियजात्यादिस्थानापेक्षयोत्कृष्टत्वाच्च । द्वीन्द्रियादिलक्षणानां विकलाक्षाणामुत्पत्तिप्रायोग्यं सर्वापकृष्टं स्थानं तिर्यग्गतिरेकेन्द्रियजातिसूक्ष्मस्वादयश्च । अत्रादिपदादपर्याप्तत्व-नपुंसकवेदित्वादिकमवमतमस्थानतया यथासम्भवं ग्राह्यम् । इत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org